Tuesday, April 4, 2023

अनुचितोपदेशः Undue Advice

 


एकस्मिन् वने एकः महान् वृक्षः आसीत् | वृक्षे एकः चटकः वसति स्म | एकदा तत्र वृष्टिः अभवत् |

एकः कपिः वृक्षस्य अधः आगच्छत् | कपिं दृष्ट्वा चटकः अवदत् - भोः कपे, तव शरीरं मानवशरीरम् इव अस्ति | हस्तौ पादौ च सम्यक् सन्ति | तर्हि त्वम् उत्तमगृहस्य निर्माणं किं न करोषि? इति | तत् श्रुत्वा कपिः कुपितः अभवत्| सः प्रत्यवदत् - किमर्थं मौनं न तिष्ठसि त्वम्? किमर्थं मम उपहासं करोषि? इति |


सः कपिः वृक्षम् आरुह्य चटकस्य नीडं अनाशयत् |







नीतिः - अयोग्यस्थाने उपदेशः अनुचितः

English Translation:
In a forest, there was a big tree. On the tree lived a sparrow. Once, there was rainfall. A monkey came under the tree. Seeing the monkey, the sparrow said, "Hey monkey, your body is like a human body, with hands and feet in the right places. So why don't you build yourself an excellent house?" Hearing this, the monkey became angry and said, "Why don't you remain silent? Why are you making fun of me?" Saying this, the monkey climbed the tree and destroyed the nest of the sparrow.

The moral of the story: Advice is inappropriate in an unworthy place.

Sunday, February 13, 2022

Sarasvati Prayer या कुन्देन्दु

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

अन्वयः तथा पदच्छेदः -
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदा वन्दिता (या) निःशेषजाड्यापहा सा भगवती सरस्वती माम् पातु ॥

प्रतिपदार्थः -
कुन्देन्दुतुषारहारधवला
कुन्द = कुन्दपुष्प jasmine flower इन्दु = चन्द्र moon तुषार = नीहार frost धवल = स्वच्छ clean/pure

शुभ्रवस्त्रावृता
शुभ्र = शुचि bright वस्त्र = वसन cloth आवृत = आच्छादित covered

वीणावरदण्डमण्डितकरा
वीणा = तन्तुवाद्य a type of string instrument वरदण्ड = श्रेष्ठयष्टि beautiful staff मण्डितकर = अलङ्कृतहस्त adorned hands

श्वेतपद्मासना
श्वेत = सित white पद्म = कमल lotus आसन = उपवेशन chair

ब्रह्माच्युतशङ्करप्रभृतिभिः
ब्रह्मा = चतुरानन Brahma अच्युत = विष्णु Vishnu शङ्कर = शिव Shiva प्रभृतिभिः = इत्यादिभिः by such

देवैः = अमरैः by the gods सदा = सर्वदा always वन्दिता = पूजिता respected

निःशेषजाड्यापहा
निःशेष = without traces जाड्य = sluggishness अपहा = अपहरणकर्त्री one who quells

सा = असौ She भगवती = देवी Goddess सरस्वती Sarasvati माम् पातु = मम रक्षणं करोतु May she protect me.

सारार्थः -
या कुन्दपुष्पम् चन्द्रः प्रातःकालीनतुषारः च इव निर्मला (अस्ति)
या शुभ्रवस्त्रैः परिधृता (अस्ति)
यस्याः करः सुन्दरवीणादण्डेन अलङ्कृतः (अथवा वीणा उत्तमदण्डेन च अलङ्ककृतौ करौ) (अस्ति)
या श्वेतवर्णयुक्तकमलपुष्पे आसीना (अस्ति)
ब्रह्माच्युतशङ्करादिदेवाः अपि यस्याः सदा वन्दनं कुर्वन्ति
या जाड्यं समूलं नाशयति
सा भगवती सरस्वती मां रक्षतु

The one who is pure like the jasmine flower, moon and morning frost, the one who is covered with bright clothes, the one who is holding the beautiful veena in her hand (or one who is holding veena and a beautiful staff), the one who has white lotus as her seat, the one who is always respected by Brahma, Vishnu, Shiva and other gods, the one who completely removes the sluggishness (of mind), that Goddess Sarasvati may protect me.

Saturday, December 18, 2021

ब्रह्मदीपिका - Light on Brahma (Pronunciation)

 

ब्रह्मा उत ब्रम्हा (Brahma/Bramha) पदस्य उच्चारणं कथं कुर्यात् इत्यस्मिन् विषये YouTube माध्यमे पूर्वमेव प्रकाशितमस्ति लघुविवरणं मया । तत्र उरः कण्ठश्चेति हकारस्य स्थानद्वयं निरूपितम् । स्वरपरको हकारः कण्ठ्यमात्रः । यथा आहतः महान्तः सहितः । अन्यत्र औरस्य इति । यथा ब्रह्मा प्रह्लादः अपह्नुतिः । अन्यव्यञ्जनपरे हकारस्य उच्चारणं पूर्वं भवेत् उत अन्यस्य व्यञ्जनस्य इति विषयो भ्रान्तिमूलः । उच्चारणविषयः प्रत्यक्षसिद्धो वैज्ञानिकश्च । तथापि शिक्षाग्रन्थानाकलय्य जनमानसे भ्रमनिरसनाय कृतं तत् प्रयतनं सुधीसंमतं च ।

हकारः पश्चादुच्चारणीयः (ब्रम्हा) इति ग्रस्तमनसो व्यासशिक्षेति ग्रन्थादुदाहरन्ति सूत्रमेकम् । तस्य विषये लेखनमिदम् । सूत्रं तावत्

हकारं नित्यनासिक्यमुत्तमोत्तरमेव च ।। ४११ ।।

कृष्णयजुर्वेदीयतैत्तेरीयशाखान्वितोयं शिक्षाबन्धः । ब्रम्हवादिनः सूत्रेणानेन मोमुद्यन्ते । प्रायेण उत्तमोत्तरमेवेति भाग उत्तरोच्चारणवाचीति । नित्यनासिक्यं ञमवर्णा इति वा । व्यासशिक्षायामुत्तमा इति निर्दिष्टसंज्ञका मकारान्ताः स्पृष्टाः । तर्हि सूत्रेणोच्यते स्पृष्टवर्णे परे हकारस्थानं नासिका इति । ततः अग्रिमसूत्रमेवं प्रवर्तते -

अन्तस्स्थापरमित्यत्र उरस्यञ्च विदुर्बुधाः ।। ४१२ ।।

सूत्रद्वयस्यास्य श्रीमता पट्टाभिरामशास्त्रिणा कृता टिप्पणीयम् -
च शब्देनोत्तरवाक्ये गृहीतमौरसपदमुत्कृष्यते । तदायमर्थः - उत्तमोत्तरं हकारं नासिक्यमौरसञ्च बुधा विदुरित्यन्वय इति व्याख्यायोदाहरणानि तान्येव मञ्जरीकारो ददाति । अत्र मञ्जरीकारो लिखति - अन्तस्थापरन्तु हकारमुरोमात्रस्थानं विदुः । तथा च शिक्षा -
हकारमौरसं विद्यादन्तस्थासु परासु च ।
उत्तमेषु परेष्वेवं नासिकत्वमिहाधिकम् ।। इति ।
किञ्च मपरेन्तस्थापरे च हकारे शिक्षान्तरेपि विशेषः । यथा -
नासाभ्यां नोत्सृजेद्वायुमत्यन्तं हमसंगमे ।
न वदेदुरसात्यन्तमन्तस्थाभिश्च संगमे ।।

अत्र पूर्वोत्तरोच्चारणस्य न प्रसक्तिः कापि । स्पष्टमौरस्यं हकारस्य अनचि परे । स्पृष्टे परे नासिकत्वं भवति मिश्रितमुरसा केवलस्य हकारस्यैव । शाखाधिगतं चैतत् । स्पृष्टात् परं हकारोच्चारणमिति न । तत्रापि स्फुटं हमयोः संगमे हकारः केवल औरस्यः । सुष्ठूक्तं च अन्तस्थापरे औरस्यं मार्दवं भवति । मञ्जरीकारस्तु अन्तस्थापरेऽपि उरोमात्रस्थानमिति जुघोष । यथा प्रह्लादः जिह्वा । ब्रह्मणि तु परमौरस्यम् ।

अपरञ्च प्रायो भाषालिपिव्यामिश्रितं चिन्तनमतिवादिनाम् । भाषा उच्चारिता । सैव लिपिबद्धा च । उच्चारणस्यैकविधिः तस्य लिपिबन्धो भिन्नविधिश्चेत् का गतिर्लेखनस्य पठितॄणां च । तदा शिक्षाग्रन्थेषु निबद्धानि सूत्राण्येव संदिग्धानि स्युः ।

सरळं ग्राह्यमिमं विषयं परम्परापरायणमुग्धाः पश्यन्तोऽपश्यन्तः कतिपया विद्वद्बान्धवः प्रतृण्णवाक्यान्युदाहृत्य वृथा परिश्रमं कुर्वते ।

भूयाच्चिन्तनमकर्दममिति शम् ।
====================

Saturday, November 20, 2021

हुत्तरिमहोत्सवः Huttari Festival

कर्नाटराज्यस्य नैऋत्यदिशामलङ्करोति निसर्गरम्यः कोडगुप्रदेशः | भारतस्य दक्षिणदेशे सुप्रसिद्धायाः कावेरीनद्याः उगमस्थानम् कोडगुप्रान्ते एव विद्यते | अत्रत्याः निवासिनः कोडगवः इत्युच्यन्ते | कोडगवः योधाः इति ख्याताः | कोडगुदेशे "हुत्तरि" नामकोत्सवः कार्तिकमासे सोत्साहम् आचर्यते |

समारम्भे अस्मिन् जनाः नूतनवस्त्राणि परिधरन्ति | गृहाणि अलङ्कुर्वन्ति | जलपूरितकुम्भान् गृहेषु स्थापयन्ति | सुगन्धद्रव्यमिश्रितजलेन स्नान्ति | स्थानीयवेषैः सुभूषिताः जनाः कुटुम्बैः सह प्रातः इग्गुतप्पा इति ख्याते देवस्य आलये अर्चनादिकं समर्पयन्ति | तदनन्तरं खनित्रादीनि साधनानि संपूज्य क्षेत्रेषु धान्यकर्तनं प्रारभन्ते | नूतनकर्तितधान्यं पक्त्वा मिष्टान्नभोजनं कुर्वन्ति |

सायंकाले विशेषनृत्यकार्यक्रमः भवति | अग्निं प्रज्वाल्य तं परितः जनाः नृत्यन्ति | कोडगूनां खड्गादीनि आयुधविशेषाणि नृत्येषु प्रदर्श्यन्ते | एवं मोदकरोयं विशिष्टः हुत्तरिमहोत्सवः |

English summary:

The Kodagu district is a beautiful natural adornment of the southern part of India, located in the southwestern direction of the state of Karnataka. The famous river Kaveri originates from this region. The inhabitants of this place are called Kodavas, who are renowned warriors. The festival of Huttari is celebrated in the month of Kartik to rejoice and encourage the people of Kodagu.

During the festival, people wear new clothes, decorate their homes, fill water pots and take a bath with fragrant water mixed with aromatic substances. Locals, dressed in traditional attire, along with their families, offer prayers and perform rituals at the temple of their deity, known as Igutappa. Afterward, they worship agricultural equipment and start sowing the newly harvested crops.

In the evening, a special dance program is organized, where people gather around a fire and dance. The Kodava community members showcase their unique style of dance, wielding weapons such as swords and perform various acrobatic feats. The Huttari festival is incomplete without relishing the special sweet dish called Modak.

Wednesday, November 3, 2021

लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi

 


रमा माधवस्य प्रिया माधवी सा

क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।

सदावीतरागस्य नित्यानुसङ्गा

पुराणाप्रमेयस्य नैकट्यधामा ॥

(भुजङ्गप्रयातवृत्तम्)

अर्थः
रमा इति ख्याता लक्ष्मीः सर्वं लोकं रमयति  माधवस्य नारायणस्य प्रिया सा  अत एव सा माधवी इत्यपि विश्रुता  सा सर्वं लोकं क्षमते भूरूपेण  लोकस्य अखिलस्य विश्वस्य माता जननी  अत एव सा ब्रह्मरुद्रादिवन्द्या 
सदावीतरागः नारायणः सर्वगुणातीतः कर्मबन्धरहितः  तस्य नारायणस्यापि नित्यम् अनुवसति नारायणी रमा  पुराणपुरुषस्य अप्रेमयस्य नारायणस्य निकटे एव रमादेव्याः सर्वदा वासः प्रलयकालेऽपि 

Saturday, October 30, 2021

सौरमण्डलम् - लघुपरिचयः Solar System - Short Introduction


सौरमण्डलम् इत्युक्ते सूर्यस्य मण्डलम् । सूर्यस्य कुटुम्बः । 

सौरमण्डले अस्माकं वासस्थानं भूग्रहः अथवा भूमिः । भूग्रहस्य विषये केचन अंशाः -

भूग्रहस्य वयः प्रायेण पञ्चचत्वारिंशत् कोटिः संवत्सराः । इत्युक्ते भूग्रहस्य जन्म पञ्चचत्वारिंशत् कोटिसंवत्सरपूर्वम् अभवत् । अस्य ग्रहः वायुमण्डलेन आवृतः । अस्माकं वायुमण्डले पञ्चांशभागः आम्लजनक इति अनिलः विद्यते । अतः एव बहुशः प्राणिनां जीवधारणं साध्यम् ।

भूग्रहस्य पादोनपृष्ठभागः समुद्रनदीसरोवरादिजलेन आवृतः । जलगर्भेऽपि बहवः जीवजन्तवः वसन्ति । कन्दुकसदृशः गोलाकारः अयं भूग्रहः सूर्यं परितः परिभ्रमति । सूर्यं परितः भूमेः एकः परिभ्रमणकालः एकः संवत्सरः इत्युच्यते । कन्दुकसदृशः गोलाकारः अयं भूग्रहः स्वस्य अक्षं परितः अपि परिक्राम्यति । अस्य अक्षपरिक्रमणावधिः एकं दिनम् इति उच्यते । अस्माकं प्रियग्रहस्य अस्य एकः उपग्रहः विद्यते । स एव सुन्दरः चन्द्रः ।

सूर्यः एकः स्वयं प्रकाशितः आकाशकायः । नक्षत्रविशेषः । तस्य कुटुम्बे नव ग्रहाः सन्ति । अस्माकं सौरमण्डले नवग्रहाः एताः -

बुधः शुक्रः भूमिः मङ्गलः गुरुः शनिः युरेनस् नेप्च्यून् प्लुटो चेति । सौरमण्डले न केवलं ग्रहाः परन्तु अन्येऽपि आकाशकायाः वर्तन्ते । यथा कुब्जग्रहाः उल्काः धूमकेतवः इत्यादयः । सौरमण्डले सूर्यः केन्द्रस्थाने भवति । सौरमण्डलवर्तिनः सर्वे आकाशकायाः सूर्यं केन्द्रीकृत्य आकाशे प्लवन्ते । एते ग्रहाः सूर्यं परितः पृथक् पृथक् दूरेषु प्रायेण वृत्ताकारे परिभ्रमन्ति । 

विशालप्रायं सौरमण्डलम् इदं नक्षत्रपुञ्जस्य एकस्य एकः अल्पभागः । नक्षत्रपुञ्जस्य अस्य नाम क्षीरगङ्गा इति । अस्माकं सौरमण्डलम् क्षीरगङ्गायाः केन्द्रस्थानं परितः भ्रमति । अस्मिन् नक्षत्रपुञ्जे चत्वारः खर्वाः (400 billion)नक्षत्राणि अनेके ग्रहाः उपग्रहाः आकाशकायाः वर्तन्ते ।

विशालप्रायः क्षीरगङ्गानक्षत्रपुञ्जः अपि विश्वस्य कणमात्रभागः । विश्वे प्रायः शतद्वयं शतकोटिः नक्षत्रपुञ्जाः वर्तन्ते इति विज्ञानिनां ऊहनम् । केचन विज्ञानिनः न केवलम् एकं विश्वं परन्तु अनेकानि विश्वानि विद्यन्ते इत्यपि वदन्ति ।

अहो । ऊहातीतोयं ब्रह्माण्डस्य परिमाणः । अद्भुतः तस्य व्यापरः ।  सर्वस्यास्य को हेतुः किमर्थं परिभ्रमन्ति आकाशे । सृष्टिस्थितिलयं किमर्थं गच्छति । को वा पृथिव्यां जीवजन्तूनाम् जीवनलक्ष्यम् । अस्य अनन्तरूपस्य विश्वस्य विश्वनियामकस्य संकीर्तनाय कुतो वयं समर्थाः । अत एव उच्यते -

अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥

(ईशोपनिषत्)

This is also available on YouTube.



Saturday, September 4, 2021

गणेशस्तुतिद्वितयम् - Ganesha Stuti Couplet


उरगाङ्किततुन्दिलमाखुरथं धृतपाशवराङ्कुशशंभुसुतम् ।

उरुकुक्षिसमाहितविष्णुपदं दशनैकसुशोभितमोदकरम् ॥

हिमपर्वतजामुखपद्मसुखं सुजनार्तिहरं करिराजमुखम् ।

प्रथमार्चितसिद्धिददेववरं प्रणमामि गणाधिपतिं वरदम् ॥

पदच्छेदनम् तथा अर्थः -

उरगाङ्किततुन्दिलः = यस्य तुन्दिलः नाभिप्रदेशः पीनः  स च प्रदेशः उरगेण सर्पेण अङ्कितः मण्डितः वर्तते  

His navel region is protruding (because of huge belly). That region is adorned by a serpent.

आखुरथः = यस्य रथः वाहनम् आखुः मूषकः । His vehicle is a mouse.

धृतपाशवराङ्कुशः = सः पाशं वराङ्कुशं हस्तयोः धृतवान् अस्ति 

He is holding a rope and a hook (as a weapon).

शंभुसुतः = सः शंभोः शङ्करस्य सुतः । He is the son of Lord Shambhu.

उरुकुक्षिसमाहितविष्णुपदः = तस्य उरुकुक्षौ महति उदरे विष्णुपदम् आकाशः समाहितो वर्तते  गणेशः आकाशाभिमानी देवः इति 

In his big belly contains sky/space. (Ganesha is known as the lord of space). 

दशनैकसुशोभितमोदकरम् = सः दशनैकेन एकेन दन्तेन सुशोभितः

He is adorned with (only) one tooth.

मोदकरम् = मोदम् आनन्दम् यच्छति भक्तेभ्यः  करे स्वहस्ते मोदरूपम् आनन्दरूपम् मोदकभक्ष्यं धृतवान् वा 

He provides happiness. Or he is holding modaka in his hand. 

हिमपर्वतजामुखपद्मसुखः = सः हिमपर्वतजायाः पार्वत्याः मुखपद्मं मुखकमलं सुखयति । मात्रे आनन्दम् ददाति 

He gives joy to goddess Parvati (his mother). 

सुजनार्तिहरः = सुजनानाम् सज्जनानाम् आर्तिम् दुःखम् हरति 

He takes away the sorrows of virtuous people.

करिराजमुखः = गजमुखः । He has an elephant-head.

प्रथमार्चितसिद्धिददेववरः = सः प्रथमार्चितः सर्वादौ वन्द्यः । सिद्धिदः देववरः सिद्धिप्रदेषु देवेषु उत्तमः 

He is worshipped first. He is the best amongst the gods who give fulfilment (success).

गणाधिपतिः = गणानाम् अधिपतिः नियामकः ।  He is the leader/controller of ganas (his groups).

वरदः = वरप्रदः । He is the giver of boons.

प्रणमामि = तादृशम् (देवम्) नमामि । I bow to that god - Ganesha.