Thursday, June 25, 2020

सुलभबालकाण्डम् Simple Balakandam

दशरथः इक्ष्वाकुवंशस्य महाराजः । सः अयोध्यानगरे वसति । दशरथस्य प्रथमा पत्नी कौसल्या । द्वितीया सुमित्रा । कैकेयी च तृतीया । सः एकं यागं करोति । अग्निकुण्डे यज्ञपुरुषः प्रत्यक्षः भवति । यज्ञपुरुषात् दशरथः पायसं प्राप्नोति । दशरथस्य पत्न्यः पायसं पिबन्ति । तस्य प्रभावात् कौसल्यायाः गर्भे रामः अवतरति । सुमित्रायाः लक्ष्मणः शत्रुघ्नः इति पुत्रौ भवतः । कैकेयी भरतः इति पुत्रं जनयति ।

एकदा महर्षिः विश्वामित्रः महाराजस्य दशरथस्य समीपम् आगच्छति । सः वदति - “अहं एकं यागं करोमि । यागसमये राक्षसाः विघ्नं जनयन्ति । यागस्य रक्षणाय भवतः पुत्रं रामं मया सह प्रेषयतु” । दशरथः वदति - "रामः तु बालकः । अहम् एव आगच्छामि" । विश्वामित्रः वदति - "रामः बालकः । परन्तु सः समर्थः अस्ति । सः एव आगच्छतु" । दशरथः विश्वामित्रेण सह रामं प्रेषयति । रामेण सह लक्ष्मणः अपि गच्छति ।

रामलक्ष्मणौ महर्षिणा विश्वामित्रेण सह चलतः । मार्गे घोरं वनं भवति । तत्र ताटका इति राक्षसी निवसति । रामः दुष्टायाः ताटकायाः वधं करोति । अनन्तरं रामः लक्ष्मणः च विश्वामित्रस्य आश्रमं प्रविशतः । विश्वामित्रः यागस्य आरम्भं करोति । सुबाहुः मारीचः इति राक्षसौ तत्र आगच्छतः । तौ यागस्य नाशाय रक्तमांसादिकं पातयतः । रामः बाणेन सुबाहुं मारयति । रामस्य बाणेन मारीचः समुद्रे पतति । विश्वामित्रस्य यागः निर्विघ्नः समाप्तः भवति ।

मिथिलानगरस्य राजा जनकः । तस्य पुत्री सीता । सा अतीव सुन्दरी गुणसंपन्ना च । महाराजस्य जनकस्य समीपे एकः दिव्यः चापः अस्ति । यः तस्य चापस्य मौर्वीबन्धनं करोति सः एव सीतायाः पतिः भवति इति जनकस्य निश्चयः । रामलक्ष्मणौ विश्वामित्रेण सह मिथिलानगरं गच्छतः । मार्गे ते गौतममुनेः आश्रमं प्रविशन्ति । तत्र मुनेः पत्नी अहल्या शापग्रस्ता तिष्ठति । रामस्य दर्शनेन अहल्या शापमुक्ता भवति ।  

अनन्तरं तौ राजपुत्रौ मिथिलानगरम् आगच्छतः । रामः दिव्यं चापं पश्यति । सः तं चापं सुलभतया गृह्णाति । मौर्वीबन्धनस्य समये चापः भग्नः भवति । दशरथः परिवारेण सह मिथिलानगरम् आगच्छति । सीतायाः विवाहः रामेण सह भवति । तदा भगवान् परशुरामः तत्र आगच्छति । सः अन्यं दिव्यं चापं रामाय ददाति । एतस्य चापस्य मौर्वीबन्धनं करोतु इति रामं वदति । रामः तस्य चापस्य अपि मौर्वीबन्धनं करोति । परशुरामः रामम् अभिनन्दति । दशरथः परिवारेण सह मिथिलानगरात् अयोध्यानगरं गच्छति ।

Meanings of some words:
चापः = bow (धनुः)
जनयति = creates/produces
घोर = scary
पातयति = throws down
मौर्वीबन्धनम् = tying of string to a bow
शापग्रस्त = afflicted by curse
शापमुक्त = free from curse

Thursday, June 18, 2020

बालकिष्किन्धाकाण्डम् Kishkindha Kandam made Simple


सुग्रीवः वाली च सहोदरौ | वाली किष्किन्धादेशस्य भूपः | सहोदरस्य भयात् सुग्रीवः ऋष्यमूकपर्वते वसति | सुग्रीवेण सह तस्य वानरगणः अपि वसति | रामः लक्ष्मणः च ऋष्यमूकपर्वतम् आगच्छतः | तत्र मारुतिः रामेण सह मिलति | मारुतिः रामेण सह भाषणं करोति | रामः लक्ष्मणः च  मारुतिना सह सुग्रीवस्य समीपं गच्छतः | रामः सुग्रीवेण सह सख्यं करोति | वाली सुग्रीवः च युध्यतः | तदा रामः सुग्रीवस्य सहोदरं मारयति | सुग्रीवः किष्किन्धादेशस्य भूपः भवति | अङ्गदः युवराजः भवति | सीतायाः अन्वेषणम् करोतु इति सुग्रीवः वानरगणम् आज्ञापयति | वानराः सर्वत्र गच्छन्ति | अङ्गदः वानरगणेन सह दक्षिणदिशां गच्छति | मारुतौ रामस्य पूर्णः विश्वासः | रामः मारुतये अङ्गुलीयकं ददाति | मारुतिः अङ्गदेन सह गच्छति | मारुतिः अङ्गदः वानराः च दक्षिणसमुद्रस्य तीरम् आगच्छन्ति | तत्र खगेन संपातिना सह ते मिलन्ति | लङ्कायां सीता अस्ति इति संपातिः कथयति | समुद्रस्य लङ्घनं कः करोति इति वानराः चिन्तयन्ति | कोऽपि वानरः सिद्धः न भवति | तदा जाम्बवान् मारुतेः शक्तिं वर्णयति | मारुतिः रामं स्मरति | सः महेन्द्रपर्वतम् आरोहति | भक्तश्रेष्ठः सः लङ्घनाय सिद्धः भवति |

Focus on: Usage of द्विवचनम्, बहुवचनम्, सह, विशेषणम्, पुरतः

Meaning of some words:

भूपः = राजा king                               सख्यम् = मैत्री friendship

आज्ञापयति = orders                          कथयति = वदति tells

कोऽपि = कः अपि anybody                वर्णयति = describes


English Translation:

sugrIva and vAlI are brothers. vAlI is the king of Kishkindha region. Being afraid of his brother, sugrIva lives on R^ShyamUka mountain. His monkey army (vAnaragaNa) also lives with sugrIva. rAma and lakShmaNa arrive at R^shyamUka mountain. There, mAruti meets rAma. mAruti talks with rAma. rAma and lakShmana along with mAruti go to sugrIva. rAma befriends sugrIva. vAlI and sugrIva fight. Then rAma kills sugrIva’s brother. SugrIva becomes the king of Kishkindha region. angada becomes the crown prince. sugrIva orders the monkey army, “Go search for sItA”. The monkeys go everywhere. angada, along with the monkey army, goes to the south direction. rAma has complete trust in mAruti. rAma gives his finger ring to mAruti. mAruti goes with angada. mAruti, angada and the monkeys arrive in front of the southern sea. There they meet the bird sampAti. sampAti tells, “sItA is in Lanka''. The monkeys think as to who can cross the sea. None of the monkeys becomes ready. Then, jAmbavAn describes mAruti’s strength. mAruti remembers (prays to) rAma. He climbs up the mahendra mountain. The most devoted (to rAma) mAruti gets ready for the leap.


Monday, June 15, 2020

विभक्तिदर्शकश्लोकाः ८ - Verses with Declension 8 अस्मद्


वामनस्तुतिः Vamana Prayer
अस्मद् शब्दः asmad (pronoun)
मूलम् - स्वरचितम् Source - Self

वामनो वटुरूपोऽहं मां विद्धि जगतः पतिम् ।
याचितस्स मया बलिः मह्यं प्रादात् स्वकं भुवम् ॥
मत्तोऽसुरगणा भीता मम गात्रं त्रिविक्रमम् ।
मयि संश्रयितो दैत्यः प्राप्स्यतीन्द्रासनं शुभम् ॥
vAmano vaTurUpo.ahaM mAM viddhi jagataH patim ।
yAchitassa mayA baliH mahyaM prAdAt svakaM bhuvam ॥
matto.asuragaNA bhItA mama gAtraM trivikramam ।
mayi saMshrayito daityaH prApsyatIndrAsanaM shubham ॥

पदच्छेदः (Word separation):
वामनः वटुरूपः अहम् माम् विद्धि जगतः पतिम् ।
याचितः सः मया बलिः मह्यम् प्रादात् स्वकम् भुवम् ॥
मत्तः असुरगणाः भीताः मम गात्रम् त्रिविक्रमम् ।
मयि संश्रयितः दैत्यः प्राप्स्यति इन्द्रासनं शुभम् ॥
vAmanaH vaTurUpaH aham mAm viddhi jagataH patim ।
yAchitaH saH mayA baliH mahyam prAdAt svakam bhuvam ॥
mattaH asuragaNAH bhItAH mama gAtram trivikramam ।
mayi saMshrayitaH daityaH prApsyati indrAsanaM shubham ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
अहम् I वामनः Vamana (short) वटुरूपः has the form of a pious student.
माम् Me जगतः of the world पतिम् protector विद्धि (you) understand.
मया By me सः that बलिः Bali (name of the king) याचितः was asked for.
मह्यम् To me स्वकम् his भुवम् land प्रादात् (he) gave.
मत्तः From me असुरगणाः the groups of demons भीताः are frightened.
मम My गात्रम् body (shape) त्रिविक्रमम् (is) all-pervading.
मयि In me संश्रयितः taken refuge दैत्यः the demon (King Bali) शुभम् auspicious इन्द्रासनं the post of Indra प्राप्स्यति will obtain.
(Per Puranas, King Bali will become Indra in the next Manvantara).

Monday, June 8, 2020

तुकारामस्य आमलकम् - Tuakarama and the Berry

तुकारामः इति भगवद्भक्तः सप्तदशक्रैस्तशताब्दौ महाराष्ट्रप्रान्ते ख्यातनामा आसीत् | तस्य जीवने घटिताः इति कथ्यमानाः नैकाः कथाः प्रचलिताः सन्ति | तासु अन्यतमा कथा इयम् अत्र निरूप्यते |

एकदा केचन ग्रामजनाः तीर्थयात्रां कर्तुं निश्चितवन्तः | ते आशीर्वचनार्थं तुकारामस्य समीपम् आगताः | तुकारामः सुखयात्रार्थं स्वस्तिवचनम् अवदत् | सः एकम् आमलकफलं दत्त्वा अकथयत् - "आमलकम् एतत् बहु तिक्तम् | तीर्थक्षेत्रेषु अस्य अपि क्षालनं कृत्वा आनयतु | तदा तत् फलं मधुरं भवति" |

यात्रार्थिनः आमलकफलं गृहीत्वा निर्गताः | सर्वेषु तीर्थक्षेत्रेषु स्नानसमये फलस्य अपि प्रक्षालनम् अभवत् | मासानन्तरं ते ग्रामं प्रत्यागत्य तुकारामेण सह भोजनम् अकुर्वन् | भोजनसमये तुकारामः आमलकफलं खादन्तु इति अवदत् | श्रद्धया ते जनाः फलम् अखादन् | परन्तु फलं मधुरं न आसीत् | तिक्तम् एव आसीत् | ते विस्मयेन तुकारामस्य मुखम् अपश्यन् |

तुकारामः स्मयमानः अवदत् - "सज्जनाः पश्यन्तु | यथा बाह्यशुद्धीकरणात् फलस्य रुचिः न परिवर्तिता तथैव तीर्थेषु निमज्जनात् मनःशुद्धिः न संभवति | भगवद्भक्तिः सर्वथा करणीया" | आमलकदृष्टान्तेन भक्तिमाहात्म्यम् अवगतवन्तः जनाः |

English Translation
In the 17th century CE, there was a famous devotee by the name Tukarama in the Maharashtra area. There are many stories in circulation that are said to have happened in his life. One such story is presented here.

Once, some villagers decided to go on a pilgrimage. They came to Tukarama for blessing. Tukarama wished them with good words. He gave them a berry fruit and said - "This berry is very sour. In the sacred places, clean this fruit also with water and bring it back. Then that fruit will become sweet".

The travelers took the fruit and went away. In all the sacred places, during the bathing time, the fruit also got cleaned, After a month, they came back to the village and had lunch with Tukarama. During the lunch, Tukarama said to eat the fruit. Those people ate the fruit with respect. But the fruit was not sweet. It was sour only. They looked at Tukarama in surprise.

Tukarama smiling said - "Gentlemen, look. Just like the fruit's taste did not change due to the external cleansing, the mind won't be cleansed by taking dips at sacred places. Always, devotion in god should be done". By the example of the berry, the people understood the greatness of devotion.