Wednesday, December 2, 2020

Pandavas' Final Journey - पाण्डवानां महाप्रस्थानम्


महाभारतयुद्धानन्तरं पाण्डवज्येष्ठः युधिष्ठिरः श्रीकृष्णसहायः षट्त्रिंशत् संवत्सरकालं राज्यं प्रशशास | तदभ्यन्तरे पितृव्यो धृतराष्ट्रः पितृव्या गान्धारी माता कुन्ती च दावानाले भस्मसादभवन् | श्रीकृष्णस्य संकल्पात् मुनिशापग्रस्तं यादवकुलं अन्तःकलहेन विनाशं गतम् | श्रीकृष्णः स्वेच्छया भूलोकलीलां समाप्य पार्थिवशरीरं विससर्ज | कृष्णसारथिदारुकमुखात् तद्दरुणवार्तां विश्रुत्य पाण्डवास्सर्वे शोकोपहता बभूवुः | मध्यमपाण्डवः अर्जुनः द्वारकानगरीं प्राप्य अवशिष्टान् यादवबालकगणं स्त्रीसमूहं च परं कृच्छ्रात् हास्तिनपुरम् निनाय | तत्र द्वारकापुरीं समुद्रो बभक्ष | कृष्णविरहितं भूतलवासम् अनिच्छन्तो देवांशाः पाण्डवा अपि स्वावतारसमापनाय मनश्चक्रुः | रुग्मिण्यादिस्त्रियः अग्निप्रवेशं चक्रुः | कश्चन स्त्रीगणः वनं प्राविशत् |

राजपदे पौत्रं परिक्षितमभिषिच्य भ्रातरं युयुत्सुमामन्त्र्य पाञ्चालीसहिताः पादचारिणः पञ्चपाण्डवा हास्तिनपुरात् निर्ययुः | गाण्डीवधारी अर्जुनः अन्यपाण्डवा निरायुधा आर्यावर्तं परिभ्रम्य हिमवत्प्रदेशं प्रापुः | तत्र अग्निदेवस्य वचनात् अर्जुनेन गाण्डीवधनुः जले संत्यक्तम् |

ततःपरं भ्रातृकलत्रानुगो युधिष्ठिरः मेरुपर्वतप्रदेशे स्वर्गमार्गे प्रपद्यत | श्वानोप्येकः तस्य अनुचरोभूत् | किञ्चित् कालेन द्रौपदीदेवी आयासात् पपात | तद्दृष्ट्वा भीमसेनो युधिष्ठिरं द्रौपदीपतनस्य कारणं पप्रच्छ |

भीमः - द्रौपदी सर्वदा धर्मपरयणा | कथं तस्याः पतनम्?

युधिष्ठिरः - अर्जुने अधिका प्रीतिः एव तस्याः पतनस्य कारणम् |

किञ्चित्कालेन कनिष्ठस्य सहदेवस्य पतनमभवत् |

भीमः - सहदेवः अस्मासु परमशुश्रूषापरः | तस्य पतनं कथम्?

युधिष्ठिरः - आत्मनः समः प्राज्ञः नास्ति लोके इति तस्य मनसि | तस्मात्तस्य पतनम् |

किञ्चित्कालेन नकुलः न्यपतत् |

भीमः - नकुलोयं सर्वदा वचनपालकः | कुतोस्य पतनम्?

युधिष्ठिरः - आत्मनः समो रूपवान् नास्ति लोके इति धारणं तस्य पतनास्य कारणम् |

किञ्चित्कालात् अर्जुनोऽपि पपात |

भीमः - अर्जुनस्तु सत्यसंधः | कदापि अनृतं नाचरितं तेन | तस्य पतनस्य कारणम्?

युधिष्ठिरः - वीर्यदर्पितोयं धनञ्जयः एकस्मिन् दिने एव कौरवपक्षं संहरामीति उक्त्वा तत् कार्यं न साधितवान् | एतत् वचनस्खलनमेव तस्य पतनास्य कारणम् |

किञ्चित्कालेन भीमोऽपि धराशायी बभूव |

भीमः - भ्रातः, तव प्रियोऽहम् | मम पतनं केन कारणेन?

युधिष्ठिरः - अतिभोजनः त्वम् | परेषु उपेक्षा च | इत्येव तव पतनकारणम् |

युधिष्ठिरः एवं पतितान् भ्रातृकलत्रान् समुत्सृज्य श्वानेन अनुसृतः स्वर्गद्वारं प्राप | तत्रापि इन्द्रेण यमधर्मेण च परीक्षितः सः सदेहः स्वर्गं प्रविष्टः | स्वर्गे सः दुर्योधनादीन् वीक्ष्य तत्र वासमनिच्छन् देवदूतेन नरकं प्रापितः | द्रोणवधप्रसङ्गे अनृतवचनकारणात् नरकदर्शनं जातं युधिष्ठिरस्य | ततः सः पूतो भूत्वा प्राकृतशरीरं परित्यज्य दिव्यवपुषा स्वर्गं जगाम | अन्ये पाण्डवा द्रौपद्यपि मूलरूपेण स्वर्गमलञ्चक्रुः |

(यथा वेदव्यासप्रणीतमहाभारतनिरूपितम्)

Monday, October 12, 2020

तपोमूल्यम् Value of Penance


पावनावनेः भारतखण्डस्य वङ्गभूमौ नैके महापुरुषाः प्राप्तजन्मानः | परमहंसः रामकृष्णः तेषु अन्यतमः | एकोनविंशे क्रैस्तशताब्दे जीवितः सः महाकालीभक्तः | ध्यानैकतत्परस्य तस्य अणिमादिसिद्धयः हस्तगता इति प्रतीतिरासीत् | तथापि सः कदापि स्वतपोबलं न प्रदर्शयति स्म |

एकदा प्रयाणप्रसङ्गे नदीं तितीर्षुः रामकृष्णः नदीतीरं प्राप्नोत् | तदानीमेव महायोगी एकः तत्र आगमत् | रामकृष्णः नाविकाय आतररूपं रूप्यकमेकं दत्त्वा नौकया कूलान्तरं प्राप्नोत् | परन्तु सः योगी तु स्वयोगबलात् जलोपरि चलित्वा अन्यत् तीरं प्राप्तः | योगिनः तद् अद्भुतकार्यं दृष्ट्वा जना मूकविस्मिता जाताः | गर्वितमनाः सः योगी रामकृष्णं प्रति विकत्थमानः उवाच - "दृष्टं भोः मम जलोपरि गमनम्? त्रिंशद्वर्षैः उग्रतपोभिः साधितमेतत् सामर्थ्यं मया | तव योगसाधनेन किं प्रयोजनम्?"

तच्छ्रुत्त्वा स्मयमानो रामकृष्ण उवाच - "हे योगिमहाशय, यद्भवता महता कष्टेन साधितं जलतरणं तस्य मूल्यं केवलं रूप्यकमेकम् | जीवनस्य बहुमूल्यसमयं व्यतीत्य त्वं निष्प्रयोजकविद्यां प्राप्तवान् | तदेव समयः भगवच्चिन्तने संगच्छते चेत् जन्म एव सार्थकं भवति" |

व्रीडितो योगिवर्यः ततः नतमस्तकः निर्जगाम |

English translation:
In the Bengal area of the holy Indian continent, many great people were born. Paramahamsa Ramakrishna was one of them. He lived in the 19th CE and was a devotee of Goddess Mahakali. He was always focused in meditation and it was known that he had many mystical powers. Even then, he never used to show his special powers.

Once, during a journey, desiring to cross a river, Ramakrishna reached the river bank. At the same time, a great yogi came there. Ramakrishna gave one rupee as a fee, and reached the other side of the river by a boat. But that yogi with his yogic power, walked on the water and reached the other shore. Seeing the astonishing act of the yogi, the people were awestruck. Full of pride, the yogi boastingly said to Ramakrishna - "Did you see me walking on the water? This ability was attained by me after thirty years of heard penance. What is the use of your yogic meditation?"

Hearing that, Ramakrishna said smilingly - "Hey great yogi, the walking-on-water that you achieved by great difficulty is worth only one rupee. After spending  great valuable time of life, you obtained a worthless knowledge. If you spend the same amount of time in the spiritual thoughts, your life itself would be meaningful".

Ashamed, the yogi went away from there with his head hanging down.

Thursday, October 1, 2020

लालबहादुरशास्त्री Lal Bahadaur Shashtri

 


राष्ट्रप्रधानी द्वितीयोसावद्वितीयो राजशासने |

लालोयं भरतखण्डस्य यवदुग्धप्रवृद्धिकरः ||

जयतु योधः कृषीवलो रणघोषेणारिमर्दनः |

वामनमूर्तिर्महाकीर्तिर्निस्स्वार्थी च भारतरत्नः ||


पदच्छेदः

राष्ट्रप्रधानी द्वितीयः असौ अद्वितीयः राजशासने |

लालः अयम् भरतखण्डस्य यवदुग्धप्रवृद्धिकरः ||

जयतु योधः कृषीवलः रणघोषेण अरिमर्दनः |

वामनमूर्तिः महाकीर्तिः निस्स्वार्थी च भारतरत्नः ||

सरलार्थः

He was nation's (India's) second prime minister, but was second to none in governance. This Lal was improver of grains and milk (sectors in India).
With the war cry of "hail to the soldier, hail to the farmer", he defeated the enemy (in the war of 1965). His physical stature was small, but fame was big. He was not selfish. He was a diamond of India (was awarded Bharata Ratna - the highest civilian award of India).

Sunday, September 27, 2020

महाभारतसंग्रहः-भागः २ Mahabharata Summary-Part 2


पाण्डवाः द्रौपद्या सह पाञ्चालदेशतः हास्तिनपुरं प्राप्तवन्तः | राजा धृतराष्ट्रः तेभ्यः खाण्डवप्रस्थप्रदेशं दत्तवान् | यद्यपि तत्र वनम् आसीत् तथापि पाण्डवाः तत्र इन्द्रप्रस्थनगरस्य निर्माणं कृतवन्तः | नूतननगरे पाण्डवाः राजसूययागं कृतवन्तः | भीमः जरासंधं मारितवान् | पाण्डवाः संपूर्णभारते विजयं प्राप्तवन्तः | यदा यागसमये ते श्रीकृष्णं पूजितवन्तः तदा शिशुपालः पाण्डवान् श्रीकृष्णं च निन्दितवान् | तदा श्रीकृष्णः चक्रेण शिशुपालं मारितवान् |

कौरवाणाम् अपेक्षया पाण्डवानाम् ऐश्वर्यम् अधिकम् आसीत् | अतः दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् | पाण्डवाः पराजिताः यतः दुर्योधनस्य मातुलः शकुनिः कपटः आसीत् | यदा कौरवसभायां द्रौपदीदेवी अपमानिता तदा श्रीकृष्णः तां रक्षितवान् | आगामियुद्धे सर्वान् कौरवान् मारयामि इति भीमः प्रतिज्ञां कृतवान् | यथा द्रौपदी प्रार्थितवती तथा धृतराष्ट्रः पाण्डवेभ्यः राज्यं पुनः दत्तवान् | परन्तु दुर्योधनः पाण्डवान् द्यूतार्थं पुनः आहूय तान् जितवान् | यथा क्रीडानियमः आसीत् तथा पाण्डवाः द्वादशवर्षकालं वनवासं कृतवन्तः | वनवासकाले अर्जुनः शङ्करेण पाशुपतास्त्रं प्राप्तवान् | सः इन्द्रलोकं गत्वा नृत्यविद्याभ्यासं कृतवान् | भीमः मारुतिना सह मिलितवान् | सः अनेकान् राक्षसान् मारितवान् |

त्रयोदशे वर्षे पाण्डवाः विराटनगरे गुप्तरूपेण उषितवन्तः | अज्ञातवासकाले यदि पाण्डवानां परिचयः भवति तर्हि पुनः वनवासः भवति इति नियमः आसीत् | विराटनगरे यः कीचकं मारितवान् सः भीमः एव इति कौरवाः चिन्तितवन्तः | पाण्डवान् द्रष्टुं ते विराटनगरं प्राप्तवन्तः | परन्तु यदा कौरवाः विराटनगरं प्राप्तवन्तः तदा पाण्डवानाम् अज्ञातवासः समाप्तः अभवत् |

पाण्डवानां राज्यं दातुं दुर्योधनः निराकृतवान् | कौरवपाण्डवयोः मध्ये अष्टादशदिनकालं युद्धम् अभवत् | युद्धस्य आरम्भकाले यदा अर्जुनः मम विजयः वा पराजयः वा भवतु, परन्तु युद्धं न करोमि इति उक्तवान् तदा श्रीकृष्णः भगवद्गीताम् उपदिष्टवान् | युद्धे भीष्मः पतितवान् | यावत् उत्तरायणकालः न आगच्छति तावत् शरशय्यायां तिष्ठामि इति भीष्मः उक्तवान् | यथा भीमः उक्तवान् आसीत् तथा सः सर्वान् कौरवसहोदरान् युद्धे मारितवान् | श्रीकृष्णस्य साहाय्येन पाण्डवाः विजयं प्राप्तवन्तः | युद्धानन्तरं पाण्डवाः श्रीकृष्णः च यत्र भीष्मः आसीत् तत्र गतवन्तः | भीष्मः विष्णुसहस्रनामस्तोत्रेण श्रीकृष्णं पूजितवान् | पाण्डवाः षट्त्रिंशतिवर्षकालं धर्मेण राज्यं पालितवन्तः | यदा श्रीकृष्णस्य अवतारकार्यं समाप्तं तदा पाण्डवाः अपि स्वर्गारोहणं कृतवन्तः |

यदा यदा हि धर्मस्य ग्लानिः भवति भारत |
अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् || (भगवद्गीता ४.७)

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः |
तत्र श्रीविजयः भूतिः ध्रुवा नीतिः मतिः मम || (भगवद्गीता १८.७८)


Thursday, September 17, 2020

महाभारतसंग्रहः-भागः १ Mahabharata Summary-Part 1


हास्तिनपुरस्य महाराजः पाण्डुः आसीत् | यदा पाण्डुः ऋषिशापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत् | पाण्डोः भार्याद्वयम् - कुन्ती माद्री इति | वने एव कुन्त्याः त्रयः पुत्राः जाताः | माद्र्याः द्वौ पुत्रौ जातौ | ते पञ्चपाण्डवाः इति प्रसिद्धाः | धृतराष्ट्रस्य अपि शतं पुत्राः जाताः | ते कौरवाः इति ख्याताः | वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्ती पुत्रैः सह हास्तिनपुरम् आगतवती | तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासः अभवत् | कौरवाणाम् अपेक्षया पाण्डवानां बलम् अधिकम् आसीत् | कौरवज्येष्ठः दुर्योधनः लाक्षागृहे पाण्डवान् मारयितुं प्रयत्नं कृतवान् | कुन्त्या सह पाण्डवाः गृहात् बहिः आगत्य वनं प्रविष्टवन्तः | वने पाण्डवश्रेष्ठः भीमः हिडिम्बासुरस्य वधं कृतवान् | ततः पाण्डवाः एकचक्रनगरं प्राप्तवन्तः |


यदा पाण्डवाः एकचक्रनगरे वसन्ति स्म तदा कुन्ती ब्राह्मणकुटुम्बस्य रोदनं श्रुतवती | यदा सा ब्राह्मणं कारणं पृष्टवती तदा सः ब्राह्मणः उक्तवान् - “बकासुरस्य भोजनाय मम कुटुम्बे कः गच्छति इति चिन्ता भवति” | कुन्ती उक्तवती - “चिन्ता मास्तु | अहं मम पुत्रं भीमं प्रेषयामि यतः सः बलवान् अस्ति | सः गच्छति चेत् बकासुरस्य मरणं निश्चयेन भविष्यति” | यथा कुन्ती उक्तवती तथा भीमः शकटे अन्नं स्थापितवान् | यत्र बकासुरस्य गुहा आसीत् तत्र सः गतवान् | यावत् बकासुरः गुहायाः बहिः न आगतवान् तावत् भीमः अन्नं खादितवान् | बकासुरः बहिः आगत्य भीमम् उक्तवान् - “यदि भवान् मह्यम् अन्नं न ददाति तर्हि अहं भवन्तं खादामि |” भीमः सर्वम् अन्नं खादितवान् | भीमः बकासुरं मारितवान् |


यः मत्स्ययन्त्रस्य भेदनं करोति सः द्रौपद्या सह विवाहं करोति इति पाण्डवाः श्रुतवन्तः | ते यत्र द्रौपदीदेव्याः स्वयंवरः आसीत् तत्र गतवन्तः | कौरवाः अपि तत्र आगतवन्तः | यदा कर्णः आगतवान् तदा द्रौपदी उक्तवती - “कर्णेन सह विवाहं न करोमि यतः सः सूतपुत्रः अस्ति” | पाण्डवमध्यमः अर्जुनः मत्स्ययन्त्रस्य भेदनं कृतवान् | यथा कुन्ती उक्तवती तथा द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत् |


Monday, September 14, 2020

M.Vishveshvarayya तन्त्रज्ञशिरोमणिः विश्वेश्वरय्यः

 Biography of Sir M. Visvesvaraya (1888-1970) - Robolab Technologies Pvt.  Ltd.

मोक्षगुण्डं विश्वेश्वरय्य इति विश्वविख्याततन्त्रज्ञः १८६०तमे क्रैस्ताब्दे सप्टेंबरमासस्य पञ्चदशदिनाङ्के अजायत | सः आङ्ग्लभारते महिषूरुराज्यस्य (State of Mysore) प्रधानसचिवपदवीं समलङ्कृतवान् | आङ्ग्लसर्वकारेण "सर्" उपाधिना गौरवान्वितः  | स्वातन्त्र्योत्तरभारते शतायुषी सः भारतरत्नभूषितः | श्रमजीविनः तस्य शतशः तान्त्रिककार्याणि देशविदेशेषु प्रसिद्धानि अद्यत्वेपि जनोपयोगीनि वर्तन्ते | तस्य जन्मदिनं तन्त्रज्ञदिवसः इति आचर्यते |

विश्वेश्वरय्यः कर्णाटजातो महिषूरुमन्त्री तन्त्रप्रवीणः |
स्थापत्यशास्त्रे लोकाग्र्यगण्यः स्ववृत्तिधर्मे ह्यादर्शप्रायः ||

अब्बन्धनानां निर्माणकर्ता यन्त्रोद्यमानां भूयो विधाता |
देशान्तरेषु बहुकार्यकारी भारतरत्नो बिरुदाङ्कधारी ||

Thursday, August 20, 2020

युद्धकाण्डसंग्रहः - Summary of Yuddhakandam

 

मारुतिः लङ्कानगरात् प्रत्यागतवान् | रामः सीतायाः वृत्तान्तं शृत्वा दुःखितः अभवत् | रामः वानरसैन्येन सह समुद्रतीरं प्राप्तवान् | तत्र लङ्कानगरे रावणस्य अनुजः विभीषणः आसीत् | सः रावणम् उदितवान् - “रामस्य बाणः राक्षसकुलस्य नाशं करिष्यति | भवान् रामं शरणं गच्छतु” इति | परन्तु रावणः तस्य वचनं न श्रुतवान् | विभीषणः रामस्य समीपं गतवान् | वानरसेना समुद्रस्य उपरि सेतुबन्धनं कृतवती | रामः सैन्येन सह लङ्काद्वीपं प्रविष्टवान् | वानरराक्षससैन्ययोः मध्ये युद्धम् आरब्धम् अभवत् | अनेके वानराः राक्षसाः च वीरगतिं प्राप्तवन्तः | रावणपुत्रस्य मेघनादस्य मायायुद्धेन रामलक्ष्मणौ पतितवन्तौ | पक्षिराजः गरुडः तत्र आगत्य तौ भ्रातरौ स्पृष्टवान् | गरुडस्य स्पर्शेन रामलक्ष्मणौ पुनः हर्षं लब्ध्वा युद्धाय सिद्धौ अभवताम् | रावणः स्वयं रणरङ्गम् आगतवान् | मारुतेः मुष्टिप्रहारात् रावणः मूर्छितः अभवत् | पुनः सः उत्थाय युद्धं कृतवान् | मारुतेः स्कन्धे उपविश्य रामः रावणस्य रथस्य शस्त्राणां च नाशं कृतवान् | रावणः लज्जया स्वभवनं गतवान् | अनन्तरं रावणः युद्धाय अनुजं कुम्भकर्णं प्रेषितवान् | रामः कुम्भकर्णं मारितवान् | मेघनादः युद्धाय पुनः आगतवान् | तस्य ब्रह्मास्त्रेण रामलक्ष्मणौ पुनः पतितवन्तौ | तदा मारुतिः हिमालयं गत्वा ओषधिपर्वतम् आनीतवान् | ओषधिप्रभावात् रामलक्ष्मणौ सचेतौ अभवताम् | मारुतिः पुनः लङ्घयित्वा ओषधिपर्वतं तस्य स्थाने स्थापितवान् | पुनः युद्धस्य आरम्भः अभवत् | लक्ष्मणः मेघनादं मारितवान् | रावणः युद्धे लक्ष्मणं घातितवान् | लक्ष्मणः मूर्छितः अभवत् | मारुतिः पुनः हिमालयप्रदेशं गत्वा ओषधिपर्वतम् आनीतवान् | तस्य प्रभावेन लक्ष्मणः उत्थितवान् | देवेन्द्रः रामाय दिव्यरथं प्रेषितवान् | रामः रथे स्थित्वा रावणेन सह युद्धं कृतवान् | युद्धे रामः रावणं मारितवान् | रामः विभीषणं लङ्कायाः राजपदे स्थापितवान् | मारुतिः आकाशमार्गेण अयोध्यां गतवान् | “रामः शीघ्रम् अयोध्यां प्राप्स्यति” इति सः भरतं सूचितवान् | रामः परिवारेण सह अयोध्यानगरं प्राप्तवान् | अयोध्यायां रामस्य राज्याभिषेकः अभवत् |

Thursday, July 9, 2020

अरण्यकाण्डसंग्रहः - Summary of Aranyakandam



रामः लक्ष्मणेन सीतया च सह दण्डकारण्यं प्रविशति । तत्र अरण्ये विराधः नाम राक्षसः वसति । विराधः सीतायाः अपहरणाय प्रयत्नं करोति । रामलक्ष्मणौ विराधेन सह युध्यतः । विराधः मरणं प्राप्नोति । रामः बहुभिः ऋषिभिः सह मिलति । सः अगस्त्यमुनिना सह अपि मिलति । मुनेः वचनात् रामः लक्ष्मणः सीता च पञ्चवटीप्रदेशं प्राप्नुवन्ति । तस्मिन् सुन्दरे प्रदेशे सुन्दर्याः नद्यः सुन्दराणि पुष्पाणि च भवन्ति । तत्र आश्रमे ते सुखेन निवसन्ति । शूर्पणखा रावणस्य भगिनी । एकदा सा पञ्चवटीम् आगच्छति । सा रामस्य रूपे अनुरक्ता भवति । रामेण निराकृता सा लक्ष्मणं प्रार्थयति । लक्ष्मणेन अपि निराकृता शूर्पणखा सीतां प्रति धावति । तदा लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तयति । शूर्पणखायाः अन्यः भ्राता खरः समीपे वसति । सा भ्रातुः खरस्य समीपं गच्छति । खररामयोः मध्ये युद्धं भवति । रामः खरस्य उपरि बहून् बाणान् मुञ्चति । राक्षसः खरः मरणं प्राप्नोति । शूर्पणखा रावणाय सर्वं वृत्तान्तं निवेदयति । रावणः मातुलस्य मारीचस्य साहाय्यं प्रार्थयति । रावणस्य भयात् मारीचः सुवर्णमृगस्य रूपं धरति । सीता सुवर्णमृगाय रामं प्रार्थयति । रामः आश्रमात् निर्गच्छति । सः मृगस्य पृष्ठतः दूरं गच्छति । रामः बाणेन मृगं मारयति । मृगः मरणसमये रामस्य ध्वनिं अनुकरोति । सीता तं ध्वनिं शृणोति । “मम पतिः साहाय्यम् इच्छति । तस्य समीपं गच्छतु” इति सीता लक्ष्मणं कथयति । लक्ष्मणः आश्रमात् निर्गच्छति । रावणः संन्यासिरूपं धरति । सः सीताम् आश्रमात् अपहरति । जटायुः नाम खगः दशरथस्य मित्रं तस्मिन् वने वसति । जटायुः रावणेन सह युद्धं करोति । रावणः जटायुं खड्गेन प्रहरति । रावणः सीतया सह लङ्कानगरं प्राप्नोति । तत्र सीतां अशोकवने स्थापयति । रामः लक्ष्मणः च आश्रामं प्रत्यागच्छतः । आश्रमे तौ भ्रातरौ सीतां न पश्यतः । रामः दुःखितः भवति । सीतां वने सर्वत्र अन्विष्यति । एकत्र सः पतितं जटायुं पश्यति । जटायुः रावणस्य वृत्तान्तं कथयति । रामलक्ष्मणौ अग्रे चलतः । तौ वीरौ कबन्धराक्षसस्य उभौ बाहू कर्तयतः । मरणसमये कबन्धः रामं कथयति - “पम्पासरोवरप्रदेशे सुग्रीवः निवसति । तस्य समीपं गच्छतु” । अनन्तरं तौ शबर्याः आश्रमं गच्छतः । रामस्य दर्शनात् शबरी मुक्तिं प्राप्नोति । ततः रामः लक्ष्मणः च पम्पासरोवरप्रदेशं प्रविशतः ।

Meanings of some words:
अनुरक्त = interested
मुञ्चति = releases
साहाय्यम् = help
निराकृत = rejected
अनुकरोति = imitates
एकत्र = at one place
उभौ = both (two)
ततः = thereafter (afterwards)/from there

Thursday, July 2, 2020

अयोध्याकाण्डसंग्रहः Summary of Ayodhyakandam

पितृभक्त्या पुरत्यागं सीतया लक्ष्मणेन च ।
कृत्वा वनं गतो रामः भरतः पादुकाधरः ॥

दशरथः अयोध्यायाः महाराजः । दशरथस्य कौसल्या सुमित्रा कैकेयी इति पत्न्यः । कौसल्यायाः पुत्रः रामः । सुमित्रायाः पुत्रौ लक्ष्मणः शत्रुघ्नः च । कैकेय्याः पुत्रः भरतः । रामस्य पत्नी सीता । एकदा भरतः शत्रुघ्नः च मातुलस्य नगरं गच्छतः । तदा ज्येष्ठः पुत्रः रामः राजा भवतु इति दशरथः इच्छति । सर्वे जनाः हृष्टाः भवन्ति । परन्तु दशरथस्य पत्नी कैकेयी दुःखिता भवति । सा दशरथं वदति - "मम पुत्रः भरतः एव राजा भवतु । अपि च रामः वनं गच्छतु" । दशरथः मूर्छितः भवति । रामः कैकेयीं दशरथं च नमति । सः नगरात् निर्गच्छति । सीता लक्ष्मणः च रामम् अनुसरतः । रामः लक्ष्मणः सीता च नौकया नदीं तरन्ति । ते वनं प्रविशन्ति । जनाः शोकं कुर्वन्ति । रामस्य वियोगात् दशरथः मरणं प्राप्नोति । भरतः शत्रुघ्नः च मातुलस्य गृहात् प्रत्यागच्छतः । भरतः सर्वं वृत्तान्तं जानाति । सः दुःखितः क्रुद्धः च भवति । भरतः राज्यपदं निराकरोति । सः परिवारेण सह वनं प्रविशति । तत्र ते सर्वे रामेण सह मिलन्ति । भवान् एव राजा भवतु इति भरतः रामं प्रार्थयति । रामः वदति - "हे भरत, अहं तु इदानीं वने एव वसामि । चतुर्दशवर्षानन्तरम् अयोध्यां प्रत्यागच्छामि । तदा अहं राजा भवामि" । भरतः वदति - "हे प्रिय राम, भवतः पादत्राणं मह्यं ददातु । तस्य साहाय्येन अहं राज्यपालनं करोमि" । रामः भरताय पादत्राणं ददाति । भरतः रामस्य पादत्राणं मस्तकस्य उपरि धरति । सः परिवारेण सह अयोध्यां प्रतिगच्छति । रामः सीतया लक्ष्मणेन च सह अन्यत् वनं व्रजति ।

Meaning of some words:
एकदा = Once (at one time)
तदा = then (at that time)
ज्येष्ठ = eldest
हृष्ट = happy/excited
परन्तु = but/however
मूर्छित = unconscious
निर्गच्छति = goes away
अनुसरति = follows
वियोग = separation
प्रत्यागच्छति = comes back
वृत्तान्त = news/happening
क्रुद्ध = angry
निराकरोति = rejects
इदानीम् = now
चतुर्दशवर्षानन्तरम् = after fourteen years 
साहाय्येन =  with the help of
व्रजति = goes (गच्छति)

English Meaning:
Dasharatha is the king of Ayodhya. Kausalya, Sumitra, and Kaikeyi are Dasharatha's wives. Kausalya's son is Rama. Sumitra's sons are LakshmaNa and Shatrughna. Bharata is Kaikeyi's son. Rama's wife is Seeta. Once Bharata and Shatrugna go to their maternal uncle’s city. Dasharatha desires that his eldest son must be coronated as the king. All people become happy. But Dasharatha's wife Kaikeyi is unhappy. She says to Dasharatha - “My son Bharata only should become the king. And also Rama should go to the forest." Dasharatha loses consciousness. Rama bows to Dasharatha and Kaikeyi. He leaves the city. Seeta and Lakshmana follow Rama. Rama, LakshmaNa, and Seeta cross the river on a boat. They enter the forest. All the people are very dejected. Separated from Rama, Dasharatha attains death. Bharata and Shatrughna return from their maternal uncle’s place. Bharata comes to know of all that happened. He is sad and angry. He rejects the throne. He with his family enter the forest. There they all meet with Rama. Bharata pleads to Rama that he only should become the king of Ayodhya. Rama replies - "Hey Bharata, right now I will live in the forest only. After fourteen years, I will return to Ayodhya. I will be the king then." Bharata says - "Dear Rama, please give me your sandals. With the help of those I will rule the kingdom." Rama gives him his sandals. Bharatha places the sandals over his head. He returns to Ayodhya with his family. Rama with Seeta and LakshmaNa go to another forest.

Thursday, June 25, 2020

सुलभबालकाण्डम् Simple Balakandam

दशरथः इक्ष्वाकुवंशस्य महाराजः । सः अयोध्यानगरे वसति । दशरथस्य प्रथमा पत्नी कौसल्या । द्वितीया सुमित्रा । कैकेयी च तृतीया । सः एकं यागं करोति । अग्निकुण्डे यज्ञपुरुषः प्रत्यक्षः भवति । यज्ञपुरुषात् दशरथः पायसं प्राप्नोति । दशरथस्य पत्न्यः पायसं पिबन्ति । तस्य प्रभावात् कौसल्यायाः गर्भे रामः अवतरति । सुमित्रायाः लक्ष्मणः शत्रुघ्नः इति पुत्रौ भवतः । कैकेयी भरतः इति पुत्रं जनयति ।

एकदा महर्षिः विश्वामित्रः महाराजस्य दशरथस्य समीपम् आगच्छति । सः वदति - “अहं एकं यागं करोमि । यागसमये राक्षसाः विघ्नं जनयन्ति । यागस्य रक्षणाय भवतः पुत्रं रामं मया सह प्रेषयतु” । दशरथः वदति - "रामः तु बालकः । अहम् एव आगच्छामि" । विश्वामित्रः वदति - "रामः बालकः । परन्तु सः समर्थः अस्ति । सः एव आगच्छतु" । दशरथः विश्वामित्रेण सह रामं प्रेषयति । रामेण सह लक्ष्मणः अपि गच्छति ।

रामलक्ष्मणौ महर्षिणा विश्वामित्रेण सह चलतः । मार्गे घोरं वनं भवति । तत्र ताटका इति राक्षसी निवसति । रामः दुष्टायाः ताटकायाः वधं करोति । अनन्तरं रामः लक्ष्मणः च विश्वामित्रस्य आश्रमं प्रविशतः । विश्वामित्रः यागस्य आरम्भं करोति । सुबाहुः मारीचः इति राक्षसौ तत्र आगच्छतः । तौ यागस्य नाशाय रक्तमांसादिकं पातयतः । रामः बाणेन सुबाहुं मारयति । रामस्य बाणेन मारीचः समुद्रे पतति । विश्वामित्रस्य यागः निर्विघ्नः समाप्तः भवति ।

मिथिलानगरस्य राजा जनकः । तस्य पुत्री सीता । सा अतीव सुन्दरी गुणसंपन्ना च । महाराजस्य जनकस्य समीपे एकः दिव्यः चापः अस्ति । यः तस्य चापस्य मौर्वीबन्धनं करोति सः एव सीतायाः पतिः भवति इति जनकस्य निश्चयः । रामलक्ष्मणौ विश्वामित्रेण सह मिथिलानगरं गच्छतः । मार्गे ते गौतममुनेः आश्रमं प्रविशन्ति । तत्र मुनेः पत्नी अहल्या शापग्रस्ता तिष्ठति । रामस्य दर्शनेन अहल्या शापमुक्ता भवति ।  

अनन्तरं तौ राजपुत्रौ मिथिलानगरम् आगच्छतः । रामः दिव्यं चापं पश्यति । सः तं चापं सुलभतया गृह्णाति । मौर्वीबन्धनस्य समये चापः भग्नः भवति । दशरथः परिवारेण सह मिथिलानगरम् आगच्छति । सीतायाः विवाहः रामेण सह भवति । तदा भगवान् परशुरामः तत्र आगच्छति । सः अन्यं दिव्यं चापं रामाय ददाति । एतस्य चापस्य मौर्वीबन्धनं करोतु इति रामं वदति । रामः तस्य चापस्य अपि मौर्वीबन्धनं करोति । परशुरामः रामम् अभिनन्दति । दशरथः परिवारेण सह मिथिलानगरात् अयोध्यानगरं गच्छति ।

Meanings of some words:
चापः = bow (धनुः)
जनयति = creates/produces
घोर = scary
पातयति = throws down
मौर्वीबन्धनम् = tying of string to a bow
शापग्रस्त = afflicted by curse
शापमुक्त = free from curse

Thursday, June 18, 2020

बालकिष्किन्धाकाण्डम् Kishkindha Kandam made Simple


सुग्रीवः वाली च सहोदरौ | वाली किष्किन्धादेशस्य भूपः | सहोदरस्य भयात् सुग्रीवः ऋष्यमूकपर्वते वसति | सुग्रीवेण सह तस्य वानरगणः अपि वसति | रामः लक्ष्मणः च ऋष्यमूकपर्वतम् आगच्छतः | तत्र मारुतिः रामेण सह मिलति | मारुतिः रामेण सह भाषणं करोति | रामः लक्ष्मणः च  मारुतिना सह सुग्रीवस्य समीपं गच्छतः | रामः सुग्रीवेण सह सख्यं करोति | वाली सुग्रीवः च युध्यतः | तदा रामः सुग्रीवस्य सहोदरं मारयति | सुग्रीवः किष्किन्धादेशस्य भूपः भवति | अङ्गदः युवराजः भवति | सीतायाः अन्वेषणम् करोतु इति सुग्रीवः वानरगणम् आज्ञापयति | वानराः सर्वत्र गच्छन्ति | अङ्गदः वानरगणेन सह दक्षिणदिशां गच्छति | मारुतौ रामस्य पूर्णः विश्वासः | रामः मारुतये अङ्गुलीयकं ददाति | मारुतिः अङ्गदेन सह गच्छति | मारुतिः अङ्गदः वानराः च दक्षिणसमुद्रस्य तीरम् आगच्छन्ति | तत्र खगेन संपातिना सह ते मिलन्ति | लङ्कायां सीता अस्ति इति संपातिः कथयति | समुद्रस्य लङ्घनं कः करोति इति वानराः चिन्तयन्ति | कोऽपि वानरः सिद्धः न भवति | तदा जाम्बवान् मारुतेः शक्तिं वर्णयति | मारुतिः रामं स्मरति | सः महेन्द्रपर्वतम् आरोहति | भक्तश्रेष्ठः सः लङ्घनाय सिद्धः भवति |

Focus on: Usage of द्विवचनम्, बहुवचनम्, सह, विशेषणम्, पुरतः

Meaning of some words:

भूपः = राजा king                               सख्यम् = मैत्री friendship

आज्ञापयति = orders                          कथयति = वदति tells

कोऽपि = कः अपि anybody                वर्णयति = describes


English Translation:

sugrIva and vAlI are brothers. vAlI is the king of Kishkindha region. Being afraid of his brother, sugrIva lives on R^ShyamUka mountain. His monkey army (vAnaragaNa) also lives with sugrIva. rAma and lakShmaNa arrive at R^shyamUka mountain. There, mAruti meets rAma. mAruti talks with rAma. rAma and lakShmana along with mAruti go to sugrIva. rAma befriends sugrIva. vAlI and sugrIva fight. Then rAma kills sugrIva’s brother. SugrIva becomes the king of Kishkindha region. angada becomes the crown prince. sugrIva orders the monkey army, “Go search for sItA”. The monkeys go everywhere. angada, along with the monkey army, goes to the south direction. rAma has complete trust in mAruti. rAma gives his finger ring to mAruti. mAruti goes with angada. mAruti, angada and the monkeys arrive in front of the southern sea. There they meet the bird sampAti. sampAti tells, “sItA is in Lanka''. The monkeys think as to who can cross the sea. None of the monkeys becomes ready. Then, jAmbavAn describes mAruti’s strength. mAruti remembers (prays to) rAma. He climbs up the mahendra mountain. The most devoted (to rAma) mAruti gets ready for the leap.


Monday, June 15, 2020

विभक्तिदर्शकश्लोकाः ८ - Verses with Declension 8 अस्मद्


वामनस्तुतिः Vamana Prayer
अस्मद् शब्दः asmad (pronoun)
मूलम् - स्वरचितम् Source - Self

वामनो वटुरूपोऽहं मां विद्धि जगतः पतिम् ।
याचितस्स मया बलिः मह्यं प्रादात् स्वकं भुवम् ॥
मत्तोऽसुरगणा भीता मम गात्रं त्रिविक्रमम् ।
मयि संश्रयितो दैत्यः प्राप्स्यतीन्द्रासनं शुभम् ॥
vAmano vaTurUpo.ahaM mAM viddhi jagataH patim ।
yAchitassa mayA baliH mahyaM prAdAt svakaM bhuvam ॥
matto.asuragaNA bhItA mama gAtraM trivikramam ।
mayi saMshrayito daityaH prApsyatIndrAsanaM shubham ॥

पदच्छेदः (Word separation):
वामनः वटुरूपः अहम् माम् विद्धि जगतः पतिम् ।
याचितः सः मया बलिः मह्यम् प्रादात् स्वकम् भुवम् ॥
मत्तः असुरगणाः भीताः मम गात्रम् त्रिविक्रमम् ।
मयि संश्रयितः दैत्यः प्राप्स्यति इन्द्रासनं शुभम् ॥
vAmanaH vaTurUpaH aham mAm viddhi jagataH patim ।
yAchitaH saH mayA baliH mahyam prAdAt svakam bhuvam ॥
mattaH asuragaNAH bhItAH mama gAtram trivikramam ।
mayi saMshrayitaH daityaH prApsyati indrAsanaM shubham ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
अहम् I वामनः Vamana (short) वटुरूपः has the form of a pious student.
माम् Me जगतः of the world पतिम् protector विद्धि (you) understand.
मया By me सः that बलिः Bali (name of the king) याचितः was asked for.
मह्यम् To me स्वकम् his भुवम् land प्रादात् (he) gave.
मत्तः From me असुरगणाः the groups of demons भीताः are frightened.
मम My गात्रम् body (shape) त्रिविक्रमम् (is) all-pervading.
मयि In me संश्रयितः taken refuge दैत्यः the demon (King Bali) शुभम् auspicious इन्द्रासनं the post of Indra प्राप्स्यति will obtain.
(Per Puranas, King Bali will become Indra in the next Manvantara).

Monday, June 8, 2020

तुकारामस्य आमलकम् - Tuakarama and the Berry

तुकारामः इति भगवद्भक्तः सप्तदशक्रैस्तशताब्दौ महाराष्ट्रप्रान्ते ख्यातनामा आसीत् | तस्य जीवने घटिताः इति कथ्यमानाः नैकाः कथाः प्रचलिताः सन्ति | तासु अन्यतमा कथा इयम् अत्र निरूप्यते |

एकदा केचन ग्रामजनाः तीर्थयात्रां कर्तुं निश्चितवन्तः | ते आशीर्वचनार्थं तुकारामस्य समीपम् आगताः | तुकारामः सुखयात्रार्थं स्वस्तिवचनम् अवदत् | सः एकम् आमलकफलं दत्त्वा अकथयत् - "आमलकम् एतत् बहु तिक्तम् | तीर्थक्षेत्रेषु अस्य अपि क्षालनं कृत्वा आनयतु | तदा तत् फलं मधुरं भवति" |

यात्रार्थिनः आमलकफलं गृहीत्वा निर्गताः | सर्वेषु तीर्थक्षेत्रेषु स्नानसमये फलस्य अपि प्रक्षालनम् अभवत् | मासानन्तरं ते ग्रामं प्रत्यागत्य तुकारामेण सह भोजनम् अकुर्वन् | भोजनसमये तुकारामः आमलकफलं खादन्तु इति अवदत् | श्रद्धया ते जनाः फलम् अखादन् | परन्तु फलं मधुरं न आसीत् | तिक्तम् एव आसीत् | ते विस्मयेन तुकारामस्य मुखम् अपश्यन् |

तुकारामः स्मयमानः अवदत् - "सज्जनाः पश्यन्तु | यथा बाह्यशुद्धीकरणात् फलस्य रुचिः न परिवर्तिता तथैव तीर्थेषु निमज्जनात् मनःशुद्धिः न संभवति | भगवद्भक्तिः सर्वथा करणीया" | आमलकदृष्टान्तेन भक्तिमाहात्म्यम् अवगतवन्तः जनाः |

English Translation
In the 17th century CE, there was a famous devotee by the name Tukarama in the Maharashtra area. There are many stories in circulation that are said to have happened in his life. One such story is presented here.

Once, some villagers decided to go on a pilgrimage. They came to Tukarama for blessing. Tukarama wished them with good words. He gave them a berry fruit and said - "This berry is very sour. In the sacred places, clean this fruit also with water and bring it back. Then that fruit will become sweet".

The travelers took the fruit and went away. In all the sacred places, during the bathing time, the fruit also got cleaned, After a month, they came back to the village and had lunch with Tukarama. During the lunch, Tukarama said to eat the fruit. Those people ate the fruit with respect. But the fruit was not sweet. It was sour only. They looked at Tukarama in surprise.

Tukarama smiling said - "Gentlemen, look. Just like the fruit's taste did not change due to the external cleansing, the mind won't be cleansed by taking dips at sacred places. Always, devotion in god should be done". By the example of the berry, the people understood the greatness of devotion.

Sunday, May 31, 2020

बालसुन्दरकाण्डम् Sundarakandam for Beginners


वायुपुत्रः मारुतिः विशालं समुद्रं लङ्घयति | सः लङ्कानगरं प्रविशति | सः माता सीता कुत्र इति चिन्तयति | सः नगरे सर्वत्र जानकीम् अन्विष्यति | सः रावणस्य भवनस्य अन्तः गच्छति | तत्र अपि सीतायाः दर्शनं न भवति | मारुतिः नगरस्य बहिः अशोकवाटिकां प्राप्नोति | वाटिकायां वृक्षस्य अधः दुःखितां सीतां पश्यति | सः मधुरया वाण्या रामस्य कथां गायति | देवी सीता आनन्दिता भवति | मारुतिः देव्यै सीतायै रामस्य अङ्गुलीयकं ददाति | सीता मारुतये केशाभरणं यच्छति | अनन्तरं मारुतिः रावणस्य पुत्रम् अक्षकुमारं मारयति | रावणस्य अन्यः पुत्रः मेघनादः ब्रह्मास्त्रेण मारुतेः बन्धनं करोति | रावणः मारुतेः पुच्छं ज्वालयति | मारुतिः तेन एव अग्निना सर्वं नगरं ज्वालयति | सः लङ्कानगरात् रामस्य समीपं गच्छति | सः रामाय सीतायाः केशाभरणं ददाति | भक्तश्रेष्ठः मारुतिः प्रभुं रामं नमति |

Meaning of some words:
अन्विष्यति = searches
आनन्दिता = happy (feminine)
यच्छति = gives
अङ्गुलीयकम् = ring (worn in finger)
केशाभरणम् = ornament worn in hair
ज्वालयति = burns

Tuesday, May 26, 2020

अन्धविश्वासः Blind Faith

तिरुपतिः इति लोकप्रसिद्धं तीर्थक्षेत्रम् | तत्र देवालये स्थितस्य श्रीनिवासदेवस्य दर्शनार्थं बहवः जनाः प्रतिदिनम् गच्छन्ति | एकस्मिन् दिने देवालयस्य पुरतः जनानां दीर्घा पङ्क्तिः आसीत् | घण्टाद्वयं वा घण्टात्रयं वा निदाघे कष्टेन भक्तजनाः पङ्क्तौ स्थिताः | देवदर्शनार्थं सर्वे उत्सुकाः |

तदा तत्र कश्चित् अन्धः आगतवान् | सः पङ्क्तौ अस्थित्वा अग्रे सर्तुम् आरब्धवान् | तदा अन्ये जनाः अवदन् - "भोः, किमर्थं एतावती त्वरा | त्वं तु अन्धः | देवं द्रष्टुं न शक्नोषि | देवालयं गत्वा किं करोषि ?" अन्धः प्रत्यवदत् - "महाभागाः क्षम्यताम् | सत्यम् अहं तु अन्धः | देवं द्रष्टुं न शक्नोमि | परन्तु मम विश्वासः अस्ति | देवः मां द्रष्टुं शक्नोति | अतः अहं देवालयं गन्तुम् इच्छामि" |

अन्धस्य वचनं श्रुत्वा जनाः मूकविस्मिताः अभवन् |

English Translation:
Tirupati is a world-famous sacred place. To see the Lord Shrinivasa (idol) in the temple, lot of people go there everyday. One day, there was a long line in front of the temple. The devotees were standing in the line for two or three hours in the hot sun. To see the lord, they were all eager.

Then, a blind came there. Without standing in the line, he started to move forward. Then, the other people said - "Hey, why is this much hurry? You are blind. You cannot see the god. Going to the temple, what will you do?" The blind replied - "Excuse me gentlemen. True, I am blind. I cannot see the god. But I have faith. The god will be able to see me. Therefore, I would like to go to the temple".

Hearing the blind person's talk, the people became speechless.

Saturday, May 2, 2020

विभक्तिरूपदर्शकाः श्लोकाः ७- Verses with Declension 7

पिता-माता-संवादः - पुत्र्या कथितः
Conversation between father and mother - told by their daughter.

ऋ-कारान्त-शब्दः पितृ/मातृ
Declension of word ending in “R^i”
मूलम्-स्वरचितम्
Source-Self

पिता वदति मातरं गच्छेव विपणिं प्रिये ।
मात्रा प्रोक्तं कथं साध्यं मात्रे ते परिवेषणम् ॥
मातुर्बिभेषि हे नाथ मातुर्वचनपालकः ।
ब्रुवत्यां मातरि ह्येवं मयोक्तं नय मां पितः ॥
pitA vadati mAtaraM gachCheva vipaNiM priye ।
mAtrA proktaM kathaM sAdhyaM mAtre te pariveShaNam ॥
mAturbibheShi he nAtha mAturvachanapAlakaH ।
bruvatyAM mAtari hyevaM mayoktaM naya mAM pitaH ॥

पदच्छेदः (Word separation):
पिता  वदति मातरम्  गच्छेव विपणिम् प्रिये ।
मात्रा  प्रोक्तम् कथम् साध्यम् मात्रे  ते परिवेषणम् ॥
मातुः  बिभेषि हे नाथ मातुः  वचनपालकः ।
ब्रुवत्याम् मातरि  हि एवम् मया उक्तम् नय माम् पितः
pitA vadati mAtaram gachCheva vipaNim priye ।
mAtrA proktam katham sAdhyam mAtre te pariveShaNam ॥
mAtuH bibheShi he nAtha mAtuH vachanapAlakaH ।
bruvatyAm mAtari hyevam mayoktam naya mAm pitaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
पिता father
मातरम् to my mother वदति says - प्रिये dear, विपणिम् to shopping mall गच्छेव let us go.
मात्रा By mother प्रोक्तम् was said - कथम् how साध्यम् (is it) possible?
ते yours मात्रे for (your) mother परिवेषणम् food is to be given.
हे Hey नाथ dear मातुः from (your) mother बिभेषि (you) fear.
मातुः Mother’s वचनपालकः obeyer (you are).
मातरि ब्रुवत्याम् When mother was saying हि एवम् thus, मया By me उक्तम् was said -
पितः (hey) father, माम् me नय take.

Tuesday, April 28, 2020

विभक्तिरूपदर्शकाः श्लोकाः ६- Verses with Declension 6

श्वश्रू-वधू-विनोदः
ऊ-कारन्त-स्त्रीलिङ्ग-शब्दस्य विभक्ति-रूपाणि
मूलम् - मद्गतो विनोदभावः
Mother-in-law/Daughter-in-law Humor
Declension of feminine word ending in “U”
Source: My humorous spirit

श्वश्रूः पश्यति रममाणां क्रीडासक्तां पुत्रवधूम् ।
श्वश्र्वा मनसि संधत्तं वध्व्यै कार्यं दातव्यम् ॥
श्वश्र्वाः पतति पेयजलं वध्वाः पत्या गृहमाप्तम् ।
वध्वां पत्युर्मृदुचित्तं श्वश्रु कुरु त्वं मार्जनकार्यम् ॥
shvashrUH pashyati ramamANAM krIDAsaktAM putravadhUm
shvashrvA manasi saMdhattaM vadhvyai kAryaM dAtavyam
shvashrvAH patati peyajalaM vadhvAH patyA gR^ihamAptam
vadhvAM patyurmR^iduchittaM shvashru kuru tvaM mArjanakAryam

पदच्छेदः (Word separation):
श्वश्रूः पश्यति रममाणाम् क्रीडासक्ताम् पुत्रवधूम्
श्वश्र्वा मनसि संधत्तम् वध्व्यै कार्यम् दातव्यम् ॥
श्वश्र्वाः पतति पेयजलम् वध्वाः पत्या गृहम् आप्तम् ।
वध्वाम् पत्युः मृदुचित्तम् श्वश्रु कुरु त्वम् मार्जनकार्यम् ॥
shvashrUH pashyati ramamANAm krIDAsaktAm putravadhUm.
shvashrvA manasi saMdhattam vadhvyai kAryam dAtavyam.
shvashrvAH patati peyajalam vadhvAH patyA gR^iham Aptam.
vadhvAm patyuH mR^iduchittam shvashru kuru tvam mArjanakAryam.

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्वश्रूः The mother-in-law
पुत्रवधूम् at the daughter-law-in-law रममाणाम् who is enjoying क्रीडासक्ताम् (and) who is interested in play पश्यति looks.
श्वश्र्वा By the mother-in-law मनसि in mind संधत्तम् decided.
वध्व्यै For the daughter-in-law कार्यम् work दातव्यम् should be given.
श्वश्र्वाः From the mother-in-law पेयजलम् the drinking water पतति falls.
वध्वाः Daughter-in-law’s पत्या by the husband गृहम् home आप्तम् is reached.
वध्वाम् In daughter-in-law पत्युः of the husband मृदुचित्तम् is soft-mind.
श्वश्रु (Hey) Mother-in-law, त्वम् you मार्जनकार्यम् the clean up work कुरु do.

Friday, April 24, 2020

विभक्तिरूपदर्शकाः श्लोकाः ४- Verses with Declension 4

वाणी (सरस्वती) स्तुतिः Vaanee (Sarsvatee) Prayer
ई-कारान्त-स्त्रीलिङ्ग-शब्दः वाणी
Declension of feminine gender word Vaanee ending in “I”
मूलम्-मन्मननिवासिनी वाणी
Source-Vaanee residing in my mind

वाणी परमकल्याणी वाणीं वीणाधरां श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमोस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्यां भवतु मे भक्तिर्हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIM vINAdharAM shraye ।
vANyA siddhyati gairvANI vANyai namostu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaHpradA ।
vANyAM bhavatu me bhaktirhe vANi hR^idgatA bhava ॥

पदच्छेदः (Word separation):
वाणी परमकल्याणी वाणीम् वीणाधराम् श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमः अस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्याम् भवतु मे भक्तिः हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIm vINAdharAm shraye ।
vANyA siddhyati gairvANI vANyai namaH astu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaH pradA ।
vANyAm bhavatu me bhaktiH he vANi hR^idgatA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
वाणी Vaanee परमकल्याणी is very auspicious.
वाणीम् To Vaanee वीणाधराम् to one who does good श्रये (I) take refuge.
वाण्या By Vaanee गैर्वाणी language सिद्ध्यति gets accomplished.
वाण्यै For Vaanee सर्वशः b all means नमः bow (salute) अस्तु (let) be.
वाण्याः From Vaanee विद्या knowledge प्रजायते is born.
वाण्याः Vaanee's कृपा courtesy वचःप्रदा (is) giver of speech.
वाण्याम् In Vaanee मे my भक्तिः devotion भवतु (let) be.
हे Hey वाणि Vaanee हृद्गता one who resides in (my) heart भव (let) be.

Wednesday, April 22, 2020

विभक्तिरूपदर्शकाः श्लोकाः ५- Verses with Declension 5

गुरुस्तुतिः Teacher Prayer
उ-कारान्त-पुंलिङ्गः गुरु-शब्दः
Declension of masculine gender word guru ending in sound “u”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।
न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ॥
gurureva gatirgurumeva bhaje guruNaiva sahAsmi namo gurave ।
na guroH paramaM shishurasmi guroH matirasti gurau mama pAhi guro ॥

पदच्छेदः (Word separation):
गुरुः एव गतिः गुरुम्  एव भजे गुरुणा  एव सह अस्मि नमः गुरवे
गुरोः परमम् शिशुः अस्मि गुरोः मतिः अस्ति गुरौ  मम पाहि गुरो
guruH eva gatiH gurum eva bhaje guruNA eva saha asmi namaH gurave ।
na guroH paramam shishuH asmi guroH matiH asti gurau mama pAhi guro ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
गुरुः Teacher एव only गतिः (is) the refuge.
गुरुम् (To) teacher एव only भजे (I) pray.
गुरुणा सह  (With teacher) एव only अस्मि (I) stay.
गुरवे For teacher नमः bow (salute).
गुरोः Other than teacher परमम् better न not (exists).
गुरोः Teacher’s शिशुः baby (looked after) अस्मि (I) am.
गुरौ In teacher मम my मतिः mind (अस्ति is (exists).
गुरो (O) Teacher पाहि protect (me).

Tuesday, April 21, 2020

विभक्तिरूपदर्शकाः श्लोकाः ३- Verses with Declension 3

हरिस्तुतिः Hari Prayer
इ-कारान्त-पुंलिङ्ग-हरि-शब्दः
Declension of masculine word Hari ending in “i”
मूलम् - मदन्तर्गतो हरिः
Source - Hari in me

हरिः सर्वजगद्वन्द्यो हरिं श्रीरमणं भजे ।
हरिणा पालितं विश्वं हरये गुरवे नमः ॥
हरेः परतरो नास्ति हरेः स्तवनमुत्तमम् ।
हरौ भकिर्दृढा मेस्तु हे हरे मुक्तिदो भव ॥
hariH sarvajagadvandyo hariM shrIramaNaM bhaje ।
hariNA pAlitaM vishvaM haraye gurave namaH ॥
hareH parataro nAsti hareH stavanamuttamam ।
harau bhakirdR^iDhA mestu he hare muktido bhava ॥

पदच्छेदः (Word separation):
हरिः  सर्वजगद्वन्द्द्यः हरिम्  श्रीरमणम् भजे ।
हरिणा  पालितम् विश्वम् हरये  गुरवे नमः ॥
हरेः  परतरः नास्ति हरेः  स्तवनम् उत्तमम् ।
हरौ  भक्तिः दृढा मे अस्तु हे हरे  मुक्तिदः भव ॥
hariH sarvajagadvanddyaH harim shrIramaNam bhaje ।
hariNA pAlitam vishvam haraye gurave namaH ॥
hareH parataraH nAsti hareH stavanam uttamam ।
harau bhaktiH dR^iDhA me astu he hare muktidaH bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
हरिः Hari सर्वजगद्वन्द्द्यः (is) revered by the entire world.
हरिम् To Hari श्रीरमणम् to the husband of Shree (Lakshmee) भजे I pray.
हरिणा By Hari विश्वम् the universe पालितम् (is) maintained.
हरये For Hari गुरवे for the great नमः.
हरेः Other than Hari परतरः a better one न अस्ति is not there.
हरेः Hari’s स्तवनम् praising उत्तमम् (is) good.
हरौ In Hari मे my भक्तिः devotion दृढा firm अस्तु let be.
हे Hey हरे Hari मुक्तिदः giver of salvation भव (you) become.

Saturday, April 18, 2020

विभक्तिरूपदर्शकाः श्लोकाः २- Verses with Declension 2

रमास्तुतिः Ramaa (Lakshmee) Prayer
आ-कारान्त-स्त्रीलिङ्ग-रमा-शब्दः
Declension of feminine word ending in “A”
मूलम्-स्वरचितस्तोत्रम्
Source-Composed by myself

रमा नारायणी देवी रमां परतरां भजे ।
रमया सर्वसमृद्धिः रमायै क्रियते नमः ॥
रमायाः प्रकृतिर्जाता रमायाः कीर्तिरद्भुता
रमायां संश्रितो लोको हे रमे सुखदा भव ॥
ramA nArAyaNI devI ramAM paratarAM bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itirjAtA ramAyAH kIrtiradbhutA
ramAyAM samshrito loko he rame sukhadA bhava ॥

पदच्छेदः (Word separation):
रमा  नारायणी देवी रमाम्  परतराम् भजे ।
रमया  सर्वसमृद्धिः रमायै  क्रियते नमः ॥
रमायाः  प्रकृतिः जाता रमायाः  कीर्तिः अद्भुता
रमायाम्  संश्रितः लोकः हे रमे  सुखदा भव ॥
ramA nArAyaNI devI ramAm paratarAm bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itiH jAtA ramAyAH kIrtiH adbhutA
ramAyAm samshritaH lokaH he rame sukhadA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रमा Ramaa नारायणी (is) Naaraaayana’s wife देवी goddess.
रमाम् To Ramaa परतराम् to the supreme भजे (I) pray.
रमया From Ramaa सर्वसमृद्धिः (is) all prosperity.
रमायै For Ramaa नमः bow (salute) क्रियते is done.
रमायाः From Ramaa प्रकृतिः the nature जाता is born.
रमायाः Ramaa’s कीर्तिः glory अद्भुता (is) extraordinary.
रमायाम् In Ramaa लोकः the world संश्रितः (is) taken shelter.
हे Hey रमे Ramaa सुखदा provider of happiness भव become.

Tuesday, April 14, 2020

विभक्तिरूपदर्शकाः श्लोकाः १ - Verses with Declension 1


अ-कारान्त-पुंलिङ्गः-शब्दः

श्लोकः १ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 1 - Masculine word rAma ending in sound “a”
मूलम्-श्रीरामरक्षास्तोत्रम्
Source-Shri Ramaraksha Stotram

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर ॥
rAmo rAjamaNiH sadA vijayate rAmaM rameshaM bhaje
rAmeNAbhihatA nishAcharachamU rAmAya tasmai namaH ।
rAmAnnAsti parAyaNaM parataraM rAmasya dAsosmyahaM
rAme chittalayassadA bhavatu me bho rAma mAmuddhara ।।

पदच्छेदः (Word separation):
रामः राजमणिः सदा विजयते रामम् रमेशम् भजे
रामेण अभिहताः निशाचरचमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥
rAmaH rAjamaNiH sadA vijayate rAmam ramesham bhaje
rAmeNa abhihatAH nishAcharachamUH rAmAya tasmai namaH .
rAmAt na asti parAyaNam parataram rAmasya dAsaH asmi aham
rAme chittalayaH sadA bhavatu me bho rAma mAm uddhara ..

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रामः Rama राजमणिः jewel (great) of the kings सदा always विजयते wins/excels.
रामम् To Rama रमेशम् To the husband of Ramaa भजे I pray.
रामेण By Rama निशाचरचमूः army of demons अभिहताः were killed.
तस्मै For (to) that रामाय for (to) Rama नमः salute (bow).
रामात् Other than Rama परायणम् the ultimate to be obtained परतरम् a better one न not अस्ति is.
अहम् I रामस्य of Rama दासः servant अस्मि am.
रामे In Rama मे my चित्तलयः focused mind सदा always भवतु let be.
भो Hey राम Rama माम् me उद्धर lift up.

फलितार्थः (Resulting meaning)
Rama, the great king excels. I offer my prayer to Rama, Ramaa’s husband. Army of demons were killed by Rama. I bow to that Rama. There is none other to be pursued or better than Rama. I am a servant of Rama. Let my mind be always in the thought of Rama. Hey Rama, please help me out of the miseries.

---------------------------
श्लोकः २ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 2 - Masculine word rAma ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

श्रीरामः शरणं समस्तजगतां रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रायः ॥
shrIrAmaH sharaNaM samastajagatAM rAmaM vinA kA gatiH
rAmeNa pratihanyate kalimalaM rAmAya kAryaM namaH ।
rAmAt trasyati kAlabhImabhujago rAmasya sarvaM vashe
rAme bhaktirakhaNDitA bhavatu me rAma tvamevAshrAyaH ॥

पदच्छेदः (Word separation):
श्रीरामः शरणम् समस्तजगताम् रामम् विना का गतिः
रामेण प्रतिहन्यते कलिमलम् रामाय कार्यम् नमः ।
रामात् त्रस्यति कालभीमभुजगः रामस्य सर्वम् वशे
रामे भक्तिः अखण्डिता भवतु मे राम त्वम् एव आश्रायः ॥
shrIrAmaH sharaNam samastajagatAm rAmam vinA kA gatiH
rAmeNa pratihanyate kalimalam rAmAya kAryam namaH ।
rAmAt trasyati kAlabhImabhujagaH rAmasya sarvam vashe
rAme bhaktiH akhaNDitA bhavatu me rAma tvam eva AshrAyaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्रीरामः Lord Rama समस्तजगताम् of the entire world शरणम् (is) refuge.
रामम् विना without Rama का what गतिः (is our) state (fate)?
रामेण by Rama कलिमलम् the impurity (caused) in this era प्रतिहन्यते is destroyed.
रामाय To that Rama नमः bow (salute) कार्यम् is to be done.
रामात् From Rama कालभीमभुजगः the huge serpent of time (death) त्रस्यति is afraid.
रामस्य Of (to) Rama सर्वम् all वशे belongs.
रामे In Rama मे my अखण्डिता uninterrupted भक्तिः devotion भवतु let happen.
राम (O) Rama, त्वम् you एव only आश्रायः (is) the refuge.

-------------------------------------
श्लोकः ३ -  अ-कारान्त-पुंलिङ्गः कृष्ण-शब्दः
Shloka 3 - Masculine word kR^iShNa ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहं
कृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ॥
kR^iShNo rakShatu mAM charAcharaguruH kR^iShNaM namasyAmyahaM
kR^iShNenAmarashatravo vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAdeva samutthitaM jagadidaM kR^iShNasya dAsosmyahaM
kR^iShNe bhaktira~nchalAstu bhagavan he kR^iShNa tubhyaM namaH ॥

पदच्छेदः (Word separation):
कृष्णः रक्षतु माम् चराचरगुरुः कृष्णम् नमस्यामि अहम्
कृष्णेन अमरशत्रवः विनिहताः कृष्णाय तस्मै नमः ।
कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम्
कृष्णे भक्तिः अचञ्चला अस्तु भगवन् हे कृष्ण तुभ्यम् नमः ॥
kR^iShNaH rakShatu mAm charAcharaguruH kR^iShNam namasyAmi aham
kR^iShNena amarashatravaH vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAt eva samutthitam jagat idam kR^iShNasya dAsaH asmi aham
kR^iShNe bhaktiH acha~nchalA astu bhagavan he kR^iShNa tubhyam namaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
कृष्णः Krishna चराचरगुरुः (who is) the greatest of all moving and non-moving things माम्  me रक्षतु should protect.
अहम् I कृष्णम् to Krishna नमस्यामि will bow down.
अमरशत्रवः The enemies of gods कृष्णेन by Krishna विनिहताः were killed.
तस्मै To that  कृष्णाय to Krishna नमः bow (salute).
इदम् This जगत् world कृष्णात् from Krishna एव only समुत्थितम् has risen (created).
अहम् I कृष्णस्य Krishna’s दासः servant अस्मि am.
कृष्णे In Krishna भक्तिः devotion अचञ्चला unwavering अस्तु let be.
हे O भगवन् lord कृष्ण Krishna तुभ्यम् to you नमः bow (salute).




Sunday, April 12, 2020

वसुधैव कुटुम्बकम् - World Is A Family

संप्रति जगति सर्वत्र हाहाकारो निनद्यते । मनुकुलमस्माकं करोना-जीवाणुजनितभीषणार्तिना संकर्षितं परिदेवनया परिप्लुतं दृश्यते । मर्त्यलोकेस्मिन् भूभागो नास्ति यो दारुणव्याधिनानेनाक्षुण्णः । चीनदेशे प्रादुर्भूतोऽयं रोगः कथं जनेषु प्रसरतीति सस्फुटं न ज्ञायतेधुनापि । दिने दिने बाधयानया दुष्पीडितानां मृतकानाञ्च संख्या प्रवर्धते एव । दावाग्निमतिरिच्य तन्तन्यमानाया रुजाया अस्या निवारणोपायस्सुदूरः प्रतिभाति । केचिज्जना यथाशक्ति यथामति होमजपतपादिमार्गमाश्रयन्ति कथञ्चिदेषा महापीडा परिहरत्विति परमाशया । समस्तराष्ट्रेषु कार्यस्थानानि निष्क्रियाणि । देशविदेशयातायातो निरुद्धं सर्वथा । विद्यालयकार्यकलापाः स्थगिताः । प्रियजनबन्धुबान्धवैर्मेलनं निषिद्धम् । वाणिज्यकार्यं स्तब्धम् । दैनन्दिनजीवनमप्यस्तव्यस्तम् ।

सप्तसागरां सप्तद्वीपां पृथिवीं निर्जित्य कोस्ति सदृशो मयेति जागर्जता केनचन नेत्रागोचरेण क्षुद्रजन्तुना पोथयमानः कथं बभूव? विज्ञानेनाधुनिकेन सर्वक्षेत्रेष्वप्रतिमोन्नतिं संसाध्य चन्द्रादिलोकेषु संचरिता कथं जगाम दशामियमचराम्? नव्यनूतनयन्त्रोपकरणैः सदा सर्वत्र प्रमोदमङ्क्ता कथमभून्नुन्न ईदृक्? निखिलमिदं जगन्मयाधीनं सुमेधा अहमस्य त्रातेति जोघुषिता कथं शोचनीयां स्थितिमेषामवाप? सहस्रायुताधिकवर्षेषु या प्रगतिर्दुस्साध्यासीत्सा प्राक्तनेषु पञ्चाशद्वर्षेष्वेव संसाधिता । वैज्ञानिकोयं कालः संपर्कयुग इति विख्यातो जातः । लोकसंग्रहे तत्परा जना लोभाद्यरिषड्वर्गवशगा ऐहिकानन्दलोलुपाः क्वचित् सन्मार्गभ्रष्टा अभवन्निति तु स्फुटम् । स्वार्थान्धा मनुजाः परस्परं विद्विषन्तः कलहेष्वर्थहीनेषु प्रवृत्ता अहमहमिकाभावमुपाश्रिताः किमेतत् महत् संकटं पारयितुं शक्ष्यन्ति?

विषमायामस्यां परिस्थितावपि पैशुनबुद्धियुता अनेके जनान् वञ्चयितुकामाः । कुमार्गस्तेषां सकलमानवकुलायैव कुठारप्राय इति विस्मरन्ति ते । प्रायेण जागतिकविपदियं शिक्षाविधानं निसर्गस्य मानवहिताय । परस्परघातकप्रवृत्तिं परित्यज्य मानवास्सौहार्दभावं विद्यासुः । वसुधैव कुटुम्बकमिति वेदवाणी भूयोऽपि जनप्रियतां प्राप्ता मानवकुलस्यैकत्वं प्रतिपादयति ।

तावच्चिन्तनीयं भवत्येतद्वाक्यम् । किमिमां वसुधां केवलं मानवा एवाधिवसन्ति? किं वसुधाया वसु केवलं मानवप्रयोजनार्थं संराजते? किं खगमृगवृक्षादयो वसुधां नाधिवसन्ति? तर्हि सर्वे चराचरजीविनः कुटुम्बस्यास्य सदस्या एव । न केवलं चराचरजीविनः किन्तु जगत्यस्मिन् विद्यमाना अखिलाः पदार्था अप्यस्य जगतो निवसयितारः । कुटुम्बस्य वासस्थानं गृहम् । कुटुम्बिनः स्वगृहस्थितान् पदार्थान्न विनाशयन्ति । वैविध्यमयेस्मिन् लोके प्रत्येकं वस्तु सहेतुकम् । यद्येतन्मनसि निधाय मानवा जीवनवृत्तिपरा भवेयुस्तर्हि वसुधेयं वसुदा सार्थकनाम्नी भवेत् । मानवकुलमेतत् प्रकृतितत्त्वमनादृत्य सर्वां वसुधां स्वयमुपबुभुक्षते चेद्भस्मासुर इव तस्य दुर्गतिश्शतःसिद्धा ।
॥ सर्वे जनाः सुखिनो भवन्तु ॥

English Translation (Approximate):
At present, in the word everywhere tumultuous cries are heard. Our mankind looks like it is moved by the frightening sickness caused by the corona virus, and surrounded by sorrow. In this mortal world, there is no piece of land which is not affected by this severe illness. Having originated in the country of China, it is not very clear even now how this illness spreads among people. Day by day, the number of people badly affected and the dead by this trouble is only increasing. The solution to stop this disease which is spreading rapidly faster than the wild fire seems to be far off. Some people, per their strength and as they fit, are taking to religious rites, chanting, physical austerity etc. hoping somehow this big trouble will go away. In all the countries, workplaces are shut down. Travel in and out of countries has been stopped completely. Working, activities of educational institutes are closed. Meeting with loved people, relatives and friends has been prohibited. Trade has stopped. Daily life is also disturbed.

Having conquered the earth that has seven seas and seven islands, and the one who roars “who is like me?” - how come he became battered by some invisible tiny pathogen? Having achieved unparalleled heights in all the fields using the modern science, the one who tours the worlds of moon etc., how did he got this unmovable status? The one who is always and everywhere engaged in enjoyment with (the help of) brand new gadgets, how come he was suppressed like this? The one who declared - this whole world belongs to me, I am the wise, and I am the saviour of this world - how come he attained this deplorable state? The progress which was not possible in tens of thousands of years, was achieved in the last only fifty years. This scientific era came to be known as communication era. It is clear that people interested in making money, coming under the influence of the six enemies - greed etc., and finding pleasure in this material world - somewhere along lost the virtuous way. Men (people) blinded of selfishness, hating one another, engaged in non-sensical bickerings, mired in undoing one another - will they be able to overcome this great crisis?

In this bad condition also, many with wicked minds, intend to cheat people. They forget that their bad path is detrimental (like an axe) to the entire mankind. Probably, this crisis affecting the entire world is nature’s lesson, for the good of man(kind). Hope men (people) will abandon hurting one other and take on goodwill (towards one another). “The whole world is a family” - that said in veda, has attained immense popularity, professes the oneness of mankind.

A little thought is needed about this sentence. Are only humans live on this planet? Is planet’s wealth exists only for the use of humans? Aren’t birds, animals and trees etc., are not living on this planet? Then, all moving and non-moving living beings are members of family only. Not only moving and non-moving living beings, but all the things that exist in this world inhabitants here. A house is where a family lives. The family members do not destroy the things in their house. Every thing in this world having variety, has a purpose. If humans keep this mind and live their life, then this “vasudhA” (the planet) might become “vasudA” (giver of wealth) - true to its name. If this humankind ignores this principal of nature, and wants to consume the entire world for itself, then its destruction is guaranteed like Bhasmaasura (the demon who killed himself).
Let everyone be happy.


Thursday, March 26, 2020

दुग्धप्रमाणम् - Proof of Milk


कृष्णदेवराजस्य सचिवः रामकृष्णः | सः बहु चतुरः | एकदा महाराजः रामकृष्णं पृच्छति - “मित्र, मम राज्ये सर्वाः प्रजाः बहु नीतियुताः | तव अभिप्रायः कः?” रामकृष्णः वदति - “महाराज, अस्मिन् राज्ये एकः अपि नीतियुतः नास्ति” | महाराजः कोपेन वदति - “कथं तव एवम् अभिप्रायः? तस्य प्रमाणं किम्?” रामकृष्णः वदति - “अस्तु | प्रमाणं दर्शयामि” |

रामकृष्णः राजभवने एकं बृहदाकारं घटं स्थापयति | सः घटस्य मुखे केवलं लघु रन्ध्रं करोति | सः राज्ये सर्वत्र घोषयति - “सर्वे जनाः राजभवनम् आगत्य घटे किञ्चित् दुग्धं पूरयन्तु” इति | जनाः तथा एव कुर्वन्ति | अनन्तरं रामकृष्णः घटम् उद्घाटयति | महाराजः अपि पश्यति | घटे केवलं जलम् अस्ति | किञ्चित् अपि दुग्धं न अस्ति |

रामकृष्णः वदति - “महाराज, पश्यतु | एकः अपि जनः घटे दुग्धं न पूरितवान् | प्रत्येकं जनस्य चिन्तनम् आसीत् - अन्ये जनाः दुग्धं पूरयन्ति | अहं तु जलम् एव पूरयामि | मम किञ्चित् जलं दुग्धे मिश्रणं भवति - इति | एतत् एव मम वचनस्य प्रमाणम्” |

महाराजः रामकृष्णस्य चातुर्यं दृष्ट्वा विस्मितः जातः |

English Meaning:
rAmakRshNa is the minister of kRshNadevarAja. He is very clever. Once the king asks rAmakRshNa - “Friend, in my kingdom, all the people are very honest. What is your opinion?” rAmakRshNa says - “King, in this kingdom, nobody is honest”. The king angrily says - “How come this is your opinion? What is its proof?” rAmakRshNa says - “OK. I will show the proof”.

rAmakRshNa keeps a big pot in the palace. He makes just a small hole in the face of the pot. He declares everywhere in the kingdom that - “all people should come to the palace and pour a little milk in the pot”. People do the same. After that, rAmakRshNa opens the pot. The king also looks upon. In the pot, there is only water. There is not even a little bit of milk.

rAmakRshNa says - “King, look. Not even a single person has poured milk in the pot. Every person’s thought was thus - other people will our in milk. But I will only pour water. My little water will get mixed up with the milk”. This is the proof of what I said”.

The king was surprised seeing rAmakRshNa's cleverness.

Thursday, March 19, 2020

चटकः वानरः च Sparrow and Monkey


पञ्चतन्त्रकथा - A Story from Panchatantra

वने एकः वृक्षः आसीत् । वृक्षे एकः चटकः वसति स्म । एकदा तत्र मन्दं मन्दं वृष्टिः भवति । एकः वानरः आश्रयार्थं वृक्षस्य अधः आगच्छति । वानरं दृष्ट्वा चटकः वदति - "भोः वानर, भवतः शरीरं मनुष्यशरीरम् इव अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तमगृहस्य निर्माणं किं न करोति?" तत् श्रुत्वा वानरः कुपितः भवति । वानरः चटकं वदति - "किमर्थं भवान् मौनं न तिष्ठति? किमर्थं मम उपहासं करोति?" इति उक्त्वा वानरः वृक्षम् आरोहति । वानरः चटकस्य नीडं नाशयति ।

नीतिसंदेशः
अयोग्यः उपदेशं न अर्हति ।

Transliteration:
vane ekaH vR^ikShaH AsIt. vR^ikShe ekaH chaTakaH vasati sma. ekadA tatra mandaM mandaM vR^iShTiH bhavati. ekaH vAnaraH AshrayArthaM vR^ikShasya adhaH AgachChati. vAnaraM dR^iShTvA chaTakaH vadati - "bhoH vAnara, bhavataH sharIraM manuShyasharIram iva asti. hastau pAdau cha samyak santi. bhavAn uttamagR^ihasya nirmANaM kiM na karoti?" tat shrutvA vAnaraH kupitaH bhavati. vAnaraH chaTakaM vadati - "kimarthaM bhavAn maunaM na tiShThati? kimarthaM mama upahAsaM karoti?" iti uktvA vAnaraH vR^ikSham Arohati. vAnaraH chaTakasya nIDaM nAshayati.

nItisaMdeshaH
ayogyaH upadeshaM na arhati.

Meaning:
There was a big tree in a forest. In that tree, lived a sparrow with his wife. Once there happens a drizzling rain. A monkey reaches the base area of the tree for shelter. Seeing that monkey, the she-sparrow says - “O monkey, your body looks like the body of a human. Hands are feet are in good condition. Then why don’t you build a good house?” Hearing that, the angry monkey says - “Why don’t you keep quiet? Why do you ridicule me?” Saying this, that monkey climbs the tree. It destroys the nest of the she-sparrow.

Message
Advice to an improper person or in an improper place, brings danger.

Saturday, March 7, 2020

पुण्यकोटिः - Punyakoti A Sanskrit Story



एकः ग्रामः  ।  ग्रामे अनेकाः धेनवः सन्ति । धेनवः प्रतिदिनं प्रातः ग्रामतः वनं गच्छन्ति । वने ताः धेनवः तृणं खादन्ति । अनन्तरं पुनः वनतः ग्रामं प्रति गच्छन्ति ।

एकदा सर्वाः धेनवः ग्रामं प्रति गच्छन्ति । परन्तु पुण्यकोटिः नाम धेनुः तृणं खादन्ती वने एव तिष्ठति । तदा एकः व्याघ्रः आगच्छति ।

व्याघ्रः वदति - “हे धेनो, बहु कालात् मम भोजनं न लब्धम् । त्वं मम उत्तमभोजनम् । अतः त्वां मारयित्वा खादामि” ।

पुण्यकोटिः वदति - “हे व्याघ्रराज, सत्यम् । अहं तव उत्तमभोजनम् । मां मारयित्वा खादतु । परन्तु मम एका प्रार्थना अस्ति । ग्रामे मम वत्सः अस्ति । सः मम प्रतीक्षां करोति । अहं ग्रामं गच्छामि । वत्साय दुग्धं दत्वा पुनः तव समीपे आगच्छामि । अनन्तरं मां मारयित्वा भोजनं करोतु” ।

व्याघ्रः वदति - “हे धेनो, तव वचने कथं विश्वासं करोमि?”

पुण्यकोटिः वदति - “अहं कदापि असत्यं न वदामि । कृपया मम वचने विश्वासं करोतु” ।

व्याघ्रः वदति - “अस्तु । गच्छतु । वत्साय दुग्धं दत्वा शीघ्रं मम समीपे आगच्छतु” ।

पुण्यकोटिः ग्रामं गच्छति । वत्सः तस्याः दुग्धं पिबति । अन्याः धेनवः अपि तत्र सन्ति। पुण्यकोटिः वदति - “अहं पुनः वनं गच्छामि । एकः व्याघ्रः मम प्रतीक्षां करोति । सः मां मारयित्वा खादति” ।

अन्याः धेनवः वदन्ति - “अयि भगिनि, पुनः वनं मा गच्छतु । अत्र एव तिष्ठतु” ।

पुण्यकोटिः वदति - “भगिन्यः, मम मरणं निश्चितम् इति जानामि । तथापि अहं वनं गच्छामि । अहं कदापि असत्यं न वदामि । कृपया मम वत्सस्य पालनं कुर्वन्तु” ।

इति उक्त्वा पुण्यकोटिः वनं गच्छति ।

व्याघ्रः वदति - “अहो, नूनं त्वं सत्यभाषिणी । मरणाय पुनः अत्र आगतवती । पुण्यशालिनीं त्वां मारयितुम् अहं न इच्छामि । विना भयं ग्रामं गच्छतु” ।

इति उक्त्वा व्याघ्रः ततः निर्गच्छति ।

नीतिः - सत्यं वदतु

Roman (ITRANS) Transliteration:
ekaH grAmaH  .  grAme anekAH dhenavaH santi . dhenavaH pratidinaM prAtaH grAmataH vanaM gachChanti . vane tAH dhenavaH tR^iNaM khAdanti . anantaraM punaH vanataH grAmaM prati gachChanti .

ekadA sarvAH dhenavaH grAmaM prati gachChanti . parantu puNyakoTiH nAma dhenuH tR^iNaM khAdantI vane eva tiShThati . tadA ekaH vyAghraH AgachChati .

vyAghraH vadati - “he dheno, bahu kAlAt mama bhojanaM na labdham . tvaM mama uttamabhojanam . ataH tvAM mArayitvA khAdAmi” .

puNyakoTiH vadati - “he vyAghrarAja, satyam . ahaM tava uttamabhojanam . mAM mArayitvA khAdatu . parantu mama ekA prArthanA asti . grAme mama vatsaH asti . saH mama pratIkShAM karoti . ahaM grAmaM gachChAmi . vatsAya dugdhaM datvA punaH tava samIpe AgachChAmi . anantaraM mAM mArayitvA bhojanaM karotu” .

vyAghraH vadati - “he dheno, tava vachane kathaM vishvAsaM karomi?”

puNyakoTiH vadati - “ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vachane vishvAsaM karotu” .

vyAghraH vadati - “astu . gachChatu . vatsAya dugdhaM datvA shIghraM mama samIpe AgachChatu” .

puNyakoTiH grAmaM gachChati . vatsaH tasyAH dugdhaM pibati . anyAH dhenavaH api tatra santi. puNyakoTiH vadati - “ahaM punaH vanaM gachChAmi . ekaH vyAghraH mama pratIkShAM karoti . saH mAM mArayitvA khAdati” .

anyAH dhenavaH vadanti - “ayi bhagini, punaH vanaM mA gachChatu . atra eva tiShThatu” .

puNyakoTiH vadati - “bhaginyaH, mama maraNaM nishchitam iti jAnAmi . tathApi ahaM vanaM gachChAmi . ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vatsasya pAlanaM kurvantu” .

iti uktvA puNyakoTiH vanaM gachChati .

vyAghraH vadati - “aho, nUnaM tvaM satyabhAShiNI . maraNAya punaH atra AgatavatI . puNyashAlinIM tvAM mArayitum ahaM na ichChAmi . vinA bhayaM grAmaM gachChatu” .

iti uktvA vyAghraH tataH nirgachChati .

nItiH - satyaM vadatu

English Meaning:

There was a village. In the village, there are many cows. The cows everyday morning go to the forest from the village. In the forest, they eat grass. Afterwards, they again come back to the village from the forest.

Once, all the cows go toward the village. But, a cow by the name Punyakoti, eating the grass, stands in the forest. Then a tiger saw the cow.

The tiger says - “Hey cow, for a long time, I did not obtain any food. You are my good food. Therefore, I will kill and eat you”.

Punyakoti says - “Hey tiger, true. I am your good food. Kill me and eat. But I have a request. In the village, there is my baby calf. He is waiting for me. I will go to my village. After giving milk to my baby, I will come back to you. After that, kill me and have me for food”.

The tiger says - “Hey cow, how do I trust your words?”

Punyakoti says - “I never tell lie. Please believe in my words”.

The tiger says - “Ok, go. After giving milk to your baby, come to me quickly”.

Punyakoti goes to the village. The calf drinks her milk. Other cows are also there.

Punyakoti says - “I go to the forest again. A tiger is waiting for me. He will kill me and eat”.

The other cows say - “Hey sister, do not go to the forest again. Stay here only”.

Punyakoti says - “Sisters, I know that my death is certain. Even then, I will go to the forest. I never tell lie. Please look after my baby”.

Saying thus, Punyakoti goes to the forest.

The tiger says - “Oh, you are indeed speak truth. You came back here to die. I do not wish to kill sacred one like you. Without fear, you go to the village”.

Saying thus, the tiger goes away from there.

Moral: Speak the truth.

Tuesday, February 25, 2020

The Dilemma of Sanskrit Revival - Part 3

Final Part of the Series
The Scholarly Dysfunction
The world will not be destroyed by those who do evil, but by those who watch them without doing anything. - Albert Einstein.

In this great times of Sanskrit revival efforts, aren't there any scholars or experts who have studied the language deeply and can guide this movement? Apparently, there are plenty. Unfortunately, most of them have built a wall around themselves and have chosen not to take up the role of guiding the people. Many of them even have fallen for the populist approach and have adopted the same mis-constructs in circulation. Their excuse is this quaint quote "प्रयोगशरणाः वैयाकरणाः" - which means - it is not a grammarian’s job to tell people how to use a language. It is like a historian with the mindset: I have nothing to do with what is going on in this world - good or bad, but just will just record it. This point is so out of place in the current context. Yes, a language does grow based on how it is used by its speakers. But that is true when a language is live, in widespread use and its speakers know what they are doing with the language. The growth has to be in the right direction. Because of such inaction and indifference by experts at the time of need, history has witnessed many great things, even entire civilizations, sink into oblivion. Hopefully, the language experts will understand their responsibility, abandon the fears of social dislikes and start guiding in the right direction.

किं कर्म किमकर्मेति कवयोप्यत्र मोहिताः - Bhagavadgita
Even the learned ones are confused in determining what is right thing to do and what is not.

Shu-ha-ri
Shu-ha-ri is a Japanese principle used in many practices. In order to master a science or art, these three stages are followed. Shu means first follow and master the current framework. In the ha stage, you can add your innovations if needed. In the ri stage, you can deviate from the framework if needed. So, first find out what is currently out there, focus on understanding it, and use it correctly. But, in this time of instant gratification, we need to watch out for our tendency to jump to the third stage, knowingly or unknowingly, altering the framework, trivializing it, downgrading the quality of the language. That cannot be called Sanskrit - a Refined Language.

Another blog post on similar subject - Revival of Sanskrit, A Long Way To Go

Thursday, February 20, 2020

The Dilemma of Sanskrit Revival - Part 2

Second Part of the Series

The Fallacy of "Baby’s Way of Learning"
Facts do not cease to exist because they are ignored. - Aldous Huxley

We often hear the analogy of how babies learn a language, and how that is the natural, good way to learn Sanskrit. Such an analogy is blind to many of the facts. The baby’s way of learning is true, but is hardly applicable in case of Sanskrit learning today. Babies are completely immersed in an environment, without any pre-impression of any other language. They have full time on their hand, watching the actions and words of adults who are completely native to that language. During the first two years, a baby hears about 6,000-10,000 words per day. After all this, a baby typically starts to utter single words after a year. Such conditions hardly exist in any of our lives. We all know how we struggle to learn swimming, cycling, skating etc. once we grow up.

Critical thinking: It is heartening to see so many people all over the world, developing interest in learning Sanskrit. To cater to this demand, many fast-track Sanskrit camps and classes - online and offline - have become a common occurrence. It is really commendable that so many selfless people are volunteering their effort, energy, and sometimes even money to the cause of Sanskrit. Often times, new graduates of such boot camps are initiated into teaching other newcomers. This is all good to get more people interested in this language. But, it has the consequence of high chance of incorrect translational usages being propagated exponentially. And the first learning is extremely hard to get rid of, even if one comes to know of its flaws. For adults, a lot of unlearning is involved, generally for any new skill, and especially when a dormant language has to be revived to its graceful stature. The key for any serious enthusiast is to get into a mode of critical learning, move beyond the introductory level, shed the biases, leave behind the preconceived notions and embrace the intended structure of the language.

Just a Communication Tool?: A language can be looked at as just a tool for communication - a medium to express your thoughts - like the English language being used and taught in most parts of the world. For non-English speakers, it is just a medium, to somehow get the thoughts across and get the job done - without bothering much about its constructs etc. Is Sanskrit language just that, or is it a platform with a potential to expand one’s philosophical vista and elevate the consciousness? It could be both. In either case, it should not be corrupted with external lingusitic influences.

There is a quote in Mahabharata:
बिभेत्यल्पपुरुषाद् वेदो मामयं प्रतरिष्यति - bibhetyalpashrutaad vedo maamayam pratarishyati
The veda fears from the one who does not know it properly, that such a person would misinterpret me (veda) and spread the wrong meaning. That is true for any kind of knowledge base.




Sunday, February 16, 2020

The Dilemma of Sanskrit Revival - Part 1

In the recent times, there has been a significant effort to revive Sanskrit as a spoken language. The noble intentions and pain-staking efforts are worthy of great applause indeed. Seems like more and more people are becoming aware of the Sanskrit language. In the zest of this spread, the language itself is being subjected to compromises - some of them of really serious nature. This multi-part post is an attempt to identify the genesis of such side effects.

The British Raj Effect
Whether Sanskrit was actually an everyday spoken language of common masses or was it just a link language - is a subject of debate. In any case, it is clear that over the centuries, use of Sanskrit decreased gradually and its use was confined at the scholastic level, and then mainly to the study of scriptures. The introduction of the British colonial education system in India during 1830-1860 and its subsequent adoption delivered a big blow to the currency of Sanskrit. During the following 4-5 generations, the English was firmly established in the minds of Indians as the language of official business, and as a path to earn better livelihood and stature in society. Since then till date, English has continued to maintain that status in the Indian society. This transformation brought changes to many facets of the Indian society, including its languages. During the period 1920-1960, there were many books on Sanskrit grammar, written primarily in English. We also see that many of these have grammatical structures oriented towards the English grammar, perhaps with the thought that it would be easy for the students studying English. However, another important development that took place during this era was the gradual change to the fundamental structure of the Sanskrit language itself, importing some of the English language structural formations. This was the effect of reverse-education - that is first English, then Sanskrit. This led to the displacement of Sanskrit as a native language to a translational representation of thoughts in English.

The Growth Pangs
Sanskrit ceased to be a common (if not of masses) spoken language - for centuries. Bringing it back into currency is not going to be easy. It might take generations. The modern technological tools might speed up that process. However, like any tool, these technological tools could be good or bad. The revival efforts need careful and appropriate handling. The structure and usage of the language needs to be unearthed thoroughly, interpreted properly and then adopted in its true spirit. Otherwise, it will be an exercise of merely getting familiar with the words and throwing them in the usage. Such a language can hardly be called "Sanskrit".

Friday, February 7, 2020

शिवपार्वती-संवादः

Thanks to Shri Easwaran Subramanian for writing and contributing this story.

पार्वती - प्रभो, विलक्षणं मन्ये भारतः । स्वल्पानि चेतनान्येव कैलासं आगच्छन्ति । गङगायां स्नानं कृत्वा पापनाशनं भवति शिवलोकं सिध्यति च इति भवतोक्तम् । अस्याः परिस्थित्याः कारणं किम् ? जनाः गङ्गायां न स्नान्ति उत भागीरथी पापविमोचनशक्तिं अजहात्?
महादेवो हसन् पार्वतीं समाधातुं तामुपगम्य रहस्यं समादिशत् । तदनन्तरं तौ वृद्धरूपं धृत्वा भूमौ अवतीर्य हरिद्वारे गङगातीरम् समतिष्ठेताम् । तत्र बहवः जनाः स्नानं कुर्वन्ति स्म । सहसा महेश्वरो जलप्रवाहे स्नातुम् प्रविष्टवान् । परन्तु तेन धारायाः बलं असह्यम् अभवत् । यदा सः हस्तौ उन्नम्य साहाय्यं प्रार्थितवान् तदा केचन पुरुषाः नदीजलं प्रविश्य तं रक्षितुं सज्जा अभवन् । तान् दृष्ट्वा पार्वती अभणत् "तिष्ठन्तु, यः विगतकल्मषः अस्ति सः एव तं रक्षितुं शक्नोति ।अन्ये मा यतन्ताम्" इति । एतत् श्रुत्वा यदा सर्वे विस्मये स्थिताः तदा एकः झटिति प्रवाहे निपत्य तं वृद्धपुरुषं गृहीत्वा तटे स्थापितवान् ।
सः तस्य नगरस्य कुप्रसिद्धः चोरः आसीत् । समूहात् केचन समीपवासिनः तं विज्ञाय अपृच्छन् "कथं जातः त्वं पवित्रः । वयं जानीमः त्वं स्तेनः एव । त्वया बहूनि पापकर्माणि कृतानि" इति । सः आपत्बान्धव उक्तवान् "सत्यमेव अहं पापकर्माणि कृतवान् । परन्तु यदा अहं गङ्गाजले स्नातवान् तत्क्षणमेव अहं निर्मलः अभवम्" इति ।
महेश्वरः - पश्यतु प्रिये, सः स्तेनः गङायाः महिमायां परिपूर्णां श्रद्धां हृदि आधृत्य एव प्रवाहे निपतितवान् । शिवलोकप्राप्त्यै श्रद्धा आवश्यकी ।
पार्वती - ज्ञातं भोः ।
श्रद्धा = Faith