Saturday, October 30, 2021

सौरमण्डलम् - लघुपरिचयः Solar System - Short Introduction


सौरमण्डलम् इत्युक्ते सूर्यस्य मण्डलम् । सूर्यस्य कुटुम्बः । 

सौरमण्डले अस्माकं वासस्थानं भूग्रहः अथवा भूमिः । भूग्रहस्य विषये केचन अंशाः -

भूग्रहस्य वयः प्रायेण पञ्चचत्वारिंशत् कोटिः संवत्सराः । इत्युक्ते भूग्रहस्य जन्म पञ्चचत्वारिंशत् कोटिसंवत्सरपूर्वम् अभवत् । अस्य ग्रहः वायुमण्डलेन आवृतः । अस्माकं वायुमण्डले पञ्चांशभागः आम्लजनक इति अनिलः विद्यते । अतः एव बहुशः प्राणिनां जीवधारणं साध्यम् ।

भूग्रहस्य पादोनपृष्ठभागः समुद्रनदीसरोवरादिजलेन आवृतः । जलगर्भेऽपि बहवः जीवजन्तवः वसन्ति । कन्दुकसदृशः गोलाकारः अयं भूग्रहः सूर्यं परितः परिभ्रमति । सूर्यं परितः भूमेः एकः परिभ्रमणकालः एकः संवत्सरः इत्युच्यते । कन्दुकसदृशः गोलाकारः अयं भूग्रहः स्वस्य अक्षं परितः अपि परिक्राम्यति । अस्य अक्षपरिक्रमणावधिः एकं दिनम् इति उच्यते । अस्माकं प्रियग्रहस्य अस्य एकः उपग्रहः विद्यते । स एव सुन्दरः चन्द्रः ।

सूर्यः एकः स्वयं प्रकाशितः आकाशकायः । नक्षत्रविशेषः । तस्य कुटुम्बे नव ग्रहाः सन्ति । अस्माकं सौरमण्डले नवग्रहाः एताः -

बुधः शुक्रः भूमिः मङ्गलः गुरुः शनिः युरेनस् नेप्च्यून् प्लुटो चेति । सौरमण्डले न केवलं ग्रहाः परन्तु अन्येऽपि आकाशकायाः वर्तन्ते । यथा कुब्जग्रहाः उल्काः धूमकेतवः इत्यादयः । सौरमण्डले सूर्यः केन्द्रस्थाने भवति । सौरमण्डलवर्तिनः सर्वे आकाशकायाः सूर्यं केन्द्रीकृत्य आकाशे प्लवन्ते । एते ग्रहाः सूर्यं परितः पृथक् पृथक् दूरेषु प्रायेण वृत्ताकारे परिभ्रमन्ति । 

विशालप्रायं सौरमण्डलम् इदं नक्षत्रपुञ्जस्य एकस्य एकः अल्पभागः । नक्षत्रपुञ्जस्य अस्य नाम क्षीरगङ्गा इति । अस्माकं सौरमण्डलम् क्षीरगङ्गायाः केन्द्रस्थानं परितः भ्रमति । अस्मिन् नक्षत्रपुञ्जे चत्वारः खर्वाः (400 billion)नक्षत्राणि अनेके ग्रहाः उपग्रहाः आकाशकायाः वर्तन्ते ।

विशालप्रायः क्षीरगङ्गानक्षत्रपुञ्जः अपि विश्वस्य कणमात्रभागः । विश्वे प्रायः शतद्वयं शतकोटिः नक्षत्रपुञ्जाः वर्तन्ते इति विज्ञानिनां ऊहनम् । केचन विज्ञानिनः न केवलम् एकं विश्वं परन्तु अनेकानि विश्वानि विद्यन्ते इत्यपि वदन्ति ।

अहो । ऊहातीतोयं ब्रह्माण्डस्य परिमाणः । अद्भुतः तस्य व्यापरः ।  सर्वस्यास्य को हेतुः किमर्थं परिभ्रमन्ति आकाशे । सृष्टिस्थितिलयं किमर्थं गच्छति । को वा पृथिव्यां जीवजन्तूनाम् जीवनलक्ष्यम् । अस्य अनन्तरूपस्य विश्वस्य विश्वनियामकस्य संकीर्तनाय कुतो वयं समर्थाः । अत एव उच्यते -

अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥

(ईशोपनिषत्)

This is also available on YouTube.