Showing posts with label Prayers. Show all posts
Showing posts with label Prayers. Show all posts

Sunday, February 13, 2022

Sarasvati Prayer या कुन्देन्दु

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

अन्वयः तथा पदच्छेदः -
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदा वन्दिता (या) निःशेषजाड्यापहा सा भगवती सरस्वती माम् पातु ॥

प्रतिपदार्थः -
कुन्देन्दुतुषारहारधवला
कुन्द = कुन्दपुष्प jasmine flower इन्दु = चन्द्र moon तुषार = नीहार frost धवल = स्वच्छ clean/pure

शुभ्रवस्त्रावृता
शुभ्र = शुचि bright वस्त्र = वसन cloth आवृत = आच्छादित covered

वीणावरदण्डमण्डितकरा
वीणा = तन्तुवाद्य a type of string instrument वरदण्ड = श्रेष्ठयष्टि beautiful staff मण्डितकर = अलङ्कृतहस्त adorned hands

श्वेतपद्मासना
श्वेत = सित white पद्म = कमल lotus आसन = उपवेशन chair

ब्रह्माच्युतशङ्करप्रभृतिभिः
ब्रह्मा = चतुरानन Brahma अच्युत = विष्णु Vishnu शङ्कर = शिव Shiva प्रभृतिभिः = इत्यादिभिः by such

देवैः = अमरैः by the gods सदा = सर्वदा always वन्दिता = पूजिता respected

निःशेषजाड्यापहा
निःशेष = without traces जाड्य = sluggishness अपहा = अपहरणकर्त्री one who quells

सा = असौ She भगवती = देवी Goddess सरस्वती Sarasvati माम् पातु = मम रक्षणं करोतु May she protect me.

सारार्थः -
या कुन्दपुष्पम् चन्द्रः प्रातःकालीनतुषारः च इव निर्मला (अस्ति)
या शुभ्रवस्त्रैः परिधृता (अस्ति)
यस्याः करः सुन्दरवीणादण्डेन अलङ्कृतः (अथवा वीणा उत्तमदण्डेन च अलङ्ककृतौ करौ) (अस्ति)
या श्वेतवर्णयुक्तकमलपुष्पे आसीना (अस्ति)
ब्रह्माच्युतशङ्करादिदेवाः अपि यस्याः सदा वन्दनं कुर्वन्ति
या जाड्यं समूलं नाशयति
सा भगवती सरस्वती मां रक्षतु

The one who is pure like the jasmine flower, moon and morning frost, the one who is covered with bright clothes, the one who is holding the beautiful veena in her hand (or one who is holding veena and a beautiful staff), the one who has white lotus as her seat, the one who is always respected by Brahma, Vishnu, Shiva and other gods, the one who completely removes the sluggishness (of mind), that Goddess Sarasvati may protect me.

Wednesday, November 3, 2021

लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi

 


रमा माधवस्य प्रिया माधवी सा

क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।

सदावीतरागस्य नित्यानुसङ्गा

पुराणाप्रमेयस्य नैकट्यधामा ॥

(भुजङ्गप्रयातवृत्तम्)

अर्थः
रमा इति ख्याता लक्ष्मीः सर्वं लोकं रमयति  माधवस्य नारायणस्य प्रिया सा  अत एव सा माधवी इत्यपि विश्रुता  सा सर्वं लोकं क्षमते भूरूपेण  लोकस्य अखिलस्य विश्वस्य माता जननी  अत एव सा ब्रह्मरुद्रादिवन्द्या 
सदावीतरागः नारायणः सर्वगुणातीतः कर्मबन्धरहितः  तस्य नारायणस्यापि नित्यम् अनुवसति नारायणी रमा  पुराणपुरुषस्य अप्रेमयस्य नारायणस्य निकटे एव रमादेव्याः सर्वदा वासः प्रलयकालेऽपि 

Saturday, August 14, 2021

शिवस्तुतिः Shiva Stuti


रुद्राकारं भुजगवलयं भूतनाथं महेशं गङ्गाधारं वृषभगमनं पार्वतीप्राणनाथम् ।

चर्माश्लिष्टं तुहिननिलयं चन्द्रचूडं त्रिनेत्रं वन्दे शंभुं भवभयहरं सर्वलोकाशुतोषम् ॥

अर्थः -

देवस्यास्य आकारो रुद्रः । दुष्टान् रोदयतीति रुद्रः । संहारकाले अखिलजीवगणं रोदयतीति वा । भुजगाः सर्पाः अस्य वलयाः । सर्पाः वलयरूपीणि आभरणानि । अयं भूतगणस्य अधिपतिः । महेश इति ख्यातः महैश्वर्यवान् । गङ्गादेव्याः आधारभूतः शिरसि । वृषभः अस्य वाहनम् । पार्वतीदेव्याः पतिः ।

चर्माम्बरधारी । तुहिनदेशे हिमपर्वते अस्य वासः । चन्द्रः अस्य चूडारूपः । त्रीणि यस्य नेत्राणि । सः शंभुः सुखकरः । भवभयं संसारतापं हरतीति । सर्वलोकस्य आशुतोषः । शीघ्रं प्रसन्नः भवतीति । एतादृशं महादेवं वन्दे ।


गानम्


Tuesday, April 27, 2021

विभक्तिदर्शकश्लोकाः ९ - Verses with Declension 9 हनुमत्


 हनुमान् जगतः प्राणो जज्ञे रामपरायणः |

हनुमन्तमुपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रो हरिणा सजुः |

हनुमते ददौ रामः सीतार्थमङ्गुलीयकम् |

हनुमतः पराजिता दैत्यास्तीर्त्वा सरित्पतिम् ||

हनुमतः मतं गत्वा महीं प्राप विभीषणः |

हनुमति हरिः प्रीतो लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समो नास्ति ज्ञानमुक्तिप्रदायक ||


पदच्छेदः (Word Separation): words with vibhaktis highlighted

हनुमान् जगतः प्राणः जज्ञे रामपरायणः |

हनुमन्तम् उपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रः हरिणा सजुः |

हनुमते ददौ रामः सीतार्थम् अङ्गुलीयकम् |

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् ||

हनुमतः मतम् गत्वा महीम् प्राप विभीषणः |

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समः नास्ति ज्ञानमुक्तिप्रदायक ||


सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)

हनुमान् जगतः प्राणः   hanumAn is world's vital strength. रामपरायणः  जज्ञे He was born to serve rAma.

शैशवे हनुमन्तम् उपागम्य सुराः प्रणताः In (his) babyhood, the gods went near hanumAn and bowed to him.

हनुमता सहायेन हरीन्द्रः हरिणा सजुः  With the help of hanumAn, the king of monkeys (sugrIva) became friend with hari (rAma).

रामः सीतार्थम् अङ्गुलीयकम् हनुमते ददौ rAma, for sItA, gave the ring to hanumAn.

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् Because of hanumAn, the demons were defeated, as he crossed the king of water bodies (ocean).

हनुमतः मतम् गत्वा विभीषणः महीम् प्राप By having the same opinion as hanumAn, vibhIShaNa obtained the land (kingdom).

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् hari is always pleased with hanumAn, (and so) lakShmIH is pleased (with hanumAn)

हनुमन् ज्ञानमुक्तिप्रदायक त्वत्समः नास्ति (O) hanumAn, (O) the giver of knowledge and salvation, there is no one like you.

(मूलम् - स्वरचितम् Source - Self)

This is also available on this page.


Friday, April 24, 2020

विभक्तिरूपदर्शकाः श्लोकाः ४- Verses with Declension 4

वाणी (सरस्वती) स्तुतिः Vaanee (Sarsvatee) Prayer
ई-कारान्त-स्त्रीलिङ्ग-शब्दः वाणी
Declension of feminine gender word Vaanee ending in “I”
मूलम्-मन्मननिवासिनी वाणी
Source-Vaanee residing in my mind

वाणी परमकल्याणी वाणीं वीणाधरां श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमोस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्यां भवतु मे भक्तिर्हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIM vINAdharAM shraye ।
vANyA siddhyati gairvANI vANyai namostu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaHpradA ।
vANyAM bhavatu me bhaktirhe vANi hR^idgatA bhava ॥

पदच्छेदः (Word separation):
वाणी परमकल्याणी वाणीम् वीणाधराम् श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमः अस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्याम् भवतु मे भक्तिः हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIm vINAdharAm shraye ।
vANyA siddhyati gairvANI vANyai namaH astu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaH pradA ।
vANyAm bhavatu me bhaktiH he vANi hR^idgatA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
वाणी Vaanee परमकल्याणी is very auspicious.
वाणीम् To Vaanee वीणाधराम् to one who does good श्रये (I) take refuge.
वाण्या By Vaanee गैर्वाणी language सिद्ध्यति gets accomplished.
वाण्यै For Vaanee सर्वशः b all means नमः bow (salute) अस्तु (let) be.
वाण्याः From Vaanee विद्या knowledge प्रजायते is born.
वाण्याः Vaanee's कृपा courtesy वचःप्रदा (is) giver of speech.
वाण्याम् In Vaanee मे my भक्तिः devotion भवतु (let) be.
हे Hey वाणि Vaanee हृद्गता one who resides in (my) heart भव (let) be.

Wednesday, April 22, 2020

विभक्तिरूपदर्शकाः श्लोकाः ५- Verses with Declension 5

गुरुस्तुतिः Teacher Prayer
उ-कारान्त-पुंलिङ्गः गुरु-शब्दः
Declension of masculine gender word guru ending in sound “u”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।
न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ॥
gurureva gatirgurumeva bhaje guruNaiva sahAsmi namo gurave ।
na guroH paramaM shishurasmi guroH matirasti gurau mama pAhi guro ॥

पदच्छेदः (Word separation):
गुरुः एव गतिः गुरुम्  एव भजे गुरुणा  एव सह अस्मि नमः गुरवे
गुरोः परमम् शिशुः अस्मि गुरोः मतिः अस्ति गुरौ  मम पाहि गुरो
guruH eva gatiH gurum eva bhaje guruNA eva saha asmi namaH gurave ।
na guroH paramam shishuH asmi guroH matiH asti gurau mama pAhi guro ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
गुरुः Teacher एव only गतिः (is) the refuge.
गुरुम् (To) teacher एव only भजे (I) pray.
गुरुणा सह  (With teacher) एव only अस्मि (I) stay.
गुरवे For teacher नमः bow (salute).
गुरोः Other than teacher परमम् better न not (exists).
गुरोः Teacher’s शिशुः baby (looked after) अस्मि (I) am.
गुरौ In teacher मम my मतिः mind (अस्ति is (exists).
गुरो (O) Teacher पाहि protect (me).

Tuesday, April 21, 2020

विभक्तिरूपदर्शकाः श्लोकाः ३- Verses with Declension 3

हरिस्तुतिः Hari Prayer
इ-कारान्त-पुंलिङ्ग-हरि-शब्दः
Declension of masculine word Hari ending in “i”
मूलम् - मदन्तर्गतो हरिः
Source - Hari in me

हरिः सर्वजगद्वन्द्यो हरिं श्रीरमणं भजे ।
हरिणा पालितं विश्वं हरये गुरवे नमः ॥
हरेः परतरो नास्ति हरेः स्तवनमुत्तमम् ।
हरौ भकिर्दृढा मेस्तु हे हरे मुक्तिदो भव ॥
hariH sarvajagadvandyo hariM shrIramaNaM bhaje ।
hariNA pAlitaM vishvaM haraye gurave namaH ॥
hareH parataro nAsti hareH stavanamuttamam ।
harau bhakirdR^iDhA mestu he hare muktido bhava ॥

पदच्छेदः (Word separation):
हरिः  सर्वजगद्वन्द्द्यः हरिम्  श्रीरमणम् भजे ।
हरिणा  पालितम् विश्वम् हरये  गुरवे नमः ॥
हरेः  परतरः नास्ति हरेः  स्तवनम् उत्तमम् ।
हरौ  भक्तिः दृढा मे अस्तु हे हरे  मुक्तिदः भव ॥
hariH sarvajagadvanddyaH harim shrIramaNam bhaje ।
hariNA pAlitam vishvam haraye gurave namaH ॥
hareH parataraH nAsti hareH stavanam uttamam ।
harau bhaktiH dR^iDhA me astu he hare muktidaH bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
हरिः Hari सर्वजगद्वन्द्द्यः (is) revered by the entire world.
हरिम् To Hari श्रीरमणम् to the husband of Shree (Lakshmee) भजे I pray.
हरिणा By Hari विश्वम् the universe पालितम् (is) maintained.
हरये For Hari गुरवे for the great नमः.
हरेः Other than Hari परतरः a better one न अस्ति is not there.
हरेः Hari’s स्तवनम् praising उत्तमम् (is) good.
हरौ In Hari मे my भक्तिः devotion दृढा firm अस्तु let be.
हे Hey हरे Hari मुक्तिदः giver of salvation भव (you) become.

Saturday, April 18, 2020

विभक्तिरूपदर्शकाः श्लोकाः २- Verses with Declension 2

रमास्तुतिः Ramaa (Lakshmee) Prayer
आ-कारान्त-स्त्रीलिङ्ग-रमा-शब्दः
Declension of feminine word ending in “A”
मूलम्-स्वरचितस्तोत्रम्
Source-Composed by myself

रमा नारायणी देवी रमां परतरां भजे ।
रमया सर्वसमृद्धिः रमायै क्रियते नमः ॥
रमायाः प्रकृतिर्जाता रमायाः कीर्तिरद्भुता
रमायां संश्रितो लोको हे रमे सुखदा भव ॥
ramA nArAyaNI devI ramAM paratarAM bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itirjAtA ramAyAH kIrtiradbhutA
ramAyAM samshrito loko he rame sukhadA bhava ॥

पदच्छेदः (Word separation):
रमा  नारायणी देवी रमाम्  परतराम् भजे ।
रमया  सर्वसमृद्धिः रमायै  क्रियते नमः ॥
रमायाः  प्रकृतिः जाता रमायाः  कीर्तिः अद्भुता
रमायाम्  संश्रितः लोकः हे रमे  सुखदा भव ॥
ramA nArAyaNI devI ramAm paratarAm bhaje ।
ramayA sarvasamR^iddhiH ramAyai kriyate namaH ॥
ramAyAH prakR^itiH jAtA ramAyAH kIrtiH adbhutA
ramAyAm samshritaH lokaH he rame sukhadA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रमा Ramaa नारायणी (is) Naaraaayana’s wife देवी goddess.
रमाम् To Ramaa परतराम् to the supreme भजे (I) pray.
रमया From Ramaa सर्वसमृद्धिः (is) all prosperity.
रमायै For Ramaa नमः bow (salute) क्रियते is done.
रमायाः From Ramaa प्रकृतिः the nature जाता is born.
रमायाः Ramaa’s कीर्तिः glory अद्भुता (is) extraordinary.
रमायाम् In Ramaa लोकः the world संश्रितः (is) taken shelter.
हे Hey रमे Ramaa सुखदा provider of happiness भव become.

Tuesday, April 14, 2020

विभक्तिरूपदर्शकाः श्लोकाः १ - Verses with Declension 1


अ-कारान्त-पुंलिङ्गः-शब्दः

श्लोकः १ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 1 - Masculine word rAma ending in sound “a”
मूलम्-श्रीरामरक्षास्तोत्रम्
Source-Shri Ramaraksha Stotram

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर ॥
rAmo rAjamaNiH sadA vijayate rAmaM rameshaM bhaje
rAmeNAbhihatA nishAcharachamU rAmAya tasmai namaH ।
rAmAnnAsti parAyaNaM parataraM rAmasya dAsosmyahaM
rAme chittalayassadA bhavatu me bho rAma mAmuddhara ।।

पदच्छेदः (Word separation):
रामः राजमणिः सदा विजयते रामम् रमेशम् भजे
रामेण अभिहताः निशाचरचमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥
rAmaH rAjamaNiH sadA vijayate rAmam ramesham bhaje
rAmeNa abhihatAH nishAcharachamUH rAmAya tasmai namaH .
rAmAt na asti parAyaNam parataram rAmasya dAsaH asmi aham
rAme chittalayaH sadA bhavatu me bho rAma mAm uddhara ..

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रामः Rama राजमणिः jewel (great) of the kings सदा always विजयते wins/excels.
रामम् To Rama रमेशम् To the husband of Ramaa भजे I pray.
रामेण By Rama निशाचरचमूः army of demons अभिहताः were killed.
तस्मै For (to) that रामाय for (to) Rama नमः salute (bow).
रामात् Other than Rama परायणम् the ultimate to be obtained परतरम् a better one न not अस्ति is.
अहम् I रामस्य of Rama दासः servant अस्मि am.
रामे In Rama मे my चित्तलयः focused mind सदा always भवतु let be.
भो Hey राम Rama माम् me उद्धर lift up.

फलितार्थः (Resulting meaning)
Rama, the great king excels. I offer my prayer to Rama, Ramaa’s husband. Army of demons were killed by Rama. I bow to that Rama. There is none other to be pursued or better than Rama. I am a servant of Rama. Let my mind be always in the thought of Rama. Hey Rama, please help me out of the miseries.

---------------------------
श्लोकः २ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 2 - Masculine word rAma ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

श्रीरामः शरणं समस्तजगतां रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रायः ॥
shrIrAmaH sharaNaM samastajagatAM rAmaM vinA kA gatiH
rAmeNa pratihanyate kalimalaM rAmAya kAryaM namaH ।
rAmAt trasyati kAlabhImabhujago rAmasya sarvaM vashe
rAme bhaktirakhaNDitA bhavatu me rAma tvamevAshrAyaH ॥

पदच्छेदः (Word separation):
श्रीरामः शरणम् समस्तजगताम् रामम् विना का गतिः
रामेण प्रतिहन्यते कलिमलम् रामाय कार्यम् नमः ।
रामात् त्रस्यति कालभीमभुजगः रामस्य सर्वम् वशे
रामे भक्तिः अखण्डिता भवतु मे राम त्वम् एव आश्रायः ॥
shrIrAmaH sharaNam samastajagatAm rAmam vinA kA gatiH
rAmeNa pratihanyate kalimalam rAmAya kAryam namaH ।
rAmAt trasyati kAlabhImabhujagaH rAmasya sarvam vashe
rAme bhaktiH akhaNDitA bhavatu me rAma tvam eva AshrAyaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्रीरामः Lord Rama समस्तजगताम् of the entire world शरणम् (is) refuge.
रामम् विना without Rama का what गतिः (is our) state (fate)?
रामेण by Rama कलिमलम् the impurity (caused) in this era प्रतिहन्यते is destroyed.
रामाय To that Rama नमः bow (salute) कार्यम् is to be done.
रामात् From Rama कालभीमभुजगः the huge serpent of time (death) त्रस्यति is afraid.
रामस्य Of (to) Rama सर्वम् all वशे belongs.
रामे In Rama मे my अखण्डिता uninterrupted भक्तिः devotion भवतु let happen.
राम (O) Rama, त्वम् you एव only आश्रायः (is) the refuge.

-------------------------------------
श्लोकः ३ -  अ-कारान्त-पुंलिङ्गः कृष्ण-शब्दः
Shloka 3 - Masculine word kR^iShNa ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहं
कृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ॥
kR^iShNo rakShatu mAM charAcharaguruH kR^iShNaM namasyAmyahaM
kR^iShNenAmarashatravo vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAdeva samutthitaM jagadidaM kR^iShNasya dAsosmyahaM
kR^iShNe bhaktira~nchalAstu bhagavan he kR^iShNa tubhyaM namaH ॥

पदच्छेदः (Word separation):
कृष्णः रक्षतु माम् चराचरगुरुः कृष्णम् नमस्यामि अहम्
कृष्णेन अमरशत्रवः विनिहताः कृष्णाय तस्मै नमः ।
कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम्
कृष्णे भक्तिः अचञ्चला अस्तु भगवन् हे कृष्ण तुभ्यम् नमः ॥
kR^iShNaH rakShatu mAm charAcharaguruH kR^iShNam namasyAmi aham
kR^iShNena amarashatravaH vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAt eva samutthitam jagat idam kR^iShNasya dAsaH asmi aham
kR^iShNe bhaktiH acha~nchalA astu bhagavan he kR^iShNa tubhyam namaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
कृष्णः Krishna चराचरगुरुः (who is) the greatest of all moving and non-moving things माम्  me रक्षतु should protect.
अहम् I कृष्णम् to Krishna नमस्यामि will bow down.
अमरशत्रवः The enemies of gods कृष्णेन by Krishna विनिहताः were killed.
तस्मै To that  कृष्णाय to Krishna नमः bow (salute).
इदम् This जगत् world कृष्णात् from Krishna एव only समुत्थितम् has risen (created).
अहम् I कृष्णस्य Krishna’s दासः servant अस्मि am.
कृष्णे In Krishna भक्तिः devotion अचञ्चला unwavering अस्तु let be.
हे O भगवन् lord कृष्ण Krishna तुभ्यम् to you नमः bow (salute).




Wednesday, January 22, 2020

भर्तासि त्वमहं भार्या You are husband, I am wife

This is the Sanskrit translation of one of the beautiful short devotional poems (called ugaabhoga) composed by Achalananda Vithala in Kannada language. The love and affinity towards god expressed in this poem is typical of the "daasa" or "bhakti" movement that was in its peak during the 16th-18th century CE.

पुण्यार्धं लभते भार्या यदस्ति भर्तुरार्जितम् ।
भर्ता नार्हो भार्यापुण्यं पापं भुङ्क्ते स्वभार्यजम् ।।
स्वकृतञ्चापि सर्वस्वं भार्या न पापभागिनी ।
भर्तासि त्वमहं भार्या हे कृष्ण पापनाशन ।।

पदच्छेदः
पुण्यार्धं लभते भार्या यत् अस्ति भर्तुः आर्जितम् |
भर्ता न अर्हः भार्यापुण्यं पापं भुङ्क्ते स्वभार्यजम् ।।
स्वकृतं च अपि सर्वस्वं भार्या न पापभागिनी ।
भर्ता असि त्वम् अहं भार्या हे कृष्ण पापनाशन ।।

Meaning
Wife gets half the share of the virtuous deeds of her husband. But the husband does not get any share in the virtuous deeds of his wife. But he gets the sins of his wife as well as sins of his own. Wife does not get sins of husband. O Krishna, destroyer of sins, you are my husband, I am your wife!

This is the original Kannada composition:
ಗಂಡ ಮಾಡಿದ ಪುಣ್ಯ ಹೆಂಡತಿಗೆ ಸಮಪಾಲು
ಹೆಂಡತಿ ಮಾಡಿದ ಪುಣ್ಯ ಗಂಡನಿಗಿಲ್ಲ ।
ಗಂಡ ಮಾಡಿದ ಪಾಪ ಹೆಂಡತಿಯದಲ್ಲಾ
ಹೆಂಡತಿ ಮಾಡಿದ ಪಾಪ ಗಂಡನಿಗೆ ।
ತೊಂಡರಕ್ಷಕ ಅಚಲಾನಂದ ವಿಠಲಾ ನೀ ಗಂಡ ನಾ ಹೆಂಡತಿ ।।

Wednesday, April 18, 2018

परशुरामस्तॊत्रम् Parashuram Stotram



परशुरामस्तॊत्रम्

जामदाग्निं रमावन्द्यं भृगूणां कुलदीपकं |
रॆणुकानन्दनं रामं पितुर्वचनपालकम् ॥१॥
क्षात्रॆण तॆजसा युक्तं कृतवीर्यसुतान्तकं |
सपरशुर्धरातलॆ दुष्टराजविनाशकम् ॥२॥
दाशरथिं समागम्य वैष्णवास्त्रप्रदायकम् |
कृष्णयॊरवतारॆ तु खलानां नाशकारणम् ॥३॥
अनादिनिधनं नित्यं परब्रह्मस्वरूपिणं |
सन्तु मॆ निर्मला वाचः वन्दॆ ज्ञानबलप्रदम् ॥४॥

Monday, April 9, 2018

पाहि मां रङ्ग पाहि मां कृष्ण गीतम्


(मूलम् - पुरन्दरदासवरेण्येन रचितं "करुणिसो रङ्ग करुणिसो" कन्नडभाषायां भक्तिगीतम्)

पाहि मां रङ्ग पाहि मां कृष्ण |
सायं प्रातः तव संस्मरणं दत्वा ||

रुक्माङ्गदो नाहं व्रतपालेषु
स्तोतुन्न जाने शुकमुनिसदृशम् |
बकरिपुसदृशो ध्याने नाहं
लालने नाहं देवकीमाता || १ ||

गरुडो नास्मि गमने समर्थः
शब्दो नास्ति इव करिराजः |
वरकपिश्रेष्ठो दास्ये नाहं
रमणे श्रीः नित्या नाहम् || २ ||

नाहं दाने बलिमहाराजः
छलभक्त्योरहं न तु प्रह्लादः |
वरणे नास्मि तव सखार्जुनः
त्राहि देवाधिदेव त्राहि देवाधिदेव
पुरन्दरविट्ठल श्रीपुरन्दरविट्ठल || ३ ||

Thursday, September 21, 2017

गजवदन याचेऽहम् - Sanskrit Song on Lord Ganesha


(मूलम् - पुरन्दरदासवरेण्येन "गजवदन बेडुवे" कन्नडभाषागीतम्)

गजवदन याचेऽहं गौरीतनय |
त्रिजगवन्दित देव सुजनानां पालक || ० ||
पाशाङ्कुशधर परमपवित्र |
मूषकवाहन मुनिजनप्रेम || १ ||
मुदया ते पदौ दर्शय मे त्वं
साधुवन्दित हे आदरतया भजे || २ ||
सरसिजनाभश्रीपुरन्दरविट्ठलं |
सास्मर्यमाणं कुरु मम चित्तम् || ३ ||


Sung by Smt. Vasumathi Nagarajan - on YouTube


Thursday, February 23, 2017

Song on Shiva - कैलासवास गौरीश ईश



शङ्करस्तुतिगीतम्
विजयदासविरचितकन्नडभक्तिगीतस्य संस्कृतानुवादः
कैलासवास गौरीश ईश |
तैलधारातुल्यमतिं देहि हरिचरणे शम्भो ||
लोकेस्मिन् अहोरात्रं चानुजाग्रणी भूत्वा
सर्वत्र भ्रमितोऽहं हे महादेव |
अहिभूषण मे त्वम् अवगुणान् नावलोक्य
धर्मविहिते सुपथि देहि वैष्णवभक्तिं शम्भो || १ ||
पापपुण्यानां न मनश्च कारणमस्ति
अनलाक्ष ननु तव विना प्रेरणाम् |
धनुजगतमदहारि भूरि ते प्रणमामि
नमय मे शिरः सुजनचरणकमले शम्भो || २ ||
भागीरथीधर मे भवभीतिं परिहृत्य
परिपालय मां त्वं सततं हि शर्वदेव |
भागवतजनप्रिय विजयविट्ठलस्याङ्घ्र्यां
सर्वात्मना भक्त्या सेवाभाग्यं मे देहि || ३ ||

Monday, December 12, 2016

पवमान पवमान (Pavamana Pavamana Song)

पवमान पवमान
(Translation of Kannada Song on Hanuman)
मूलम् - विजयदासवरेण्येन लिखितम्
पवमान पवमान जगतः प्राण संकर्षण भवभयारण्यदहन पवन |
श्रवणेत्यादिनवविधभक्तीस्त्वरया प्रयच्छ कविजनप्रिय || ० ||
हेमकौपीन उपवीतधरित मारुत कामादिवर्गरहित |
व्योमादिसर्वव्यापृत सततनिर्भीत रामचन्द्रस्य निजदूत ||
यामयामतः तव पूजार्थं काङ्क्षति मे मनः भक्तिभावतः |
मम चित्ते सुखस्तोमदो भव त्वं पामरमतिः तव शरणोऽहम् || १ ||
वज्रशरीर गम्भीर मुकुटधर दुर्जनवनकुठार |
निर्जरमणिदयापार वार उदार सज्जनस्याघपरिहार ||
अनुजार्जुनध्वजपटे त्वं स्थित्वा अकरोर्भीकरगर्जननादम् |
सर्वदा त्वत्पदधूलिमार्जनं भवभयहरणं श्रीपतिस्मरणम् || २ ||
प्राण अपान उदान व्यान समान आनन्दभारतीरमण |
त्वं हि शर्वादिगीर्वाणादीनां ज्ञानधनदायकवरेण्य ||
सायंदिनकृतमानसादिकर्म अर्पणमस्तु तव पदकमले |
प्राणनाथश्रीविजयविट्ठलं दर्शय मे त्वं भानुप्रकाश || ३ ||

Sunday, October 30, 2016

भूरिधन्या लक्ष्मीरेषा (Enu Dhanyalo Lakumi)

भूरिधन्या लक्ष्मीरेषा

(मूलम् - Enu Dhanyalo Lakumi
Kannada Song on Goddess Lakshmi
पुरन्दरदासवरेण्येन लिखितम्)

भूरिधन्या लक्ष्मीरेषा भूरिमान्या सा |
सानुरागभावतया श्रीहरिं सेवते मा || ० ||
छत्रचामरव्यजनपर्यङ्कपात्ररूपे एव स्थित्वा |
चित्रचरितहरिपदस्य नित्यसेवां सा करोति || १ ||
कोटिकोटिभृत्ये सति हाटकाम्बरस्य सेवा |
कृत्वानन्यतया पूर्णलोकनेनान्दति सा || २ ||
सर्वत्रसुव्याप्तपरं सर्वदोषरहितदेवम् |
सर्ववन्द्यमानपुरन्दरविट्ठलं च सेवते सा || ३ ||

Tuesday, October 11, 2016

एकश्लोकरामायणम् - Ramayana in one shloka


आदौ श्रीरामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् |
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ||
अन्वयः
आदौ श्रीरामतपोवनादिगमनं काञ्चनं मृगं हत्वा वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं पश्चात् रावणकुम्भकर्णहननं एतत् हि रामायणम् |
अर्थः
आदौ = पूर्वम् (First)
श्रीरामतपोवनादिगमनं = सीतारामलक्ष्मणानां वनगमनं तथा वनेषु चरणम् (Sita, Rama and Laxmana’s going to the forest)
हत्वा = व्यापाद्य (हननं कृत्वा) (after killing)
काञ्चनं = सुवर्णमयं (golden)
मृगं = हरिणम् (deer)
वैदेहीहरणं = रावणेन सीतायाः अपहरणम् (Sita’s abduction)
जटायुमरणं = रावणहस्ते जटायुनामकखगस्य मरणं (Killing of Jatayu)
सुग्रीवसंभाषणं = रामसुग्रीवयोः मिलनं तथा परस्परसहायविषये चर्चा (Talks with Sugriva)
वालीनिग्रहणं = रामेण वालीराजस्य हननम् (Vali’s killing)
समुद्रतरणं = हनुमता समुद्रलङ्घनम् (Crossing of the sea)
लङ्कापुरीदाहनं = पुच्छे अग्निना प्रज्वलितेन हनुमता लङ्कानगरस्य भस्मीकरणम् (Burning down the city of Lanka)
पश्चात् = नन्तरम् (thereafter)
रावणकुम्भकर्णहननं = रामेण कुम्भकर्णस्य तथा रावणस्य वधम् (Killing of Kumbhakarna and Ravana)
एतत् हि = इदम् एव (This is)
रामायणम् = रामायणस्य कथासारः (Ramayana)

Wednesday, October 5, 2016

Bhagyada Laxmi Baramma Song in Sanskrit

Bhagyada Laxmi Baramma
The famous Kannada song written by Purundara Dasa
Original script can be found here. Telugu script can be found here.
संस्कृतानुवादनम्
भगवति लक्ष्मि आगच्छ |
अस्माकं मातः भगवति लक्ष्मि आगच्छ ||

शुभपदगतिनुता परमपवित्रा नूपुरनादकृता अतिशोभिता |
साधुऋतजनपूजासमये तक्रादुत्थितनवनीतम् इव || १ ||

कनकवृष्टिदा श्रीकरहस्ता सिद्धिप्रदात्री वाञ्छितफलदा |
दिनकरकोटीतेजोमयी त्वं जनकनन्दिनी रघुवरप्रीया || २ ||

भक्तानां मनगृहे स्थिरनिलया नित्यमङ्गला नित्यशिवार्था |
ऋजुपथगामिनी साधुजनानां चित्तकाशिका पुत्थलिकासि || ३ ||

भाग्यदायिनी सुरवरवन्द्या वरदहस्तिका अगणितकरुणा |
कुङ्कुमाङ्किता पङ्कजलोचना वेङ्कटरमणे गुरुतमसक्ता || ४ ||

शर्कराघृतमयनदमाधाय भार्गवशुभदिने पूजनसमये |
श्रीवत्साङ्कितहरिपरजनगा जगतः पत्युः प्रियतमराज्ञी || ५ ||
 

Sunday, September 11, 2016

Vakratunda Ganesha Prayer


वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

अन्वयः
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ देव मे सर्वकार्येषु सर्वदा निर्विघ्नं कुरु |

शब्दार्थाः
वक्रतुण्ड = वक्रं तुण्डं यस्य अस्ति सः वक्रतुण्डः | तुण्डं इत्युक्ते शुण्डः गजस्य अङ्गविशेषः | हे वक्रतुण्ड |
महाकाय = महान् कायः शरीरः यस्य अस्ति सः महाकायः | हे महाकाय |
कोटिसूर्यसमप्रभ = यस्य प्रभा कान्तिः कोटिसूर्य बहवः सूर्याः सदृशा | हे कोटिसूर्यसमप्रभ |
देव = हे देव |
मे = मम |
सर्वकार्येषु = सर्वेषु कार्येषु |
सर्वदा = नितराम् |
निर्विघ्नं कुरु = बाधान् निवारय |

भावार्थः
हे महाकान्तियुक्त महाकाय गजानन अहं यद्यत् कार्यं करोमि तत् सकलं सुकरं कुरु |

English Meaning:
Hey the one with curved trunk, one with big body, one with splendor of thousand suns, (I pray you to) always make my all works (undertakings, doings) free of troubles.

Monday, September 5, 2016

Ganesha Prayer अगजाननपद्मार्कम्

ganesh.jpg
श्लोकः
अगजाननपद्मार्कं गजाननमहर्निशम् |
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

पदविच्छेदनम्
अगजाननपद्मार्कम् गजाननम् अहर्निशम् अनेकदम् तम् भक्तानाम् एकदन्तम् उपास्महे |

शब्दान्वयः
अगजाननपद्मार्कम् भक्तानाम् अनेकदम् एकदन्तम् गजाननम् तम् अहर्निशम् उपास्महे |

शब्दार्थविवरणम्
न गच्छति अथवा भूमौ सुष्ठु स्थितः इति अगः इत्युक्ते पर्वतः | तस्य पुत्री अगजा इत्युक्ते पार्वती | तस्याः आननं मुखम् अगजानानम् इत्युक्ते पार्वत्याः मुखम् | पद्मं कमलपुष्पम् इव तत् मुखम् इति भावेन अगजाननपद्मम् | अर्कः इत्युक्ते सूर्यः | यथा सूर्ये सति अथवा दिनसमये कमलपुष्पं प्रफुल्लितं भवति तथा पुत्रे उपस्थिते माता हर्षिता भवति इति तु लोके प्रसिद्धः एव | यः पार्वत्याः मुखपद्मकृते सूर्य इव अस्ति सः अगजाननपद्मार्कः | तम् अगजाननपद्मार्कम् |
भक्त्या पूजयमानाः जनाः ते भक्ताः | तेषां भक्तानाम् |
अनेकानि वाञ्छितफलानि ददाति इति अनेकदः | तम् अनेकदम् |
एक एव दन्तः यस्य सः एकदन्तः | तम् एकदन्तम् | दन्तमेकम् उपयुज्य महाभरतादिग्रन्थलेखनं चकार इति एक एव दन्तः शेषः |
गज एव आननं यस्य सः गजाननः | तम् गजाननम् |
अहर्निशम् अह्नि दिने निशायां रात्रौ च | सर्वदा इत्यभिप्रायः |
उपास्महे उपासनां कुर्महे इत्युक्ते भजामहे |

English meaning of words:
अगजाननपद्मार्कम् = the one who is like sun to the lotus face of Goddess Paravati
भक्तानाम् अनेकदम् = the one who is bountiful to his devotees
एकदन्तम् = the single tusked
गजाननम् = one who has elephant face
तम् = him
अहर्निशम् = day and night
उपास्महे = we pray

We always pray Lord Ganesha who is like the sun to the lotus face of his mother Goddess Parvati, and one who has single tusk, and bountifully provides to his devotees.

पदरूपकोष्ठकः
पदम्
नामपदम्/क्रियापदम्/अव्ययम्
प्रातिपदिकम्/धातुः
लिङ्गम्
विभक्तिः-वचनम्/लकारः-पुरुषः
अगजाननपद्मार्कम्
ना
पु
द्वितीया एकवचनम्
गजाननम्
ना
गजानन
पु
द्वितीया एकवचनम्
अहर्निशम्
ना
अहर्निश
द्वितीया एकवचनम्
अनेकदम्
ना
अनेकद
पु
द्वितीया एकवचनम्
तम्
ना
पु
द्वितीया एकवचनम्
भक्तानाम्
ना
भक्त
पु
षष्ठी बहुवचनम्
एकदन्तम्
ना
एकदन्त
पु
द्वितीया एकवचनम्
उपास्महे
क्रि
उप+आस्
-
लट् प्रथमपुरुषः बहुवचनम्

संधिविवरणम्
अगजानन = अगज + आनन (सवर्णदीर्घसन्धिः)
पद्मार्कम् = पद्म + अर्कम् (सवर्णदीर्घसन्धिः)
पद्मार्कम् गजाननम् = पद्मार्कं गजाननम् (अनुस्वारसंधिः)
गजाननम् = गज + आननम् (सवर्णदीर्घसन्धिः)
अहर्निशम् = अहः + निशम् (विसर्गसंधिः)
एकदन्तम् = एकदं + तम् (परसवर्णसन्धिः)
उपास्महे = उप + आस्महे (सवर्णदीर्घसन्धिः)

समासविवरणम्
अगः = न गच्छति (नञ् बहुव्रीहिः)
अगजा = अगात् जाता (उपपदतत्पुरुषः)
अगजाननम् = अगजायाः आननम् (षष्ठीतत्पुरुषः)
अगजाननपद्मम् = अगजाननं पद्ममिव (कर्मधारयः)
अगजाननपद्मार्कः = अगजाननपद्माय अर्कः यः सः (बहुव्रीहिः)
गजाननः = गजस्य आननम् इव आननं यस्य सः (बहुव्रीहिः)
अहर्निशम् = अहः च निशा च (द्वन्द्वः)
अनेकदः = अनेकान् दः (द्वितीयातत्पुरुषः)
एकदन्तः = एकः दन्तः यस्य सः (बहुव्रीहिः)

छन्दोविवरणम्
अनुष्टुप् छन्दः इति स्पष्टम् |
UU_ UU_ _ _ U_UUU_ U_
अगजाननपद्मार्कं गजाननमहर्निशम् |
U_UU U  _ _  _ _ U_ UU _ U_
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

अलङ्कारः
अगजाननपद्मार्कम् इति शब्देन रूपकालङ्कारस्तु विबुध्यते |

रसः
विघ्नहर्तागणेशदेवताकः श्लोकोऽयं भक्तिरसमयः |