Sunday, October 30, 2016

भूरिधन्या लक्ष्मीरेषा (Enu Dhanyalo Lakumi)

भूरिधन्या लक्ष्मीरेषा

(मूलम् - Enu Dhanyalo Lakumi
Kannada Song on Goddess Lakshmi
पुरन्दरदासवरेण्येन लिखितम्)

भूरिधन्या लक्ष्मीरेषा भूरिमान्या सा |
सानुरागभावतया श्रीहरिं सेवते मा || ० ||
छत्रचामरव्यजनपर्यङ्कपात्ररूपे एव स्थित्वा |
चित्रचरितहरिपदस्य नित्यसेवां सा करोति || १ ||
कोटिकोटिभृत्ये सति हाटकाम्बरस्य सेवा |
कृत्वानन्यतया पूर्णलोकनेनान्दति सा || २ ||
सर्वत्रसुव्याप्तपरं सर्वदोषरहितदेवम् |
सर्ववन्द्यमानपुरन्दरविट्ठलं च सेवते सा || ३ ||

Saturday, October 29, 2016

नरकासुरवधम् (Narakasura Vadham)

नरकासुरवधम्
(श्रीमद्भागवतपुराणाधारिता कथा)

श्रीवराहभूदेव्योः सञ्जातः भौमः द्वापरयुगे प्राग्ज्योतिषपुरं परिपालयति स्म | नरक इति नाम्नापि सः प्रसिद्धः | दैवतवरबाहुल्यबलादतिदर्पयुक्तः राजा भौमः अनेकान् नृपसमूहान्विजित्य यज्ञादिव्याजेन बहुसङ्ख्याकाः राजकन्याः कारागृहे चिक्षेप | न केवलं भूमौ किन्तु सुरपुर्यामपि स्वशासनमस्थापयत | दुर्मतिस्स देवमातुरदित्याः सुवर्णकर्णकुण्डलौ बलादपहृत्य स्वमात्रे भूदेव्यावददात् | हताशो देवेन्द्रः द्वारकेशश्रीकृष्णस्य शरणमगच्छत् | आश्रितजनबन्धुः वासुदेवः धर्मरक्षणहेतुः स्वपत्न्या सत्यभामया सह पक्षिराजवैनतेयमारुह्य प्राग्ज्योतिषपुरं जगाम |

भौमनगरस्तु प्राकारानेकैः परिवृतः आयुधविषेशनिपुणचमूभिरारक्षितः सुदुर्गमः रारज्यते स्म | गरुडवाहनः शार्ङ्गधरः तन्नगरमासाद्य खेचर एव इषुवर्षणमारभत | नरकसेना शूलपरिघाद्यायुधैर्हरिं प्रतिघातयतमाना महतीं पीडामवाप | तद्दृष्ट्वा नरकसेनाप्रमुखः मुरनामकदैत्यः बहुपराक्रमेण मुरारिणा सह युध्यन् यमसदनमगच्छत् | पञ्चमुरपुत्राऽप्यतिक्रुद्धा विचित्रैरायुधैर्युध्यमाना गरुत्मता निहताः पञ्चत्वमवाप्नुवन् | हतेषु सेनाप्रमुखेषु संतप्तः नरकोऽवशिष्टसैन्यैस्सह सर्वशक्त्या केशवस्योपर्याक्रमणञ्चकार | पश्यत्यां प्रियभामायां चक्र्यतिलीलया चक्रेण क्रकचमिव नरकशिरः न्यकृन्तत् |

ततः श्रीहरिर्जायया सह भौमभवनं प्राप्य सर्वैर्विधिवत्पूजितवान् | भूदेव्या प्रार्थितः मधुसूदनः भौमतनयं भगदत्तमभयं प्रददौ | षोडशसहस्राधिकाः राजकन्याः कारागृहात् मोचयित्वा तासामाशयानुसारेणात्मना सह वरणार्थमश्वकरिभिस्साकं ताः द्वारकामगमयत् | भूदेव्याः स्वर्णकुण्डलौ स्वीकृत्य ताविन्द्रमातां प्रदातुमुपेन्द्रः खगारूढः निजभामया सह स्वर्धानीममरावतीं प्रति प्रययौ |

Sunday, October 16, 2016

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स (Karoly Takacs)

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स

Karoly_Takacs_at_Melbourne.jpg

क्यारलि टकाकस् नामक महाशयः हन्गरिदेशे १९१० क्रिस्ताब्दे संजातः | सः हन्गरिदेशस्य भूसेनायां कार्यं करोति स्म | सः गोलिकास्त्रप्रयोगे(*) निपुणः अपि आसीत् | तस्य ओलिम्पिक्सखेलनेषु भागं वोढुं महती आशा आसीत् | परन्तु हन्गरिसेनायाः नियमानुसारेण १९३६ वत्सरस्य बर्लिन्-नगरस्थं ओलिम्पिक्सखेलनं गन्तुम् अशक्यमभवत् | क्यारलिमहाशयः १९४० टोक्योनगरे संभूयमानं ओलिम्पिक्सखेलनं कृते अभ्यासं कर्तुं आरभत |

अहो तस्य दुर्भाग्यम् ! १९३८ वत्सरे एकस्मिन् सेनाप्रशिक्षणशिबिरे स्फोटनदुर्घटनाकारणात् तस्य दक्षिणबाहुः उपहतः निष्क्रियः अभवत् | क्यारलिः धीरः स्थिरचित्तः रहसि स्थले वामबाहुना एव गोलिकास्त्राभ्यासं अकरोत् | १९३९ वत्सरे हन्गरिदेशस्य राष्ट्रीयगोलकास्त्रस्पर्धायां प्रथमस्थानं प्राप्तवानपि | तद्दृष्ट्वा सहस्पर्धालवः सर्वे जनाश्च परमविस्मिता अभवन् | तदनन्तरं १९४० टोक्योखेलनस्य प्रतीक्षां कुर्वन् आसीत् |

हा विधिवैचित्र्यम् ! १९४० तथा १९४४ उभे ओलिम्पिक्सखेलने अपि विश्वमहायुद्धकारणतः न संघटिते | ईदृशे दीर्घकाले सामान्यतः अन्यः कोऽपि हताशः भवेत् | न क्यारलिः | एतेषु विश्वस्तरीयस्पर्धासु स्पर्धालूनां आयुरपि महत्वपूर्णं भवति | तथापि ३८ वर्षीयः क्यारलिः विश्वे विस्मिते १९४८ वत्सरे लङ्डन्-नगरभूते ओलिम्पिक्सखेलने गोलिकास्त्रस्पर्धायां सुवर्णपदकं प्राप्य इतिहासम् अरचयत | बहुकालतः अभ्यासानन्तरं मनोभिलाषाम् अवाप्य सामान्यजनः श्रान्तः विरामं कुर्यात् | न क्यारलिः | १९५२ वत्सरे हेल्सिन्की-नगरभूते ओलिम्पिक्सखेलने सः पुनः सुवर्णपदकं प्राप्तवान् | तदनन्तरमपि क्यारलिः बहवः गोलिकास्त्रस्पर्धासु अनेकपदकान् जितवान् | गोलिकास्त्रविषये बहवः छात्रेभ्यः प्रशिक्षणमपि दत्तवान् |

मानवः प्रतिकूलस्थितिषु अपि यदि दृढसंकल्पः भवेत् तर्हि किमपि साधितुं शक्नोति इति एषा निजा कथा प्रतिपादयति | क्यारलिमहाशयस्य कथा लोके बहु स्फूर्तिदायिनी अस्ति |

* गोलिकास्त्र = pistol or gun

Tuesday, October 11, 2016

एकश्लोकरामायणम् - Ramayana in one shloka


आदौ श्रीरामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् |
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ||
अन्वयः
आदौ श्रीरामतपोवनादिगमनं काञ्चनं मृगं हत्वा वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं पश्चात् रावणकुम्भकर्णहननं एतत् हि रामायणम् |
अर्थः
आदौ = पूर्वम् (First)
श्रीरामतपोवनादिगमनं = सीतारामलक्ष्मणानां वनगमनं तथा वनेषु चरणम् (Sita, Rama and Laxmana’s going to the forest)
हत्वा = व्यापाद्य (हननं कृत्वा) (after killing)
काञ्चनं = सुवर्णमयं (golden)
मृगं = हरिणम् (deer)
वैदेहीहरणं = रावणेन सीतायाः अपहरणम् (Sita’s abduction)
जटायुमरणं = रावणहस्ते जटायुनामकखगस्य मरणं (Killing of Jatayu)
सुग्रीवसंभाषणं = रामसुग्रीवयोः मिलनं तथा परस्परसहायविषये चर्चा (Talks with Sugriva)
वालीनिग्रहणं = रामेण वालीराजस्य हननम् (Vali’s killing)
समुद्रतरणं = हनुमता समुद्रलङ्घनम् (Crossing of the sea)
लङ्कापुरीदाहनं = पुच्छे अग्निना प्रज्वलितेन हनुमता लङ्कानगरस्य भस्मीकरणम् (Burning down the city of Lanka)
पश्चात् = नन्तरम् (thereafter)
रावणकुम्भकर्णहननं = रामेण कुम्भकर्णस्य तथा रावणस्य वधम् (Killing of Kumbhakarna and Ravana)
एतत् हि = इदम् एव (This is)
रामायणम् = रामायणस्य कथासारः (Ramayana)

Wednesday, October 5, 2016

Bhagyada Laxmi Baramma Song in Sanskrit

Bhagyada Laxmi Baramma
The famous Kannada song written by Purundara Dasa
Original script can be found here. Telugu script can be found here.
संस्कृतानुवादनम्
भगवति लक्ष्मि आगच्छ |
अस्माकं मातः भगवति लक्ष्मि आगच्छ ||

शुभपदगतिनुता परमपवित्रा नूपुरनादकृता अतिशोभिता |
साधुऋतजनपूजासमये तक्रादुत्थितनवनीतम् इव || १ ||

कनकवृष्टिदा श्रीकरहस्ता सिद्धिप्रदात्री वाञ्छितफलदा |
दिनकरकोटीतेजोमयी त्वं जनकनन्दिनी रघुवरप्रीया || २ ||

भक्तानां मनगृहे स्थिरनिलया नित्यमङ्गला नित्यशिवार्था |
ऋजुपथगामिनी साधुजनानां चित्तकाशिका पुत्थलिकासि || ३ ||

भाग्यदायिनी सुरवरवन्द्या वरदहस्तिका अगणितकरुणा |
कुङ्कुमाङ्किता पङ्कजलोचना वेङ्कटरमणे गुरुतमसक्ता || ४ ||

शर्कराघृतमयनदमाधाय भार्गवशुभदिने पूजनसमये |
श्रीवत्साङ्कितहरिपरजनगा जगतः पत्युः प्रियतमराज्ञी || ५ ||