Thursday, January 25, 2018

Bhishma Story in Short - संक्षिप्तभीष्मकथा

पत्न्या चोदितः द्युनामकवसुः ब्रह्मर्षिवसिष्ठस्य कामधेनुं चोरयामास | ततः वसिष्ठशापग्रस्तः वसुः स्वर्गच्युतः भूमौ अवततार | देवव्रत इति नामाङ्कितः तस्य जननी महाशिवशिरोभूषिता गङ्गादेवी | कुरुवंशजः हस्तिनापुरस्य राजा शन्तनुः तस्य जनकः | तस्य जननसमये एव गङ्गादेवी कारणान्तरेण शन्तनुं परित्यज्य स्वधामं स्वर्लोकं निर्जगाम | बाल्यकाले देवव्रतः देवगुरुबृहस्पतिप्रभृतिभ्यः वेदादिशास्त्राध्ययनं कृतवान् | भगवतः परशुरामात् सर्वशस्त्रास्त्रपारंगतो बभूव |

विद्याभ्यासानन्तरं देवव्रतः शन्तनुराजेन सह हस्तिनापुरे वसति स्म | एकदा नदीतीरविहाररतः शन्तनुः दाशराजकन्यायां सत्यवत्यां अनुरक्तो बभूव | परन्तु सत्यवतीसंतानमेव हास्तिनपुराधिपः भूयादिति दाशराजवचनात् परित्रस्तः शन्तनुः खिन्नो विवाहविमुखश्च जातः | पितुः मनोदशामवगत्य शान्तनवः दाशराजं प्राप्य सत्यवत्यपत्याय राजपदवीप्रदानं तथा स्वयमाजीवनब्रह्मचर्यव्रतपालनमिति भीषणप्रतिज्ञाद्वयं घोषयाञ्चकार | तद्दिनात् सः भीष्मः इति प्रख्यातोऽभवत् | सत्यवत्या विवाहितश्शन्तनुः पुत्र अतिप्रसन्नः भीष्माय इच्छामरणवरमददात् |

शन्तनौ दिवङ्गते भीष्मः सत्यवतीपुत्रं विचित्रवीर्यं सिंहासने अभिषिच्य तस्य विवाहमपि कारितवान् | विचित्रवीर्येऽपि पञ्चत्वंगते तस्य सुतः पाण्डुः राजा बभूव | पाण्डोः निधनानन्तरं तस्याग्रजो दृष्टिहीनो धृतराष्ट्रः राज्यभारमावहत् | भीष्मः पाण्डुपुत्राणां तथा धृतराष्ट्रपुत्राणां साकल्येन शस्त्रशास्त्रविद्याभ्यासं द्रोणाचार्यमुखतः पर्ययोजयत् |

पाण्डवाः धार्तराष्ट्राश्च प्राप्तयौव्वनाः राज्येप्सवः घोरयुद्धं कृतवन्तः | दारुणे तस्मिन् महाविग्रहे सत्यधर्मपालितॄणां पाण्डवानां विजयमिच्छन्नपि द्विपपुरराजनिष्ठः भीष्मः पापनुगामिनि धार्तराष्ट्रपक्षे स्थितः | भीकरसंख्ये अद्भुतपराक्रमं प्रदर्शयन् भीष्मः पार्थसारथिं भगवन्तं श्रीकृष्णमपि विस्मापयामास | दशमे दिने अप्रतिहतः सः स्वेच्छया पाण्डवमध्यमस्य अर्जुनस्य बाणासारेण विक्षतः | संपूर्णशरीरे इषुभिः व्योषितः भीष्मः वीरक्षत्रियोचिते शरतल्पे शयितवान् | इच्छामरणी स उत्तरायणपुण्यकालं प्रतीक्षमाणः भगवद्ध्यानतत्परोऽभूत् |

सङ्ग्रामे विजयीभूताः पाण्डवाः सायकासनं पितामहभीष्ममुपगम्य तस्मात् आशीर्वचनं ज्ञानभिक्षां च प्रायायाच्यन्त | श्रीकृष्णप्रसादात् भीष्मः रुधिरसिक्तोऽपि भाषणक्षमः राजनीत्यादिकानि शास्त्राणि विस्तरेण उच्चचार | तत्सन्दर्भे तस्य मुखकमलात् त्रिलोकपावनं विष्णुसहस्रनामस्तोत्रं समुद्भूतम् | एवं जगदादर्शजीवः भीष्मः माघमासस्य शुद्धाष्टम्यां तिथौ देहत्यागं चकार |