Tuesday, September 27, 2016

Kanakadasa Story (शिष्यपरीक्षा)

कनकदासकथा
शिष्यपरीक्षा

षोडशक्रिस्तशताब्दे दक्षिणभारतदेशे व्यासतीर्थः इति महायतिः आसीत् | सः यतिः सकलवेदशास्त्रेषु पारङ्गतः महान्तं गुरुकुलमेकं संचालयति स्म | तस्मिन् प्रसिद्धे गुरुकुले अध्ययनार्थे देशविदेशेभ्यः आगाताः बहवः छात्राः तथा अध्यापनार्थे अनेके पण्डिताः च निवसन्ति स्म |

तद्गुरुकुलम् एकः मेषपालः प्रतिनित्यमागत्य बहु श्रद्धया शास्त्रश्रवणं करोति स्म | कनकः इति तस्य नाम | व्यासतीर्थाय कनकस्य शास्त्रविषये अभिरुचिः रोचते स्म | अन्ये छात्राः तं दृष्ट्वा एषः तु अजमेषादिपालयितुं योग्यः वेदशास्त्रादीन् कथमवगच्छतीति उपहासमकुर्वन् |

व्यासतीर्थः एकदा सर्वान् शिष्यान् आहूय प्रत्येकम् एकं कदलीफलं दत्वा यत्र केनापि न दृश्यते तादृशे स्थले तत्फलं खादितुम् अवदत् | सर्वे अन्तेवासिनः इतस्ततः अटन्तः विजनस्थले फलानि भक्षयित्वा प्रत्यागच्छन् | कनकः फलसहितः एव आगतः | तद्दृष्ट्वा छात्राः एषः कनकः तु अतिमूढः गुरुणोक्तं एतावत् सुलभकार्यमपि न कर्तुं शक्नोति इति अपहासम् अकुर्वन् | गुरुव्यासतीर्थः सर्वान् फलविषये अपृच्छत् | एकः वृक्षस्य उपरि गत्वा फलं खादितमिति अवदत् | अन्यः वने गत्वा खादितमिति | अपरः गृहस्य पृष्ठतः गत्वा इति | गुरुः कनकमपि अपृच्छत् | कनकः बद्धाञ्जलिः अहमपि वनं गृहं कूपीं सर्वत्र अगच्छम् | परन्तु सर्वत्र मया भगवान् दृष्टः | भगवति पश्यति सति कथमहं फलं खादेयमिति कनकः अवदत् | तच्छ्रुत्वा परमप्रीतः व्यासतीर्थः कनकस्य अवज्ञा न कर्तव्या परन्तु तस्य भगवद्भक्तिनिष्ठा सर्वैः अनुकरणीया इति शिष्यगणम् अबोधयत् |

सः कनकः एव कनकदासः इति प्रख्यातः भगवल्लीलापराणि सुबहूनि काव्यानि रचयित्वा जनेषु भक्तिप्रचारमकरोत् |

Wednesday, September 21, 2016

Tenali Ramakrishna Story महापण्डितस्य मातृभाषा

तेनालिरामकृष्णकथा
महापण्डितस्य मातृभाषा

Tenali-Raman-Stories.png

षोडशक्रिस्तशतके दक्षिणभारतदेशे कृष्णदेवराय इति महान् राजा आसीत् | तस्य आस्थाने बहवः कवयः पण्डिताः च आसन् | तेषां रामकृष्णः अति प्रख्यातः | राजा अपि तम् आस्थाने चतुरतमः इति आदरं करोति स्म | रामकृष्णस्य प्रति महाराजस्य गौरवभावं दृष्ट्वा अन्ये पण्डिताः असन्तुष्टाः मत्सरमतयः च आसन् |
एकदा एकः महापण्डितः कृष्णदेवरायस्य आस्थानम् आगतवान् | सः पण्डितः सकलशास्त्रज्ञः बहुभाषाप्रवीणः इति देशविदेशेषु प्रसिद्धः आसीत् | सः महाराजस्य पुरतः आगत्य महादर्पेण अवदत् – हे महाराज, तव राज्ये बहवः पण्डिताः सन्ति इति अहं श्रुतवान् | अनेकासु भाषासु मम प्रावीण्यं अस्ति | यदि तव आस्थाने कोऽपि मया सह भाषणं कृत्वा मम निजमातृभाषाम् उपजानाति तर्हि अहं पराजयं स्वीकरोमि, अन्यथा तव आस्थानकवयः निरर्थकाः इति सिद्धः भवति | महाराजस्य आस्थाने अनेके पण्डितजनाः महापन्डितेन सह भिन्नभिन्नभाषासु संवादम् अकुर्वन् | परन्तु महापण्डितः सर्वासु भाषासु बहु सुललितया तैः जनैः सह संभाषणम् अकरोत् | कोऽपि महापन्डितस्य मातृभाषां ज्ञातुं न शक्तः | सर्वे लज्जया नतमस्तकाः अभवन् | तदा रामकृष्णः तं महापण्डितं अपरस्मिन् दिने पुनः आगन्तुम् उक्तवान् | यदा महापण्डितः रात्रौ भोजनं कृत्वा निद्रावशः अभवत् तदा रामकृष्णः तस्य शय्यागृहे आगत्य पण्डितस्य उदरप्रदेशे लघुसूचिकया पीडनम् अकरोत् | निद्रासमये अन्धकारे सूचिकपीडनेन चकितः पण्डितः झटिति उत्थाय स्वमातृभाषायां शब्दान् उक्त्वा उच्चैः आक्रन्दनम् अकरोत् | अपरेदिने महापण्डितः महाराजस्य आस्थानम् अगच्छत् | तदा चतुरः रामकृष्णः तस्य महापन्डितस्य मातृभाषां सर्वेषां पुरतः उदघोषयत् | तदा महापण्डितः नतमस्तकः पराजयम् अङ्गीकृत्य निर्गतवान् | रामकृष्णस्य चातुर्यं महाराजः तत्रस्थाः अन्ये पण्डिताः अपि बहु श्लाघनम् अकुर्वन् | स एव रामकृष्णः तेनालिरामकृष्णः इति अपि लोकप्रसिद्धः अस्ति |

Saturday, September 17, 2016

Vamana Story Quiz (वामानावतारप्रश्नमाला)

Note: There are total 13 questions. After answering all the questions, click the Submit button at the bottom. And then click the link "View your score". You may have to scroll up to see this link.

Tuesday, September 13, 2016

Vamanavatara Story (वामनावतारः)

वामनावतारकथा
(श्रीमद्भागवतपुराणे अष्टमस्कन्धाधारिता)

vamana1.jpg


वामनावतारः श्रीविष्णुभगवतः प्रसिद्धेषु दशावतरेषु पञ्चमः | प्रह्लादपौत्रः दैत्यराजः बलिः देवगणैः युद्धे पराजितः खिन्नमनस्कः राज्यलक्ष्मीं पुनःप्राप्तुकामः भार्गवब्राह्मणान् समाश्रयत | विनयादिगुणयुक्तेन वैरोचनबलिना बहुप्रकारेणार्चितः दैत्यगुरुभार्गवशुक्रः सुप्रीतः तस्य हितार्थे विश्वजिन्नामकं यज्ञोत्तममायोजयत | तद्यज्ञप्रसादरूपेण बलिः सुवर्णोपेतं महारथं इष्वादिशस्त्रादीन् च प्राप्तवान् | अथ विशेषबलयुक्तः बलिः दैत्यसैन्यसमेतः सुरपुरीममरावतीं पर्यवृणोत् | सागरोपमं साध्वसजं दैत्यानीकं दृष्ट्वा किंकर्तव्यमूढः इन्द्रादिवृन्दारकगणः देवगुरुब्रुहस्पतिमुपगम्य मन्त्रालोचनं चकार | दैत्यादैत्यबलाबलं परामर्शन् बृहस्पतिः सुरान् नगरत्यजनं सूचयामास | तदेव समयोचितं मत्वा नाकिवृन्दः समस्तपरिवारजनैः सह स्वर्गात् लुप्तोऽभवत् | रिक्तां देवधानीमाक्रम्य प्रमुदितः असुरगणः अट्टहासेन ननाद |


अथ श्रीविहीनान् स्वर्भ्रष्टान् स्वपुत्रान् दृष्ट्वा विह्वलहृदया देवमाता अदितिः पतिं कश्यपमुनिं सस्मार | महामुनिकश्यपः तत्रागत्य पत्न्याः दुर्दशां वीक्ष्य दयार्द्रः तां मनोभीष्टप्रदं व्रतश्रेष्ठं पयोव्रतं उपादिशत् | पयोव्रतमनुष्ठमाणायां सुरमातरि श्रीमन्नारायणः पुत्ररूपेण अजायत | उपेन्द्रं वामननाम्नाभिधं तं ब्राह्मणवटुरूपिणं बालं बृहस्पत्यादिद्विजाः छत्रं यज्ञोपवीतं मेखलां दण्डं कौपीनं इत्यादीन् समर्पितवन्तः |



vamana11.jpgदैत्याधिपतिर्बलिः इन्द्रपदवीमिष्यमाणः यज्ञोत्तममश्वमेधं यष्टुमुपाक्रमत् | दण्डकमण्डलोपेतः छत्रधरः वामनः ऋत्विजादिसमलङ्कृतां यज्ञशालां प्राविवेश | ब्रह्मतेजोमयं वटुशरीरं प्रेक्ष्य यज्ञदीक्षितः बलिः अर्घ्यपाद्यादिना समपूजयत | यागसमये अभ्यागतं वामनं राजा बलिः स्वस्य ऐश्वर्यवर्णनं कुर्वन् निस्सङ्कोचेन दानं याचितुं उक्तवान् | राज्ञः आतिथ्येन सुप्रीतः वामनः बलिवंशजानां औदार्यगुणं प्रशंस्य त्रिपादपरिमाणं भूप्रदेशमेव याचितवान् | तच्छ्रुत्वा बलिः बालस्य बालिशबुद्धिरेव इति उपहसन् काञ्चनगजगवाश्वराज्यादीन् याचितुं पुनः उक्तवान् | वामनः मनुष्याणां यदृच्छालाभसन्तुष्टिरेव उत्तमगतिरिति प्रतिपादयन् पदत्रयमेव स्वकृते अलमिति उवाच | बलिः जलकलशमानीय स्वपत्न्या विन्ध्यावल्या सह दानार्थं सिद्धोऽभवत् | तदा दैत्यगुरुशुक्रः एषस्तु वामनरूपेण साक्षाद्विष्णुरेव असुरकुलाहितार्थमागतः इति वदन् दानसङ्कल्पं त्यक्तुं बलिम् आदिदेश | बलिः दृढचित्तः वटुः विष्णुर्वा न वा अहं तु वचनभ्रष्टः कुलकलङ्को न भविष्यामीति अवदत् | कुपितः शुक्रः ब्राह्मणवाचं तिरस्कुर्वन्तं बलिं शीघ्रमेव सकलैश्वर्यविहीनो भव इति शशाप | बलिः विधिपूर्वकं दानसङ्कल्पमकरोत् |

vamana10.jpg


समाप्ते दानविधौ वामनः स्वरूपं प्रवर्धमानः लोकत्रयं व्याप्य तस्थौ | प्रथमपादेन सम्पूर्णभूलोकं द्वितीयपादेन समस्तद्युर्लोकमाक्रान्तं त्रिविक्रमं पश्यन्तः परमाश्चर्यचकिता सुरसिद्धतापसगन्धर्वादिगणाः वेदादिमन्त्रैः भूरिशः देवं तुष्टुवुः | चतुर्मुखब्रह्मणा श्रीहरिपादः प्रक्षालितः | तस्मादुत्पन्ना पवित्रपयोधारा स्वर्गङ्गा त्रिषु लोकेषु प्रावहत् | तदनन्तरं सर्ववन्द्यः वामनः विश्वरूपं विहाय पुनः मानवाकृतिं दधार |



vamana12.jpgमहीं सर्वामपहृतां दृष्ट्वा रुष्टो दैत्यानीकः शूलाद्यायुधसहितः घातुमुद्युक्तः वामनं प्रति अधावत् | तदा विष्णोरनुचराः जयविजयादिप्रभृतयः सत्वरेण दैत्यसैन्यं युद्धे पीडयन्तः रसातलमगमयन् | वामनेच्छानुसारेण विष्णुवाहनः खगोत्तमः गरुडः बलिं वरुणपाशे बबन्ध | वामनः बलिमवदत् पादद्वयेन त्वयार्जिताः सकललोकाः हृताः मया तृतीयपाददानार्थे किमपि नावशिष्टं वचनच्युतोऽसि इति | सत्यसन्धः बलिः नतमस्तकः शिरसि तृतीयपादं स्थापयितुं वामनं प्रार्थयामास | दैत्यराजस्य दैन्यावस्थां अवेक्ष्य पितामहः प्रह्लादः तत्रागत्य वटुवेषं नारायणं स्तोत्रेण सम्पूजितवान् | भक्तवरप्रह्लादस्य प्रार्थनया आह्लादितः वामनः बलिं बन्धेन मुमोच | यदा भक्ताः धनादिकारणात् गर्विष्ठा निजमार्गच्युता भवन्ति तदा तान् समुद्धर्तुमेव तेषां धनाद्यैश्वर्यमपहरामि इति वामनः प्राबोधयत् | दैत्यपतेः स्थैर्येण परमप्रीतः विश्वपतिर्वामनः बलिं परिवारजनैः सह सुतललोके निवसितुं आदिदेश | सावर्णिमन्वन्तरे इन्द्रपदवीमपि तं प्रदत्तवान् |

वामनवामन माणववेषा दैत्यकुलान्तक कारणभूत (मध्वाचार्यकृतं द्वादशस्तोत्रम्)

Sunday, September 11, 2016

Vakratunda Ganesha Prayer


वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

अन्वयः
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ देव मे सर्वकार्येषु सर्वदा निर्विघ्नं कुरु |

शब्दार्थाः
वक्रतुण्ड = वक्रं तुण्डं यस्य अस्ति सः वक्रतुण्डः | तुण्डं इत्युक्ते शुण्डः गजस्य अङ्गविशेषः | हे वक्रतुण्ड |
महाकाय = महान् कायः शरीरः यस्य अस्ति सः महाकायः | हे महाकाय |
कोटिसूर्यसमप्रभ = यस्य प्रभा कान्तिः कोटिसूर्य बहवः सूर्याः सदृशा | हे कोटिसूर्यसमप्रभ |
देव = हे देव |
मे = मम |
सर्वकार्येषु = सर्वेषु कार्येषु |
सर्वदा = नितराम् |
निर्विघ्नं कुरु = बाधान् निवारय |

भावार्थः
हे महाकान्तियुक्त महाकाय गजानन अहं यद्यत् कार्यं करोमि तत् सकलं सुकरं कुरु |

English Meaning:
Hey the one with curved trunk, one with big body, one with splendor of thousand suns, (I pray you to) always make my all works (undertakings, doings) free of troubles.

Monday, September 5, 2016

Ganesha Prayer अगजाननपद्मार्कम्

ganesh.jpg
श्लोकः
अगजाननपद्मार्कं गजाननमहर्निशम् |
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

पदविच्छेदनम्
अगजाननपद्मार्कम् गजाननम् अहर्निशम् अनेकदम् तम् भक्तानाम् एकदन्तम् उपास्महे |

शब्दान्वयः
अगजाननपद्मार्कम् भक्तानाम् अनेकदम् एकदन्तम् गजाननम् तम् अहर्निशम् उपास्महे |

शब्दार्थविवरणम्
न गच्छति अथवा भूमौ सुष्ठु स्थितः इति अगः इत्युक्ते पर्वतः | तस्य पुत्री अगजा इत्युक्ते पार्वती | तस्याः आननं मुखम् अगजानानम् इत्युक्ते पार्वत्याः मुखम् | पद्मं कमलपुष्पम् इव तत् मुखम् इति भावेन अगजाननपद्मम् | अर्कः इत्युक्ते सूर्यः | यथा सूर्ये सति अथवा दिनसमये कमलपुष्पं प्रफुल्लितं भवति तथा पुत्रे उपस्थिते माता हर्षिता भवति इति तु लोके प्रसिद्धः एव | यः पार्वत्याः मुखपद्मकृते सूर्य इव अस्ति सः अगजाननपद्मार्कः | तम् अगजाननपद्मार्कम् |
भक्त्या पूजयमानाः जनाः ते भक्ताः | तेषां भक्तानाम् |
अनेकानि वाञ्छितफलानि ददाति इति अनेकदः | तम् अनेकदम् |
एक एव दन्तः यस्य सः एकदन्तः | तम् एकदन्तम् | दन्तमेकम् उपयुज्य महाभरतादिग्रन्थलेखनं चकार इति एक एव दन्तः शेषः |
गज एव आननं यस्य सः गजाननः | तम् गजाननम् |
अहर्निशम् अह्नि दिने निशायां रात्रौ च | सर्वदा इत्यभिप्रायः |
उपास्महे उपासनां कुर्महे इत्युक्ते भजामहे |

English meaning of words:
अगजाननपद्मार्कम् = the one who is like sun to the lotus face of Goddess Paravati
भक्तानाम् अनेकदम् = the one who is bountiful to his devotees
एकदन्तम् = the single tusked
गजाननम् = one who has elephant face
तम् = him
अहर्निशम् = day and night
उपास्महे = we pray

We always pray Lord Ganesha who is like the sun to the lotus face of his mother Goddess Parvati, and one who has single tusk, and bountifully provides to his devotees.

पदरूपकोष्ठकः
पदम्
नामपदम्/क्रियापदम्/अव्ययम्
प्रातिपदिकम्/धातुः
लिङ्गम्
विभक्तिः-वचनम्/लकारः-पुरुषः
अगजाननपद्मार्कम्
ना
पु
द्वितीया एकवचनम्
गजाननम्
ना
गजानन
पु
द्वितीया एकवचनम्
अहर्निशम्
ना
अहर्निश
द्वितीया एकवचनम्
अनेकदम्
ना
अनेकद
पु
द्वितीया एकवचनम्
तम्
ना
पु
द्वितीया एकवचनम्
भक्तानाम्
ना
भक्त
पु
षष्ठी बहुवचनम्
एकदन्तम्
ना
एकदन्त
पु
द्वितीया एकवचनम्
उपास्महे
क्रि
उप+आस्
-
लट् प्रथमपुरुषः बहुवचनम्

संधिविवरणम्
अगजानन = अगज + आनन (सवर्णदीर्घसन्धिः)
पद्मार्कम् = पद्म + अर्कम् (सवर्णदीर्घसन्धिः)
पद्मार्कम् गजाननम् = पद्मार्कं गजाननम् (अनुस्वारसंधिः)
गजाननम् = गज + आननम् (सवर्णदीर्घसन्धिः)
अहर्निशम् = अहः + निशम् (विसर्गसंधिः)
एकदन्तम् = एकदं + तम् (परसवर्णसन्धिः)
उपास्महे = उप + आस्महे (सवर्णदीर्घसन्धिः)

समासविवरणम्
अगः = न गच्छति (नञ् बहुव्रीहिः)
अगजा = अगात् जाता (उपपदतत्पुरुषः)
अगजाननम् = अगजायाः आननम् (षष्ठीतत्पुरुषः)
अगजाननपद्मम् = अगजाननं पद्ममिव (कर्मधारयः)
अगजाननपद्मार्कः = अगजाननपद्माय अर्कः यः सः (बहुव्रीहिः)
गजाननः = गजस्य आननम् इव आननं यस्य सः (बहुव्रीहिः)
अहर्निशम् = अहः च निशा च (द्वन्द्वः)
अनेकदः = अनेकान् दः (द्वितीयातत्पुरुषः)
एकदन्तः = एकः दन्तः यस्य सः (बहुव्रीहिः)

छन्दोविवरणम्
अनुष्टुप् छन्दः इति स्पष्टम् |
UU_ UU_ _ _ U_UUU_ U_
अगजाननपद्मार्कं गजाननमहर्निशम् |
U_UU U  _ _  _ _ U_ UU _ U_
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

अलङ्कारः
अगजाननपद्मार्कम् इति शब्देन रूपकालङ्कारस्तु विबुध्यते |

रसः
विघ्नहर्तागणेशदेवताकः श्लोकोऽयं भक्तिरसमयः |

Sunday, September 4, 2016

Varaha Avatara Story

वराहावतारस्य कथा
(श्रीमद्भागवतपुराणे तृतीयस्कन्धोपस्था)


वराहावतारः श्रीविष्णुभगवतः प्रसिद्धेषु दशावतरेषु तृतीयः अवतारः | आसीत् पुरा कश्यपो नाम मुनिवरः | दिति इति तस्य द्वितीया भार्या | कारणान्तरेण सप्तर्षिभिः शप्तौ वैकुण्ठद्वारपालकौ जयविजयौ दितिगर्भे हिरण्यकशिपुः हिरण्याक्षश्चेति नामभ्यां संजातौ | तावुभौ महाबलशालिनावपि शापप्रभावात् साधुजनपीडकौ लोककण्टकौ बभूवतुः | हिरण्यकशिपुः ब्रह्मवरात् अवध्यः मदोन्मत्तः सर्वान् पीडयति स्म | हिरण्याक्षः स्वभ्रातरमनुसृत्य इन्द्रादिसुरपीडकः सर्वलोकभयङ्करो भूत्वा व्यजृम्भत | तस्य प्रहारभयात् पृथिवी अपि महासमुद्रे लुप्ता बभूव | हिरण्याक्षः सिंहगर्जनां कुर्वन् सागरं प्रविश्य महाकोलाहलमन्वरचयत | सः बलोन्मत्तः समुद्राधिपतिवरुणं युद्धाय आह्वयत् | वरुणस्तु अतिभीतः प्राञ्जलिः युद्धाह्वानं तिरस्कुर्वन् श्रीहरिरेव हिरण्याक्षेण युद्धं कर्तुं योग्यः इति उवाच | हिरण्याक्षः तदा प्रमत्तः युयुत्सुः श्रीहरिदिदृक्षमाणः रसातलमधिगम्य महानादं चकार |

varaha1.jpg

खलहिरण्याक्षात् विश्वः प्रक्षुब्धे सति इन्द्राद्यमरनिकरः चतुर्मुखब्रह्माणमुपगम्य पातुं प्रार्थयामास | चतुर्मुखः अनाद्यनन्तं रमापतिं श्रीमन्नारायणं ध्यातवान् | ब्रह्मरुद्रादिवन्द्यः श्रीमन्नारायणः ब्रह्मणः नासिकापुटात् सूक्ष्मशरीरं धृत्वा वराहरूपेण प्रकटो बभूव | ब्रह्मनासिकात् बहिरागत्य अचिरेण स्वशरीरं वर्धयन् गदापाणिः वराहः रसातलं प्राविवेश | हिरण्याक्षः तन्महागात्रं विचित्ररूपं भयङ्करगर्जन्तं वराहं दृष्ट्वा तमेव दैत्यरिपुः श्रीहरिरिति विवेद | स दैत्यपुङ्गवः वराहेण सह स्वशक्तिमवलम्ब्य गदायुद्धं मुष्टियुद्धं च कर्तुं प्रावर्तत | वराहरूपी नारायणः सर्वशक्तिमानपि दर्पान्धेन हिरण्याक्षेण सह अल्पकालं क्रीडां नटन् तं बहु श्रामयामास | हिरण्याक्षः मतिभ्रमः अदृश्यभूतः मायायुद्धं कृतवान् | वराहस्तदा स्फुलिङ्गस्रावयतेन सुदर्शनचक्रेण मायां क्षणमात्रे दूरीकृतवान् | क्रुद्धः हिरण्याक्षः अग्निमुखपतितोद्युक्तपतङ्ग इव वराहं प्रति धावन् श्रीवक्षस्थलं प्राहरत् | समुपस्थितं हिरण्याक्षं वराहः तस्य कपालमूले आघातवान् | तदैव स महादैत्यः भग्नशरीरः मृतप्रायोऽभवत् | दैत्ये मृते ब्रह्मादिगणः सहर्षेण पुष्पवृष्टिं चकार | वराहः रसातलात् पृथिवीं उधृत्य पुनः सुस्थाने स्थापितवान् | अतः सः भूवराहः इत्यपि लोके प्रसिद्धोऽस्ति |




विशेषटिप्पणी
कतिपयविद्वांसः एतत्प्रसंगस्य वैज्ञानिकविवरणं कर्तुं प्रयतन्ते यथा -
अस्यायां कथायामुक्तः महासागरः वस्तुतः जलसागरः नास्ति, परन्तु कश्चित् पदार्थः अस्ति यस्मिन् विश्वे सर्वे ग्रहनक्षत्रादीनि तरन्तः सन्ति | अस्माकं भूग्रहोऽपि आकाशे अस्मिन् पदार्थे स्वकक्षामनुसृत्य परिभ्रमति | कस्माच्चित् कारणात् आकर्षणशक्तिव्यत्यासात् भूग्रहः तत्कक्षायाः पतितः यत् पृथिव्यां बहुजीवहानिरभवत् | तदा विश्वनियामकमहाशक्त्या भूग्रहः पतितकक्षायाः उधृत्य पूर्वस्थकक्षायां स्थापितः |
Reference: https://www.youtube.com/watch?v=DJsMdtWAdP8 (lecture in Kannada language by Bannanje Govindacharya)
Worlds in Collision by Immanuel Velikovsky https://en.wikipedia.org/wiki/Worlds_in_Collision