Tuesday, March 28, 2017

कमलाविमलयोः युगादिदिनोत्सवः (Yugadi)

(कर्मणि लोट् लङ् तथा विधिलिङ् वाक्यानि)

विमला - अयि भगिनि प्रातः समयः जातः | उत्थीयताम् |
कमला - (शयने एव जृम्भन्ती) किमर्थं मम स्वप्नभङ्गः क्रियते विमले |
विमला - न ज्ञायते वा | अद्य युगादिपर्वदिनम् |
कमला - अचिरात्पूर्वमेव होलिकोत्सवेन अभूयत | पुनरिदमुत्सवदिनेन आगम्यत |
विमला - स्वप्नप्रिये शीघ्रं नेत्रोन्मीलितया भूयताम् | पित्रा आवाम् आहूयावहै | प्रातःकार्याणि समाप्य आगम्यताम् |
कमला - अस्तु चारुमति | किमर्थम् आचर्यते उत्सवोऽयम् इति कथ्येय |
विमला - नूतनवत्सरोऽयं हेमलम्बनाम्ना कीर्त्यते | चैत्रमासारम्भोऽपि |
कमला - को विशेषः |
विमला - अद्य सर्वैः तैलादिभिः स्नायेत | गृहाङ्गणं स्वच्छीकृत्वा रङ्गवल्ली लिख्येत | पित्रा ह्यः नूतनवस्त्राणि अक्रीयन्त |
कमला - नूतनपादत्राणान्यपि |
विमला - आम् | तानि धार्येरन्  | तदनन्तरं देवाः पुष्पैः अर्च्येरन् | सांवत्सरिकपञ्चाङ्गमपि श्रूयेत |
कमला - सुगन्धः कः महानसतः |
विमला - मात्रा पायसं मधुरभक्ष्याणि च अपच्यन्त | मह्यं पायसं रोचते |
कमला - मह्यं तु सर्वैः मधुरभक्ष्यैः रुच्यते | तानि खाद्येरन् |
विमला - अपि च शाला न गम्यते | विरामदिनमिदम् |
कमला - अहो | तदर्थमेव मित्रैः त्वम् उत्सवप्रिया इति उद्येथाः |
विमला - अलं जल्पनेन | इदानीम् आदिनं मुद्येत |

Saturday, March 11, 2017

बालकमलायाः होलिकोत्सवः

लघुरूपकम्
कमला - (उषःकाले गृहात् बहिः कोलाहलं श्रुत्वा भग्ननिद्रा) अये भगिनि विमले कोऽयं जनकोलाहलः |
विमला - भामिनि अनुजे उत्तिष्ठ शयनात् | दृश्यतां तावत् जनसम्मर्दः |
कमला - (शयने एव जृम्भन्ती) अस्मिन् विशालभारते अस्मदीयगेहपार्श्वे एव कुतः महाकोलाहलः इदानीम् |
विमला - कमले होलिकोत्सवस्य कोलाहल एषः |
कमला - अहो होलिकोत्सवः अद्य | स्वप्नलोकाश्रिताहं विस्मृतवती दिनगणनाम् |
विमला - स्मारयामि अत्रभवति | फल्गुनमासस्य पौर्णिमादिनमिदम् | न केवलमस्माकं गृहं परितः परन्तु भारते प्रायः सर्वत्र ईदृशः कोलाहलो वर्तते अद्य | आबालवृद्धाः आनन्देन आचरन्ति उत्सवमिमम् |
कमला - को विशेषः |
विमला - वर्णरञ्जित उत्सवोऽयम् | नीलहरित्पीतपाटलरक्तादिवर्णकजलं सेचकेषु पूरयित्वा परस्परं सेसिच्यमाणाः जनाः खेलन्ति | नानावर्णात्मकचूर्णमपि विकिरन्तः मोदन्ते | तद्दिने काष्ठादीनि एकत्र सङ्गृह्य ज्वालयन्तः नमस्कुर्वन्ति |
कमला - किमिति |
विमला - होलिकादहनं कामदहनं चेति प्रसिद्धमेतत् तमोगुणनिवारणद्योतकम् |
कमला - का होलिका किं दहनम् |
विमला - शृणु वत्से कथामेषाम् | दानवेन्द्रः हिरण्यकशिपुः स्वसुतं हरिभक्तं बालकं प्रह्लादं दिधक्षन् स्वभगिन्या होलिकया सह अग्निप्रवेशं कारयामास | भगवदनुग्रहात् प्रह्लादः रक्षितः | दुष्टमना होलिका दग्धा |
कमला - सरसा कथा | कः कामः किं दहनम् |
विमला - प्रिये शृणु कथामन्याम् | यदा देवी पार्वती परिणयेच्छया भगवति शङ्करे ध्यानमनस्का तदा तस्याः साहाय्यार्थं कामदेवमन्मथः शङ्करं पुष्पबाणेन प्रजहार | मन्मथः कुपितेन त्रिनेत्रेण भस्मीभूतः |
कमला - अस्तु चारुमति | अलं पुराणकथनेन | अधुना आवामपि मित्रैः सह बहिः खेलावः | सर्वे रङ्गलेपिता भवेम |
============