Sunday, September 27, 2020

महाभारतसंग्रहः-भागः २ Mahabharata Summary-Part 2


पाण्डवाः द्रौपद्या सह पाञ्चालदेशतः हास्तिनपुरं प्राप्तवन्तः | राजा धृतराष्ट्रः तेभ्यः खाण्डवप्रस्थप्रदेशं दत्तवान् | यद्यपि तत्र वनम् आसीत् तथापि पाण्डवाः तत्र इन्द्रप्रस्थनगरस्य निर्माणं कृतवन्तः | नूतननगरे पाण्डवाः राजसूययागं कृतवन्तः | भीमः जरासंधं मारितवान् | पाण्डवाः संपूर्णभारते विजयं प्राप्तवन्तः | यदा यागसमये ते श्रीकृष्णं पूजितवन्तः तदा शिशुपालः पाण्डवान् श्रीकृष्णं च निन्दितवान् | तदा श्रीकृष्णः चक्रेण शिशुपालं मारितवान् |

कौरवाणाम् अपेक्षया पाण्डवानाम् ऐश्वर्यम् अधिकम् आसीत् | अतः दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् | पाण्डवाः पराजिताः यतः दुर्योधनस्य मातुलः शकुनिः कपटः आसीत् | यदा कौरवसभायां द्रौपदीदेवी अपमानिता तदा श्रीकृष्णः तां रक्षितवान् | आगामियुद्धे सर्वान् कौरवान् मारयामि इति भीमः प्रतिज्ञां कृतवान् | यथा द्रौपदी प्रार्थितवती तथा धृतराष्ट्रः पाण्डवेभ्यः राज्यं पुनः दत्तवान् | परन्तु दुर्योधनः पाण्डवान् द्यूतार्थं पुनः आहूय तान् जितवान् | यथा क्रीडानियमः आसीत् तथा पाण्डवाः द्वादशवर्षकालं वनवासं कृतवन्तः | वनवासकाले अर्जुनः शङ्करेण पाशुपतास्त्रं प्राप्तवान् | सः इन्द्रलोकं गत्वा नृत्यविद्याभ्यासं कृतवान् | भीमः मारुतिना सह मिलितवान् | सः अनेकान् राक्षसान् मारितवान् |

त्रयोदशे वर्षे पाण्डवाः विराटनगरे गुप्तरूपेण उषितवन्तः | अज्ञातवासकाले यदि पाण्डवानां परिचयः भवति तर्हि पुनः वनवासः भवति इति नियमः आसीत् | विराटनगरे यः कीचकं मारितवान् सः भीमः एव इति कौरवाः चिन्तितवन्तः | पाण्डवान् द्रष्टुं ते विराटनगरं प्राप्तवन्तः | परन्तु यदा कौरवाः विराटनगरं प्राप्तवन्तः तदा पाण्डवानाम् अज्ञातवासः समाप्तः अभवत् |

पाण्डवानां राज्यं दातुं दुर्योधनः निराकृतवान् | कौरवपाण्डवयोः मध्ये अष्टादशदिनकालं युद्धम् अभवत् | युद्धस्य आरम्भकाले यदा अर्जुनः मम विजयः वा पराजयः वा भवतु, परन्तु युद्धं न करोमि इति उक्तवान् तदा श्रीकृष्णः भगवद्गीताम् उपदिष्टवान् | युद्धे भीष्मः पतितवान् | यावत् उत्तरायणकालः न आगच्छति तावत् शरशय्यायां तिष्ठामि इति भीष्मः उक्तवान् | यथा भीमः उक्तवान् आसीत् तथा सः सर्वान् कौरवसहोदरान् युद्धे मारितवान् | श्रीकृष्णस्य साहाय्येन पाण्डवाः विजयं प्राप्तवन्तः | युद्धानन्तरं पाण्डवाः श्रीकृष्णः च यत्र भीष्मः आसीत् तत्र गतवन्तः | भीष्मः विष्णुसहस्रनामस्तोत्रेण श्रीकृष्णं पूजितवान् | पाण्डवाः षट्त्रिंशतिवर्षकालं धर्मेण राज्यं पालितवन्तः | यदा श्रीकृष्णस्य अवतारकार्यं समाप्तं तदा पाण्डवाः अपि स्वर्गारोहणं कृतवन्तः |

यदा यदा हि धर्मस्य ग्लानिः भवति भारत |
अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् || (भगवद्गीता ४.७)

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः |
तत्र श्रीविजयः भूतिः ध्रुवा नीतिः मतिः मम || (भगवद्गीता १८.७८)


No comments:

Post a Comment