Thursday, September 20, 2018

Sundarakanda in One Shloka एकश्लोकी सुन्दरकाण्डम्

|| राघवेन्द्रस्वामिविरचितम् एकश्लोकी सुन्दरकाण्डम् ||

यस्य श्रीहनुमाननुग्रहबलात्तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रम्भजे ॥

इति राघवेन्द्रस्वामिविरचितं एकश्लोकी सुन्दरकाण्डं सम्पूर्णम् ।

पदच्छेदः
यस्य श्रीहनुमान् अनुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिः युतो यम् अनमत् तं रामचन्द्रं भजे ॥

अन्वयः
यस्य अनुग्रहबलात् श्रीहनुमान् लीलया तीर्णाम्बुधिः, लङ्कां प्राप्य, रामदयितां निशाम्य, वनं भङ्क्त्वा, अक्षादीन् राक्षसान् विनिहत्य, दशकं वीक्ष्य, तां पुरीं दग्ध्वा, पुनः तीर्णाब्धिः, कपिभिः युतः, यम् अनमत्, तं रामचन्द्रं भजे |

अर्थः
यस्य = यस्य पुरुष्यस्य, अनुग्रहबलात् = प्रसादात्, श्रीहनुमान् = वायुपुत्रः, लीलया = निरायासेन, तीर्णाम्बुधिः = सागरं लङ्घितवान्, लङ्कां प्राप्य = लङ्कानगरीं गत्वा, रामदयितां निशाम्य = सीतां रामसंदेशं श्रावयित्वा, वनं भङ्क्त्वा = अशोकवनस्य नाशनं कृत्वा, अक्षादीन् राक्षसान् विनिहत्य = अक्षकुमारादीन् अनेकराक्षसान् मारयित्वा, दशकं वीक्ष्य = रावणेन सह वार्तालापं कृत्वा, तां पुरीं दग्ध्वा = लङ्कादहनं कृत्वा, पुनः तीर्णाब्धिः = पुनः सागरं लङ्घितवान्, कपिभिः युतः = वानरैः सह मिलितवान्, (अनन्तरं) यम् अनमत् = (सः आञ्जनेयः) यं पुरुषश्रेष्ठं प्रणतवान्, तं रामचन्द्रं भजे = तं श्रीरामचन्द्रं प्रीणये |

In English:
I salute Ramachandra, by whose blessings, Shri Hanuman easily crossed the sea, reached Lanka and delivered Rama's message to Sita, destroyed the (Ashoka) garden, killed Aksha and many demons, met Ravana, burned down the city of Lanka, crossed the sea again, joined with the other monkeys, and then bowed at his (Rama's) feet.

Saturday, September 8, 2018

गणपतिखण्डसंग्रहः Ganesha Katha


ब्रह्मवैवर्तपुराणान्तर्गतगणपतिखण्डसंग्रहः

गणेशजननम्
महादेवीपार्वती महादेवशिवः लोककल्याणहेतुना पुत्रीयन्तौ एकान्ते रमेते स्म | तस्मिन्नेव समये परमात्मा श्रीकृष्णः स्वभक्ते नीलकण्ठे अनुग्रहकामः वृद्धब्राह्मणरूपधारी तत्र आगतः | शङ्करभवनद्वारि स्थितो भिक्षां ययाच स भूसुरः | जगतः पितरौ गौरीश्वरौ लोकनीतिं प्रदर्शयन्तौ बुभुक्षितब्राह्मणाय अन्नदानार्थं सत्वरमन्तःपुरादपसृत्य चत्वरमासादितौ | याचकेन सह कुशलवचनं व्याहृत्य सती सा पाकगृहं प्रविशन्त्यां सति मायापतिः मायया शम्भुशय्यागारं प्रविश्य तत्रत्यतल्पस्थिते वृषभध्वजतेजसि स्वांशेन लीनोऽभूत् | तस्माज्जातः कृष्णांशसंभूतः शुभलक्षणाङ्गः सुन्दराकारः शिशुरेकः | देवी उमा द्वाराभ्याशे ब्राह्मणमदृष्ट्वा विस्मयाविष्टा स्वान्तःपुरं प्राप्ता | तत्र मन्दहासेन क्रीडन्तं बालं प्रेक्ष्य आनन्दतुन्दिला सा अर्भकं वक्षसि कृत्वा स्तन्यं पायितवती |

गजाननप्राप्तिः
गिरिजागिरीशयोः अपत्यजननवार्तां समाकर्ण्य वृन्दारकवृन्दः कैलासक्षेत्रं समागतः | अगजाननपद्मार्कं चारुहासिनं शिशुं दृष्ट्वा परितुष्यन्तः विष्णुमुखदेवाः सुकुमारं बुद्धिबलादिवरान् प्रददुः | शङ्करपुत्रः सः गणेश इति नाम्ना अङ्कितः | सूर्यपुत्रः  शनैश्चरोऽपि शिशोः समीपं नतमुुखः उपस्थितः | तद्दृष्ट्वा पार्वती शनैश्चरं तस्य कारणं पप्रच्छ | नवजाते स्वदृष्टिपातः अहितकारणं भवतीति शनैश्चरोऽब्रवीत् | तथापि मातुराग्रहवचनेन ग्रहाधिपतिः शनैश्चरः कटाक्षेण शिशुमीषदैक्षत | शनेः दृष्टिमात्रेण सपदि गणेशस्य शिरो भग्नीभूतम् | सुतस्य मृतावस्थां प्रपश्य भृशं विलपन्तीं पर्वतसुतां सान्त्वयित्वा श्रीहरिः गरुढारूढः उत्तरदिशि प्रस्थितवान् | तत्र सपरिवारं शयानस्य गजराजस्यैकस्य मस्तकं सुदर्शनचक्रेण कर्तयित्वा स्वहस्ते गृहीतवान् | तदा गजराजपत्नी रोदं रोदं नारायणं बहुधा स्तुतवती | स्तवप्रियः चक्रधारी कस्यचिदन्यगजस्य शिरः योजयित्वा तं गजराजं पुनर्जीवितं चकार | ततः गरुडवेगेन कैलासगिरिं प्राप्य पार्वतीपुत्रे करिशिरः संयुज्य तं जीवनप्रदानं कृतवान् | गजाननं पुनर्जीवितं दृष्ट्वा प्रमुदिता पार्वती भक्त्यादरेण श्रीविष्णुं प्राणमत् |

एकदन्तरूपम्
जामदग्निः भार्गवरामः पिनाकिनः पाशुपतास्त्रं प्राप्य कार्तवीर्यं निषूदितवान् | तदनन्तरं सः भूमण्डलमखिलं परिभ्रम्य तद् दुष्टक्षत्रियरहितं चकार | तन्महत्कार्यं समाप्य रेणुकानन्दनः नन्दिवाहनमभिवादयितुं कैलासं समपद्यत | त्रिलोचने निद्रासक्ते सति मन्दिरप्रवेशद्वास्थः गजाननः भार्गवमार्गं निरुध्य प्रतिपालनं प्रतिपादितवान् | शीघ्रकोपी विप्रर्षभरामो गजकर्णवचनमनादृत्य नागभूषणनिलयं प्रवेष्टुमुद्युक्तः | शक्तिसुतगजमुखभृगूद्वहयोर्मध्ये भीकरयुद्धं संजातम् | शान्ताकारो हस्तिवदनः बलिष्ठेन करिकरप्रायशुण्डेन क्षत्रकुलान्तकं लीलया वेष्टयित्वा बहुधा पीडयामास | कृष्णांशसंभूतद्विपाननेन परिक्लान्तो भार्गवः अस्त्रश्रेष्ठं परशुं प्रायोजयत् | सहस्रांशुप्रभामप्रभाकारः परशुरमोघो मातङ्गमुखं प्रति प्राद्रवत् | तन्निवारयितुं समर्थोऽपि गणेशः महादेवशङ्करसन्निहितपरशुं सम्मानयन् तमायुधं स्वीचकार | तद्घोरायुधं द्विरदवदनस्य वामदन्तं समूलं भञ्जितवत् | कदनेक्षुकाणां कैलासवसिनां कोलाहलेन उमोमेश्वरौ भवनाद् बहिरागतौ | रक्तसिक्तवदनं निजसुतं संपश्य भगवती मोमूर्च्छ्यमाना भृशं विललाप | परितप्ता सा दन्तभग्नकारणं परशुरामं शप्तुमुद्यता | तदा दिव्याभरणभूषितः श्रीमन्नारायणः प्रकटीभूय हिमसुतां सान्त्वनवचनेन प्रशामितवान् | भृगुश्रेष्ठः एकदन्तं गणपतिं संस्तुत्य स्वधामं निर्जगाम |

तुलसीनिषेधः
नवयौवना तुलसी पाणिग्रहणयोग्यं युवकं अन्विष्यन्ती महीतले भ्रमति स्म | तदा सा गङ्गातीरे गङ्गाञ्चितपादध्यानासक्तं गङ्गाधरसुतमन्वैक्षत | शान्ताकारं तारुण्यवर्णसौन्दर्यातिशयमनोहराकारं प्रपश्य स्मरशरक्षता बभूव सा | किञ्चित् प्रणयविनोदाकाङ्क्षी तुलसी निमीलितनेत्रं शैलजासुतमुपगम्य किमिदं हरिशत्रुवक्त्रं कथं ते भग्नदन्तः क्वेदं लम्बितोदरं तव इति उपहासं चकार | मूर्ध्नि तस्य किञ्चिज्जलं सुत्वा तर्जन्या तं पीडितवती | भग्नतपः शङ्करात्मजः स्मितवदनां युवतीभावप्रमत्तप्रमदां पुरतःस्थितां शान्तचित्तः एव मातरिति संबुध्य परिचयं चित्रप्रवृत्तिकारणं च पप्रच्छ | तुलसी मनोगतमाशयं परिणयेच्छां प्राकटयत | कृष्णैकमनस्कः विनायकः विनयेन तां तिरस्कुर्वन् पतिमन्यं मार्गयितुमकथयत् | नैराश्यदग्धहृदया तुलसी पत्नी तव असाध्वी भवत्विति पार्वतेयं शशाप | निष्कारणं शप्तः शंभुतनयः तुलसीमपि असुरग्रस्ता वृक्षरूपा भवेति प्रत्यशपत् | निरस्तपरिणामदुःखिता तुलसी नारायणं शरणङ्गता | तत्कृपया सा गणेशपरित्यक्तापि कालान्तरे शङ्खचूडासुरबन्धनमुक्ता वृक्षरूपेण श्रीहरिपरमप्रिया बभूव |

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ||