Saturday, September 4, 2021

गणेशस्तुतिद्वितयम् - Ganesha Stuti Couplet


उरगाङ्किततुन्दिलमाखुरथं धृतपाशवराङ्कुशशंभुसुतम् ।

उरुकुक्षिसमाहितविष्णुपदं दशनैकसुशोभितमोदकरम् ॥

हिमपर्वतजामुखपद्मसुखं सुजनार्तिहरं करिराजमुखम् ।

प्रथमार्चितसिद्धिददेववरं प्रणमामि गणाधिपतिं वरदम् ॥

पदच्छेदनम् तथा अर्थः -

उरगाङ्किततुन्दिलः = यस्य तुन्दिलः नाभिप्रदेशः पीनः  स च प्रदेशः उरगेण सर्पेण अङ्कितः मण्डितः वर्तते  

His navel region is protruding (because of huge belly). That region is adorned by a serpent.

आखुरथः = यस्य रथः वाहनम् आखुः मूषकः । His vehicle is a mouse.

धृतपाशवराङ्कुशः = सः पाशं वराङ्कुशं हस्तयोः धृतवान् अस्ति 

He is holding a rope and a hook (as a weapon).

शंभुसुतः = सः शंभोः शङ्करस्य सुतः । He is the son of Lord Shambhu.

उरुकुक्षिसमाहितविष्णुपदः = तस्य उरुकुक्षौ महति उदरे विष्णुपदम् आकाशः समाहितो वर्तते  गणेशः आकाशाभिमानी देवः इति 

In his big belly contains sky/space. (Ganesha is known as the lord of space). 

दशनैकसुशोभितमोदकरम् = सः दशनैकेन एकेन दन्तेन सुशोभितः

He is adorned with (only) one tooth.

मोदकरम् = मोदम् आनन्दम् यच्छति भक्तेभ्यः  करे स्वहस्ते मोदरूपम् आनन्दरूपम् मोदकभक्ष्यं धृतवान् वा 

He provides happiness. Or he is holding modaka in his hand. 

हिमपर्वतजामुखपद्मसुखः = सः हिमपर्वतजायाः पार्वत्याः मुखपद्मं मुखकमलं सुखयति । मात्रे आनन्दम् ददाति 

He gives joy to goddess Parvati (his mother). 

सुजनार्तिहरः = सुजनानाम् सज्जनानाम् आर्तिम् दुःखम् हरति 

He takes away the sorrows of virtuous people.

करिराजमुखः = गजमुखः । He has an elephant-head.

प्रथमार्चितसिद्धिददेववरः = सः प्रथमार्चितः सर्वादौ वन्द्यः । सिद्धिदः देववरः सिद्धिप्रदेषु देवेषु उत्तमः 

He is worshipped first. He is the best amongst the gods who give fulfilment (success).

गणाधिपतिः = गणानाम् अधिपतिः नियामकः ।  He is the leader/controller of ganas (his groups).

वरदः = वरप्रदः । He is the giver of boons.

प्रणमामि = तादृशम् (देवम्) नमामि । I bow to that god - Ganesha.