Saturday, March 27, 2021

होलिकाचरणम् - Holi Celebration

(परस्मैपदिधातूनां सरलप्रयोगः-वर्तमानकालः)

विशोकः पृच्छति - हे अशोक, होलिकापर्वणः आचरणम् कथम् भवति?

अशोकः वदति - मित्र, एतत् होलिकापर्व वसन्तऋतोः स्वागतसमारम्भः | रात्रौ अग्निः ज्वलति | अग्निम् परितः जनाः नृत्यन्ति | ते वाद्यानि वादयन्ति |

विशोकः पृच्छति - ततः किम् भवति?

अशोकः वदति - परेद्युः (next day) जनाः वर्णैः क्रीडन्ति | आवाम् मुकुन्दस्य गृहम् गच्छावः | त्वम् मुकुन्देन सह उद्यानम् गच्छसि | अहम् वर्णम् गृहीत्वा अनन्तरम् उद्याने मिलामि | तत्र अलोकः, गिरीशः, राजीवः अपि सन्ति | सर्वे मिलित्वा खेलामः | गीतानि गायामः |

एवम् सर्वाणि मित्राणि उद्याने मिलन्ति | तत्र क्रीडित्वा अशोकस्य गृहम् गच्छन्ति | अशोकस्य गृहे अलोकः मुकुन्दः च मधुरखाद्यम् खादतः |

अशोकः वदति - विशोक, गिरीश, राजीव, यूयम् तक्रम् (buttermilk) पिबथ | अहम् स्नात्वा देवम् पूजयामि |

English purport:
Vishoka asks, "Hey Ashok, how is the celebration of Holi festival observed?"

Ashok replies, "Friend, the Holi festival marks the beginning of spring. At night, a fire is lit and people dance around it. They also play instruments.

Vishoka asks, "What happens thereafter?"

Ashok replies, "The next day, people play with colors. We will go to Mukund's house and then to the park together. You will go with Mukund to the park, and I will join you later after collecting colors. There, we will meet Aloka, Girish, and Rajiv. We will all play together and sing songs."

All of the friends gather in the park and after playing, they go to Ashok's house. While at Ashok's house, Alok and Mukund eat some sweets.

Ashok says, "Vishoka, Girish, Rajiv, you all drink buttermilk. I will take a bath and perform worship to the deity."

Wednesday, March 17, 2021

शशकः कूर्मः च - Hare and Tortoise Story


वने एकः सरोवरः आसीत् । सरोवरे एकः कूर्मः वसति स्म । यदा सूर्योदयः अभवत् तदा एकः शशकः तत्र आगतवान् । यावत् शशकः सरोवरस्य तीरम् आगतवान् तावत् कूर्मः अपि जलात् बहिः आगतवान् । कूर्मः मन्दम् चलति स्म । कूर्मं दृष्ट्वा शशकः हसितवान् ।

शशकः कूर्मम् उक्तवान् –

हे कूर्म, यथा अहं शीघ्रम् धावामि तथा भवान् न धावति ।

कूर्मः उक्तवान् –

भोः शशक, एवं किमर्थं वदति । सरोवरतः पर्वतपर्यन्तम् धावनस्पर्धा भवतु । यः पर्वतं पूर्वं प्राप्नोति सः विजयं प्राप्नोति । यद्यपि अहं मन्दम् चलामि तथापि अहम् एव तत्र पूर्वं प्राप्नोमि।

शशकः उक्तवान् –

यथा भवान् वदति तथा एव भवतु ।

शशकः धावितुम् आरब्धवान् । कूर्मः अपि चलितुम् आरब्धवान् । यदा शशकः अर्धमार्गम् आगतवान् तदा सः कूर्मं न दृष्टवान् । शशकः तत्र एव निद्रां गतवान् ।

परन्तु कूर्मः विश्रान्तिं विना चलित्वा पर्वतं प्राप्तवान् ।

शशकः पृष्टवान् -

यद्यपि मम वेगः भवतः अपेक्षया अधिकः तथापि भवान् तत्र कथं पूर्वं प्राप्तवान्?

कूर्मः उक्तवान् –

वेगः अधिकः भवतु वा अल्पः । यः सततं कार्यं करोति सः एव निश्चयेन जयति किल ।

नीतिः – सततं कार्यम् फलदायकं भवति ।