Friday, November 4, 2016

एमी मलिन्स (Aimee Mullins) कथा

एमी मलिन्स (Aimee Mullins) कथा
एमी मलिन्स अमेरिकादेशस्य एका प्रसिद्धा स्पर्धालुः, अभिनेत्री तथा नव्यतादर्शिनी (fashion model) वर्तते | क्रि.श. १९७६ मध्ये संजाता सा एकवर्षीयशैशवे एव कस्माच्चित् दोषकारणात् द्वावपि जानुभ्यामधोः पादौ वैद्यैः शरीरात् विभक्तौ | तथापि एमी बाल्यावस्थामेव क्रीडादिषु अभ्यासमारभत | विद्यालये मृदुकन्दुकक्रीडायां (softball) हिमविसर्पणक्रियायां (skiing) निपुणा आसीत् सा | विश्वविद्यालयतः पेन्टगान् संस्थायां छात्रवृत्तिं कृतवती | ११९६ शके एमी विकल्प-ओलिम्पिक्सक्रीडामहोत्सवे धावनस्पर्धायां तथा दीर्घकूर्दनस्पर्धायां स्पर्धालुः अभवत् |

प्रश्नः उद्भवति | पादविहीना एमी एतत् सर्वं धावनादिकार्यं कर्तुं कथं समर्था अभवत् ?
असाधारणां इच्छाशक्तिं प्रदर्शयन्ती सा मानवनिर्मितौ पादौ धारयित्वा एतत् सर्वं अभूतपूर्वं कार्यं कृतवती | एमी स्पर्धालोके बहून् सम्मानान् प्राप्तवती | नटनप्रिया सा कतिपयचलनचित्रेषु अपि अभिनयं कृतवती | अन्यच्च सा नव्यवस्त्रप्रदर्शनजगति प्रख्याता अस्ति | अत्युत्तमभाषिका सा देशेष्वनेकेषु स्फूर्तिदान् भाषणान् ददाति | तस्याः समीपे अनेके कृत्रिमपादयुगलाः सन्ति | विभिन्नशैलियुक्तान् नाना औन्नत्यात्मिकान् तान् पादयुगलान् उपयुज्य एमी मेलनादिषु रंरम्यते |

पुरुषे वा स्त्रियां प्रयत्नशीले सति किमशक्यं जगति ?

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं |
दुष्करं सुकरं भवति प्रयत्नः श्रेयकारकः ||