Sunday, May 31, 2020

बालसुन्दरकाण्डम् Sundarakandam for Beginners


वायुपुत्रः मारुतिः विशालं समुद्रं लङ्घयति | सः लङ्कानगरं प्रविशति | सः माता सीता कुत्र इति चिन्तयति | सः नगरे सर्वत्र जानकीम् अन्विष्यति | सः रावणस्य भवनस्य अन्तः गच्छति | तत्र अपि सीतायाः दर्शनं न भवति | मारुतिः नगरस्य बहिः अशोकवाटिकां प्राप्नोति | वाटिकायां वृक्षस्य अधः दुःखितां सीतां पश्यति | सः मधुरया वाण्या रामस्य कथां गायति | देवी सीता आनन्दिता भवति | मारुतिः देव्यै सीतायै रामस्य अङ्गुलीयकं ददाति | सीता मारुतये केशाभरणं यच्छति | अनन्तरं मारुतिः रावणस्य पुत्रम् अक्षकुमारं मारयति | रावणस्य अन्यः पुत्रः मेघनादः ब्रह्मास्त्रेण मारुतेः बन्धनं करोति | रावणः मारुतेः पुच्छं ज्वालयति | मारुतिः तेन एव अग्निना सर्वं नगरं ज्वालयति | सः लङ्कानगरात् रामस्य समीपं गच्छति | सः रामाय सीतायाः केशाभरणं ददाति | भक्तश्रेष्ठः मारुतिः प्रभुं रामं नमति |

Meaning of some words:
अन्विष्यति = searches
आनन्दिता = happy (feminine)
यच्छति = gives
अङ्गुलीयकम् = ring (worn in finger)
केशाभरणम् = ornament worn in hair
ज्वालयति = burns

Tuesday, May 26, 2020

अन्धविश्वासः Blind Faith

तिरुपतिः इति लोकप्रसिद्धं तीर्थक्षेत्रम् | तत्र देवालये स्थितस्य श्रीनिवासदेवस्य दर्शनार्थं बहवः जनाः प्रतिदिनम् गच्छन्ति | एकस्मिन् दिने देवालयस्य पुरतः जनानां दीर्घा पङ्क्तिः आसीत् | घण्टाद्वयं वा घण्टात्रयं वा निदाघे कष्टेन भक्तजनाः पङ्क्तौ स्थिताः | देवदर्शनार्थं सर्वे उत्सुकाः |

तदा तत्र कश्चित् अन्धः आगतवान् | सः पङ्क्तौ अस्थित्वा अग्रे सर्तुम् आरब्धवान् | तदा अन्ये जनाः अवदन् - "भोः, किमर्थं एतावती त्वरा | त्वं तु अन्धः | देवं द्रष्टुं न शक्नोषि | देवालयं गत्वा किं करोषि ?" अन्धः प्रत्यवदत् - "महाभागाः क्षम्यताम् | सत्यम् अहं तु अन्धः | देवं द्रष्टुं न शक्नोमि | परन्तु मम विश्वासः अस्ति | देवः मां द्रष्टुं शक्नोति | अतः अहं देवालयं गन्तुम् इच्छामि" |

अन्धस्य वचनं श्रुत्वा जनाः मूकविस्मिताः अभवन् |

English Translation:
Tirupati is a world-famous sacred place. To see the Lord Shrinivasa (idol) in the temple, lot of people go there everyday. One day, there was a long line in front of the temple. The devotees were standing in the line for two or three hours in the hot sun. To see the lord, they were all eager.

Then, a blind came there. Without standing in the line, he started to move forward. Then, the other people said - "Hey, why is this much hurry? You are blind. You cannot see the god. Going to the temple, what will you do?" The blind replied - "Excuse me gentlemen. True, I am blind. I cannot see the god. But I have faith. The god will be able to see me. Therefore, I would like to go to the temple".

Hearing the blind person's talk, the people became speechless.

Saturday, May 2, 2020

विभक्तिरूपदर्शकाः श्लोकाः ७- Verses with Declension 7

पिता-माता-संवादः - पुत्र्या कथितः
Conversation between father and mother - told by their daughter.

ऋ-कारान्त-शब्दः पितृ/मातृ
Declension of word ending in “R^i”
मूलम्-स्वरचितम्
Source-Self

पिता वदति मातरं गच्छेव विपणिं प्रिये ।
मात्रा प्रोक्तं कथं साध्यं मात्रे ते परिवेषणम् ॥
मातुर्बिभेषि हे नाथ मातुर्वचनपालकः ।
ब्रुवत्यां मातरि ह्येवं मयोक्तं नय मां पितः ॥
pitA vadati mAtaraM gachCheva vipaNiM priye ।
mAtrA proktaM kathaM sAdhyaM mAtre te pariveShaNam ॥
mAturbibheShi he nAtha mAturvachanapAlakaH ।
bruvatyAM mAtari hyevaM mayoktaM naya mAM pitaH ॥

पदच्छेदः (Word separation):
पिता  वदति मातरम्  गच्छेव विपणिम् प्रिये ।
मात्रा  प्रोक्तम् कथम् साध्यम् मात्रे  ते परिवेषणम् ॥
मातुः  बिभेषि हे नाथ मातुः  वचनपालकः ।
ब्रुवत्याम् मातरि  हि एवम् मया उक्तम् नय माम् पितः
pitA vadati mAtaram gachCheva vipaNim priye ।
mAtrA proktam katham sAdhyam mAtre te pariveShaNam ॥
mAtuH bibheShi he nAtha mAtuH vachanapAlakaH ।
bruvatyAm mAtari hyevam mayoktam naya mAm pitaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
पिता father
मातरम् to my mother वदति says - प्रिये dear, विपणिम् to shopping mall गच्छेव let us go.
मात्रा By mother प्रोक्तम् was said - कथम् how साध्यम् (is it) possible?
ते yours मात्रे for (your) mother परिवेषणम् food is to be given.
हे Hey नाथ dear मातुः from (your) mother बिभेषि (you) fear.
मातुः Mother’s वचनपालकः obeyer (you are).
मातरि ब्रुवत्याम् When mother was saying हि एवम् thus, मया By me उक्तम् was said -
पितः (hey) father, माम् me नय take.