Monday, August 14, 2017

वन्दे मातरम् - भारतराष्ट्रगीतम् National Song of India

वन्दे मातरं सुजलां सुफलां मलयजशीतलां सस्यश्यामलां मातरम् ||

अर्थः - अस्माकं मातृभूमिं या जन्मप्रदात्री माता इव अस्ति तां प्रणमामि | सा भूमिः रम्यपर्वतप्रदेशेभ्यः प्रवहता नदीभिः युक्ता फलधन्यादिभिः समृद्धा मन्दवायुना शीतलीकृता हरिद्वर्णैः वृक्षलतादिभिः आच्छादिता प्रशोभते |
Meaning: I bow to our motherland who is like our own mother. She is adored with sacred rivers and streams, cool with soft winds blowing from beautiful mountains, covered with beautiful greenery.

शुभ्रज्योत्स्नापुलकितयामिनीं फुल्लकुसुमितद्रुमदलशोभिनीम्
सुहासिनीं सुमधुरभाषिणीं सुखदां वरदां मातरम्॥ १॥

अर्थः - सा च मातृभूमिः ज्योतिर्मया देदीप्यमाना विकसितैः पुष्पैः सुन्दरैः वृक्षलतापर्णादिभिः सुशोभिता | हसन्मुखी चारुभाषिणी आश्रितानां सुखदायिनी वरदायिनी अस्ति | तां मातरं नमामि |
Meaning:My motherland glows with lights, clad with blossoming trees and vines. She is smiling, gentle in talk, provides happiness, and gives us our wishes.

सप्त-कोटि-कण्ठ-कल-कल-निनाद-कराले द्विसप्त-कोटि-भुजैर्धृत-खरकरवाले |
केन त्वम् उच्यसे अबला बहुबलधारिणीं नमामि तारिणीं रिपुदलवारिणीं मातरम्॥ २॥

अर्थः - अनेकैः देशभक्तैः सेविता रक्षिता सा माता निर्बला नितरां नास्ति | सा अत्यन्तबलशालिनी शत्रुमर्दिनी अभयप्रदा च वर्तते | तां मातरं नमामि |
Meaning: She is served and protected by her brave subjects. Who can call her weak? She is very strong, incites fear in her enemies. I bow to my mother.

(मूलम् - संस्कृत-बाङ्ग्लाभाषामिश्रितरचना बङ्किमचन्द्रचट्टोपाध्यायकृता | अत्र कश्चनभागः मया संस्कृते परिवर्तितः)