वराहावतारस्य कथा
(श्रीमद्भागवतपुराणे तृतीयस्कन्धोपस्था)
वराहावतारः श्रीविष्णुभगवतः प्रसिद्धेषु दशावतरेषु तृतीयः अवतारः | आसीत् पुरा कश्यपो नाम मुनिवरः | दिति इति तस्य द्वितीया भार्या | कारणान्तरेण सप्तर्षिभिः शप्तौ वैकुण्ठद्वारपालकौ जयविजयौ दितिगर्भे हिरण्यकशिपुः हिरण्याक्षश्चेति नामभ्यां संजातौ | तावुभौ महाबलशालिनावपि शापप्रभावात् साधुजनपीडकौ लोककण्टकौ बभूवतुः | हिरण्यकशिपुः ब्रह्मवरात् अवध्यः मदोन्मत्तः सर्वान् पीडयति स्म | हिरण्याक्षः स्वभ्रातरमनुसृत्य इन्द्रादिसुरपीडकः सर्वलोकभयङ्करो भूत्वा व्यजृम्भत | तस्य प्रहारभयात् पृथिवी अपि महासमुद्रे लुप्ता बभूव | हिरण्याक्षः सिंहगर्जनां कुर्वन् सागरं प्रविश्य महाकोलाहलमन्वरचयत | सः बलोन्मत्तः समुद्राधिपतिवरुणं युद्धाय आह्वयत् | वरुणस्तु अतिभीतः प्राञ्जलिः युद्धाह्वानं तिरस्कुर्वन् श्रीहरिरेव हिरण्याक्षेण युद्धं कर्तुं योग्यः इति उवाच | हिरण्याक्षः तदा प्रमत्तः युयुत्सुः श्रीहरिदिदृक्षमाणः रसातलमधिगम्य महानादं चकार |
खलहिरण्याक्षात् विश्वः प्रक्षुब्धे सति इन्द्राद्यमरनिकरः चतुर्मुखब्रह्माणमुपगम्य पातुं प्रार्थयामास | चतुर्मुखः अनाद्यनन्तं रमापतिं श्रीमन्नारायणं ध्यातवान् | ब्रह्मरुद्रादिवन्द्यः श्रीमन्नारायणः ब्रह्मणः नासिकापुटात् सूक्ष्मशरीरं धृत्वा वराहरूपेण प्रकटो बभूव | ब्रह्मनासिकात् बहिरागत्य अचिरेण स्वशरीरं वर्धयन् गदापाणिः वराहः रसातलं प्राविवेश | हिरण्याक्षः तन्महागात्रं विचित्ररूपं भयङ्करगर्जन्तं वराहं दृष्ट्वा तमेव दैत्यरिपुः श्रीहरिरिति विवेद | स दैत्यपुङ्गवः वराहेण सह स्वशक्तिमवलम्ब्य गदायुद्धं मुष्टियुद्धं च कर्तुं प्रावर्तत | वराहरूपी नारायणः सर्वशक्तिमानपि दर्पान्धेन हिरण्याक्षेण सह अल्पकालं क्रीडां नटन् तं बहु श्रामयामास | हिरण्याक्षः मतिभ्रमः अदृश्यभूतः मायायुद्धं कृतवान् | वराहस्तदा स्फुलिङ्गस्रावयतेन सुदर्शनचक्रेण मायां क्षणमात्रे दूरीकृतवान् | क्रुद्धः हिरण्याक्षः अग्निमुखपतितोद्युक्तपतङ्ग इव वराहं प्रति धावन् श्रीवक्षस्थलं प्राहरत् | समुपस्थितं हिरण्याक्षं वराहः तस्य कपालमूले आघातवान् | तदैव स महादैत्यः भग्नशरीरः मृतप्रायोऽभवत् | दैत्ये मृते ब्रह्मादिगणः सहर्षेण पुष्पवृष्टिं चकार | वराहः रसातलात् पृथिवीं उधृत्य पुनः सुस्थाने स्थापितवान् | अतः सः भूवराहः इत्यपि लोके प्रसिद्धोऽस्ति |
विशेषटिप्पणी
कतिपयविद्वांसः एतत्प्रसंगस्य वैज्ञानिकविवरणं कर्तुं प्रयतन्ते यथा -
अस्यायां कथायामुक्तः महासागरः वस्तुतः जलसागरः नास्ति, परन्तु कश्चित् पदार्थः अस्ति यस्मिन् विश्वे सर्वे ग्रहनक्षत्रादीनि तरन्तः सन्ति | अस्माकं भूग्रहोऽपि आकाशे अस्मिन् पदार्थे स्वकक्षामनुसृत्य परिभ्रमति | कस्माच्चित् कारणात् आकर्षणशक्तिव्यत्यासात् भूग्रहः तत्कक्षायाः पतितः यत् पृथिव्यां बहुजीवहानिरभवत् | तदा विश्वनियामकमहाशक्त्या भूग्रहः पतितकक्षायाः उधृत्य पूर्वस्थकक्षायां स्थापितः |
Reference: https://www.youtube.com/watch?v=DJsMdtWAdP8 (lecture in Kannada language by Bannanje Govindacharya)
Worlds in Collision by Immanuel Velikovsky https://en.wikipedia.org/wiki/Worlds_in_Collision
No comments:
Post a Comment