Tuesday, September 27, 2016

Kanakadasa Story (शिष्यपरीक्षा)

कनकदासकथा
शिष्यपरीक्षा

षोडशक्रिस्तशताब्दे दक्षिणभारतदेशे व्यासतीर्थः इति महायतिः आसीत् | सः यतिः सकलवेदशास्त्रेषु पारङ्गतः महान्तं गुरुकुलमेकं संचालयति स्म | तस्मिन् प्रसिद्धे गुरुकुले अध्ययनार्थे देशविदेशेभ्यः आगाताः बहवः छात्राः तथा अध्यापनार्थे अनेके पण्डिताः च निवसन्ति स्म |

तद्गुरुकुलम् एकः मेषपालः प्रतिनित्यमागत्य बहु श्रद्धया शास्त्रश्रवणं करोति स्म | कनकः इति तस्य नाम | व्यासतीर्थाय कनकस्य शास्त्रविषये अभिरुचिः रोचते स्म | अन्ये छात्राः तं दृष्ट्वा एषः तु अजमेषादिपालयितुं योग्यः वेदशास्त्रादीन् कथमवगच्छतीति उपहासमकुर्वन् |

व्यासतीर्थः एकदा सर्वान् शिष्यान् आहूय प्रत्येकम् एकं कदलीफलं दत्वा यत्र केनापि न दृश्यते तादृशे स्थले तत्फलं खादितुम् अवदत् | सर्वे अन्तेवासिनः इतस्ततः अटन्तः विजनस्थले फलानि भक्षयित्वा प्रत्यागच्छन् | कनकः फलसहितः एव आगतः | तद्दृष्ट्वा छात्राः एषः कनकः तु अतिमूढः गुरुणोक्तं एतावत् सुलभकार्यमपि न कर्तुं शक्नोति इति अपहासम् अकुर्वन् | गुरुव्यासतीर्थः सर्वान् फलविषये अपृच्छत् | एकः वृक्षस्य उपरि गत्वा फलं खादितमिति अवदत् | अन्यः वने गत्वा खादितमिति | अपरः गृहस्य पृष्ठतः गत्वा इति | गुरुः कनकमपि अपृच्छत् | कनकः बद्धाञ्जलिः अहमपि वनं गृहं कूपीं सर्वत्र अगच्छम् | परन्तु सर्वत्र मया भगवान् दृष्टः | भगवति पश्यति सति कथमहं फलं खादेयमिति कनकः अवदत् | तच्छ्रुत्वा परमप्रीतः व्यासतीर्थः कनकस्य अवज्ञा न कर्तव्या परन्तु तस्य भगवद्भक्तिनिष्ठा सर्वैः अनुकरणीया इति शिष्यगणम् अबोधयत् |

सः कनकः एव कनकदासः इति प्रख्यातः भगवल्लीलापराणि सुबहूनि काव्यानि रचयित्वा जनेषु भक्तिप्रचारमकरोत् |

No comments:

Post a Comment