Sunday, May 28, 2017

Maharana Pratap (महाराणा प्रतापः)

क्रैस्तशकस्य षोडशशतमाने भारतदेशस्य वायव्यभागस्य राजस्थानप्रदेशे राजपूतकुलस्य उदयसिंहः नाम राजा आसीत् | सः कालः भारते मुघलराजवंशस्य उच्छ्रायकालः | तस्य वंशस्य प्रसिद्धः राजा अकबरः देहलीनगर्यां राज्यभारं करोति स्म | भारतस्य विशालभागः राज्ञः अकबरस्य स्वाधीने अवर्तत | सः राजस्थानप्रदेशे अपि आक्रमणं कृत्वा उदयसिंहस्य राजधानीं चित्तोरनगरीं जितवान् | नगरभ्रष्टः उदयसिंहः चित्तोरनगरं परित्यज्य उदयपुरनगरं गत्वा ततः मेवारराज्यस्य अनुशासनम् अकरोत् | तस्य मरणानन्तरं १५७२तमे वत्सरे ज्येष्ठपुत्रः प्रतापसिंहः मेवारस्य राजसिंहासनम् अलञ्चकार महारणा इति बिरुदाङ्कितवान् च | प्रतापसिंहः स्वदेशप्रेमी आसीत् | अकबरः चित्तोरनगरं जितवान् परन्तु मेवारराज्यं तस्य अधीने नासीत् | अकबरः अनेकवारं स्वमन्त्रिगणान् प्रतापसिंहस्य समीपे प्रेषयित्वा विनायुद्धमेव तस्य शरणागतिं अपेक्षितवान् | प्रतापसिंहः अकबरस्य परिसूचनाः सर्वथा निराकरोत् |

अकबरस्य आक्रमणं प्रतीक्षमाणः प्रतापसिंहः पर्वतप्रदेशस्थितं कुम्भलगढनगरं शासनकेन्द्रं कृत्वा युद्धसिद्धतां चकार | अनेके ग्राम्यजनाः तस्य सेनायां सैनिकरूपेण प्रशिक्षिताः | समीपस्थाः अन्ये केचन नृपाः अपि प्रतापसिंहस्य साहाय्यं चक्रुः | १५७६तमे वत्सरे महत्या मुघलसेनया सह प्रतापसिंहस्य सैन्यस्य हल्दिघाटप्रदेशे घोरयुद्धमभवत् | प्रतापसिंहस्य सेना न पराजितः परन्तु मुघलसैन्येन परिवृतः | प्रतापसिंहः ततः सुरक्षितप्रदेशं निर्जगाम | तदनन्तरं अकबरः मेवारराज्यं जेतुं अनेकवारं प्रायतत प्रतिवारं विफलो बभूव | १५८७ वत्सरानन्तरं कारणान्तरेण अकबरस्य लक्ष्यं भारतस्य अन्यप्रदेशेषु केन्द्रीकृतम् | तदेव समयं साधयित्वा प्रतापसिंहः केषुचन वर्षेषु मेवारराज्यस्य बहुभागं मुघलाधीनतः पुनः जितवान् | अस्मिन् समये तस्य नूतना राजधानी आसीत् चावण्डनगरी | १५९७तमे वत्सरे प्रतापसिंहः मृगयाविहारं गतः अत्यन्तं व्रणितः मरणं प्राप्तः |

प्रतापसिंहस्य देशभक्तिः शौर्यं स्थैर्यं च युगयुगान्तरेषु जनेभ्यः स्फूर्तिदायकाः सन्ति |

Sunday, May 14, 2017

The Best Way to Learn a Language

Language is a very special skill that appears to be gifted only to the human race on this earth. Other species of living beings may be having their own ways of communication. But the language as we understand is so special and sophisticated tool used by only the humans. Yet most of us take it as granted as we learn it in our childhood. As per some sources, there are about 6,500 spoken languages in the world. Many people know more than one language - for various reasons like an academic interest, just a hobby, to impress others, or to gain an advantage during travel or business etc. Accordingly, learners of languages are spread across all age groups and demographics.

The question that comes to every language learner: what is the best or fastest way to learn a language? Just like most of the questions in life, there is no definitive answer for this one too. Experts differ widely on this matter. Let us look at these main views here.

Language learning could involve one or more of the four skills - listening (and understanding), speaking, reading and writing. And there could be various approaches to master these skills depending on one's goals and interest.

The Baby-Way
Some experts say the easiest way to learn a language is "follow the baby-way". Babies learn a language by continuously listening to the words spoken around them and by picking up the visual clues by associating the actions happening with those words. And they start repeating the words to improve the communication with those around them. (At least, this is the theory. There is no decisive way to know how baby brains work). So the steps in this learning process are:

Listen and See -> Speak -> Read -> Write

A new-born baby usually starts to speak its first words in about 10 months, after seeing and listening to thousands of show and tell sequences during that period. The experts professing this method emphasize that this is the natural way - even for adults. They debunk the theory that more the age, it is more difficult to learn a new language. Per them, any person can learn a language quickly by following this progression.

The Adult-Way
The other group of experts identify the differences between the way babies learn a language and the challenges faced by adults. They also refer to the studies that indicate the decrease in the language-learning abilities as a person gets older. The main reason for this challenge is that an adult mind is no more a baby's mind - not as clean and receptive. During the course of time, the brain gets wired, influenced by numerous factors - like culture, geography, education, experience, and other languages already learnt. That does not mean it is difficult to learn a language at a later stage in life. Instead, the experts of this group advise the learners to take advantage of their adulthood. They say that unlike a baby, making use of skills they possess - like reading/writing and the tools they have access to  - like books, teachers, groups, online resources etc, would actually speed up the learning and quickly get past the initial show-and-tell confusions of language constructs.

Read (books) ->    Person   <- See (actions/videos)
Write (papers) ->                <- Speak (teachers/group)

The Best Way?
So, is there one way better than the other? Language is an art and there is no good or bad way for learning it. Probably, a learner has to try a combination of approaches, keeping in mind the purpose of learning, time available, different resources accessible and what works for self. Adapt and improvise as one progresses through this journey.

Tuesday, May 9, 2017

नरसिंहावतारकथा (Story of Narasimha)

आसीत् बहुकालपूर्वं हिरण्याक्षहिरण्यकशिपुनामकदैत्यश्रेष्ठौ लोककण्टकौ मुनिजनपीडकौ | अवनिमर्दकः हिरण्याक्षः वराहरूपिणा श्रीहरिणा युद्धे हतः | तदा हिरण्यकशिपुः हरौ संक्रुध्य स्वभ्रातुः हननप्रतिकारार्थं अत्युग्रतपः कर्तुं गिरिमेकं जगाम | तत्समये हिरण्यकशिपोः पत्नी गर्भवती आसीत् | हिरण्यकशिपुः तपसि निरते सति सुराधिपतिः इन्द्रः दैत्यगणान् विजित्य तस्याः पत्नीं कयाधुं हन्तुमुद्युक्तः | तदा देवर्षिः नारदः तत्रागत्य गर्भस्थशिशुः सात्विकः इति बोधयित्वा इन्द्रं स्त्रीहननकार्यात् विमुखम् अकारयत् | ततः नारदः इन्द्रेन मोचितायै कयाधवे हिरण्यकशिपोः आगमनपर्यन्तं स्वाश्रमे एव वासावसकाशं चकार | नारदमहर्षिः प्रतिदिनं कयाधुं विष्णोः भक्तिपूर्णकथाः श्रावयति स्म | ताः सर्वाः कथाः भागवततत्त्वं च गर्भस्थशिशुः संश्रुत्य अवगत्य भगवद्भक्तिपरायणोऽभवत् | अल्पकालानन्तरं कयाधुः सुन्दरशिशुमेकम् अजीजनत् | तस्य शिशोः प्रह्लाद इति नामकरणम् अभवत् |

अपरत्र हिरण्यकशिपोः तपोज्वालया संतप्तः सुरगणः चतुर्मुखब्रह्माणं आश्रितः | परमेष्ठी कमलासनः हिरण्यकशिपुं संदर्श्य यथेप्सितं वरं याचितुं उवाच | हिरण्यकशिपुः चतुर्मुखदर्शनेन परमहर्षितः तस्य प्रजापतेः केनचिदपि सृष्टिना अपि च न दिने न रात्रौ न आकाशे न भुवौ न गृहान्ते न बहिः न केनापि शस्त्रास्त्रेण स्वस्य मरणं न स्यात् इति अभूतपूर्ववरं अयाचत | चतुर्मुखः अदेयोऽपि इमं वरं ददामीति उक्त्वा अन्तर्दधान | कयाधुना तथा पुत्रप्रह्लादेन सह स्वनगरीं पुनरागत्य हिरण्यकशिपुः दैत्यसिंहासने विराजमानोऽभूत् | ब्रह्मवरबलात् अजेयः सः त्रिलोकेषु हाहाकारं जनयामास | यज्ञपूजादिकार्याणि हरिपराणि इति सः यजमानान् मुनिजनान् बहुधा पीडयामास | सर्वत्र स्वयमेव परमो देवः इति घोषणामपि चकार | इन्द्रादिदेवताः भयात् स्वर्गम् अत्यजन् | सर्वैः साधुगणैः त्राहि त्राहीति प्रार्थ्यमानः क्षीराब्धिशयनः श्रीमन्नारायणः दैत्यस्य अवसानः कालान्तरे भविष्यतीति अभयं प्रददौ |

पुत्रप्रियः हिरण्यकशिपुः बालकप्रह्लादं अभ्यसनार्थे दैत्यगुरुकुलं प्रेषयामास | तस्मिन् गुरुकुले दैत्यगुरुभिः हिरण्यकशिपुरेव परं दैवतं अन्यो देवो नास्तीति उपदेशः प्रचलति स्म | तदुपदेशं निराकृत्य प्रह्लादः श्रीहरिरेव जगतः परं दैवतमिति प्रत्यपादयत | चकिताः दैत्यगुरवः तद्विषयं हिरण्यकशिपुं न्यवेदयन् | हिरण्यकशिपुः प्रीत्या स्वपुत्राय हरिद्वेषं अवगमयितुं प्रायतत | परन्तु प्रह्लादस्य मनःपरिवर्तनं सुतरां नाभवत् | तदा परमक्रुद्धः दैत्येन्द्रः पुत्रस्य विनाशं कर्तुमिच्छन् बालकस्य पर्वतशिखरात् पातनं वह्नौ दाहनं गजपदतले मर्दनम् इत्यादीन् उपायान् कृतवान् | ते सर्वे उपायाः विफला बभूवुः | भगवत्प्रसादेन प्रह्लादाय ईषदपि क्लेशः नाभवत् |

तदा इतोऽपि क्रुद्धः हिरण्यकशिपुः प्रह्लादं पप्रच्छ तव स्वामी कथं कुत्रापि न दृश्यते इति | प्रह्लादः पितरं उवाच श्रीहरिः न केवलं  मम स्वामी परन्तु तवापि स्वामी संपूर्णजगतः प्रभुः सर्वत्र सर्वभूतेषु सर्वपदार्थेषु विद्यते इति | कुटिलनेत्रः हिरण्यकशिपुः तदा समीपस्थस्तम्भं निर्दिश्य पृष्टवान् किं सः हरिः अस्मिन् स्तम्भेऽपि वर्तते इति | प्रह्लादः हरिः स्तम्भेऽपि वर्तते एव इति उत्तरम् अददात् | कुपितः हिरण्यकशिपुः तत्स्तम्भस्युपरि दारुणमुष्टिप्रहारं चकार | स्तम्भः भग्नः | भग्नस्तम्भात् भीकरशब्दसहिता नरशरीरं सिंहमुखं धृत्वा अभूतपूर्वा विचित्राकृतिः प्रादुरभवत् | भयङ्करमूर्तिं विलोक्य हिरण्यकशिपुः एषः एव मायारूपी दैत्यारिः हरिः इति विदित्वा गदाखड्गपाणिः तं प्रति अधावत् | उग्ररूपी नरसिंहः दैत्यपुङ्गवं अतिलीलया उधृत्य राजभवनद्वारसोपने उपविश्य स्वस्य ऊरुयुग्मोपरि तं निधाय वज्रसमाननखैः हिरण्यकशिपोः उदरं व्यदारयत् | तदा संध्याकालः अपि आसीत् | अतः सर्वरीत्या ब्रह्मवरस्य समाधानमपि अभवत् | तथापि देवनृसिंहस्य उग्रता शान्ता नाभवत् | ब्रह्मरुद्रादि देवाः मुनिगणाः सिद्धाः चारणाः अपि स्तोत्रैः देवादिदेवस्य उग्रतां शामयितुं न शक्नुवन् | लक्ष्मीदेवी अपि तस्य शमनार्थं बालकप्रह्लादमेव प्रेषयितुमैच्छत् | भक्तप्रह्लादः निष्कलङ्कमनसा नृसिंहस्य सुन्दरस्तोत्रमालामेव विरचयन् तस्य पादकमलं संपूजयत | तस्य भक्त्या प्रसन्नः नृसिंहः प्रह्लादं वरं याचितुम् अवदत् | प्रह्लादः हरिपादयोः अनवरतभक्तिं विना किमपि न याचे इति उवाच | तथापि एकं वरं याचितुं हरिणा प्रचोदितः सः स्वपितरं उत्तमगतिर्भवतु इति प्रार्थयत | नृसिंहरूपी हरिः तथास्त्वित्युक्त्वा प्रह्लादं राजपदवीं प्रदाय अन्तर्दधान |

अस्मिन् परमाद्भुताख्याने अनेके तत्त्वांशाः ग्रथिताः | हिरण्यकशिपुः अहं ब्रह्मेति अहंकारगुणस्य द्योतकः | तद्भ्रमं दूरीकर्तुं भागवततत्त्वज्ञानं प्रतिष्ठितुं मायावादभञ्जकस्य कुजनहृदयविप्लवस्य नृसिंहरूपस्य अवतारः | चतुर्मुखस्य वरसमाधानार्थं तथा लोकोपद्रवं निवारयितुं अचिन्त्यसामर्थ्यप्रदर्शनहेतुः अवतारः अयम् | तामसेभ्यः अत्युग्रोऽपि निष्कामभक्तेभ्यः परमकरुणाकरः श्रीहरिः इति उद्घोषमाणा कथा इयं परमपवित्रा |

(श्रीमद्भागवतपुराणाधारितमिदं आख्यानम्)