Tuesday, April 27, 2021

विभक्तिदर्शकश्लोकाः ९ - Verses with Declension 9 हनुमत्


 हनुमान् जगतः प्राणो जज्ञे रामपरायणः |

हनुमन्तमुपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रो हरिणा सजुः |

हनुमते ददौ रामः सीतार्थमङ्गुलीयकम् |

हनुमतः पराजिता दैत्यास्तीर्त्वा सरित्पतिम् ||

हनुमतः मतं गत्वा महीं प्राप विभीषणः |

हनुमति हरिः प्रीतो लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समो नास्ति ज्ञानमुक्तिप्रदायक ||


पदच्छेदः (Word Separation): words with vibhaktis highlighted

हनुमान् जगतः प्राणः जज्ञे रामपरायणः |

हनुमन्तम् उपागम्य प्रणताः शैशवे सुराः ||

हनुमता सहायेन हरीन्द्रः हरिणा सजुः |

हनुमते ददौ रामः सीतार्थम् अङ्गुलीयकम् |

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् ||

हनुमतः मतम् गत्वा महीम् प्राप विभीषणः |

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् |

हनुमन् त्वत्समः नास्ति ज्ञानमुक्तिप्रदायक ||


सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)

हनुमान् जगतः प्राणः   hanumAn is world's vital strength. रामपरायणः  जज्ञे He was born to serve rAma.

शैशवे हनुमन्तम् उपागम्य सुराः प्रणताः In (his) babyhood, the gods went near hanumAn and bowed to him.

हनुमता सहायेन हरीन्द्रः हरिणा सजुः  With the help of hanumAn, the king of monkeys (sugrIva) became friend with hari (rAma).

रामः सीतार्थम् अङ्गुलीयकम् हनुमते ददौ rAma, for sItA, gave the ring to hanumAn.

हनुमतः पराजिताः दैत्याः तीर्त्वा सरित्पतिम् Because of hanumAn, the demons were defeated, as he crossed the king of water bodies (ocean).

हनुमतः मतम् गत्वा विभीषणः महीम् प्राप By having the same opinion as hanumAn, vibhIShaNa obtained the land (kingdom).

हनुमति हरिः प्रीतः लक्ष्मीः प्रीता निरन्तरम् hari is always pleased with hanumAn, (and so) lakShmIH is pleased (with hanumAn)

हनुमन् ज्ञानमुक्तिप्रदायक त्वत्समः नास्ति (O) hanumAn, (O) the giver of knowledge and salvation, there is no one like you.

(मूलम् - स्वरचितम् Source - Self)

This is also available on this page.


Tuesday, April 6, 2021

गजेन्द्रमोक्षः - भागवतकथा Liberation of Elephant


एकस्मिन् सुन्दरवने एकः गजः कुटुम्बेन सह निवसति स्म । सः गजः एकदा सरोवरम् आगतवान्। गजः जले आनन्देन क्रीडितवान् ।

तत्र एकः मकरः आगच्छत् । मकरः गजस्य पादं गृहीतवान् । गजः बलवान् अपि मकरं निवारयितुं समर्थः न अभवत् । बहुकालं तयोः युद्धम् अभवत् । अन्ते गजः रक्षणार्थं भगवतः विष्णोः स्तोत्रम् अकरोत् ।

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।

अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।

नमो गिरां विदूराय मनसश्चेतसामपि ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।

पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति ।

किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेदभ्रदयो विमोक्षणम् ॥

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।

अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥

तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।

अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।

विश्वात्मानमजं ब्रह्म प्रणतोस्मि परं पदम् ॥

योगरन्धितकर्माणो हृदि योगविभाविते ।

योगिनो यं प्रपश्यन्ति योगेशं तं नतोस्म्यहम् ॥

नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।

तं दुरत्ययमाहात्म्यं भगवन्तं नतोस्म्यहम् ॥

गजेन्द्रस्य स्तोत्रं श्रुत्वा गरुडारूढः विष्णुः तत्र प्रत्यक्षः अभवत् । भगवान् विष्णुः मकरेण सह गजं जलात् बहिः निष्कासितवान्। विष्णुचक्रेण मकरः हतः। मकरः गन्धर्वरूपं धृत्वा स्वलोकम् अगच्छत्। गजेन्द्रः विष्णुप्रसादात् मुक्तिं प्राप्नोत् ।

इति गजेन्द्रमोक्षकथा ।


Sunday, April 4, 2021

कालियमर्दनकथा Kaliya-mardana Story


(उपसर्गप्रयोगः)

श्रीकृष्णः गोकुले निवसति । समीपे यमुनानदी प्रवहति । कालियनामकः नागः नदीम् अधिवसति । नागस्य विषप्रभावात् नदीजलं दूषितं सम्भवति । तेन खगाः मृगाः च मरणं प्राप्नुवन्ति । तत् श्रुत्वा कृष्णः मित्रैः सह नदीतीरम् आगच्छति । तत्र सः एकं वृक्षम् आरोहति । वृक्षात् सः नदीजले निपतति । कृष्णः जले निमज्जति । तत् दृष्ट्वा तस्य मित्राणि विलपन्ति । तदा तत्र नन्दः यशोदा च समागच्छतः । अन्ये गोपालकाः अपि तौ अनुसरन्ति । दुःखिताः गोपालकाः नदीजलम् अभिगच्छन्ति । तदा कृष्णस्य अग्रजः बलरामः तान् सर्वान् प्रतिषेधति

कृष्णः नदीजले कालियनागम् उपसरति  कृष्णस्य प्रहरणात् कालियः परिक्लाम्यति कृष्णः कालियस्य शक्तिम् अपहरति । कृष्णः देवदेवः इति कालियः अवगच्छति  सः जलात् बहिः आगच्छति  कृष्णः कालियस्य शिरसि प्रनृत्यति  कालियः मुखात् विषम् उद्वमति  कृष्णः दूरदेशं गन्तुं कालियम् आदिशति  कालियः तां नदीं परित्यजति  सः कुटुम्बेन सह दूरदेशं निर्गच्छति 

गोपालकाः श्रीकृष्णम् अभिनन्दन्ति 

(आधारः - श्रीमद्भागवतमहापुराणम्)

English translation:

Shri Krishna lives in Gokul.  The river Yamuna flows nearby.  A cobra named Kaliya dwells in the river.  The river water becomes contaminated because of the cobra’s venom.  Because of that, birds and animals die.  Hearing that, Krishna, along with friends comes to the river bank. There he climbs up a tree.  He jumps into the river water from the tree.  Krishna sinks into the water.  Seeing that, his friends lament.  Then Nanda and Yashoda arrive there.  Other cowherds also follow both of them.  The sad cowherds go towards the river water.  Then, Krishna’s elder brother Balarama restrains all of them.  

Krishna approaches the cobra Kaliya in the river water. Because of Krishna’s attack, Kaliya is exhausted. Krishna takes away Kaliya's strength. Kaliya understands that Krishna is the supreme god. He comes out of the water.  Krishna begins to dance on top of Kaliya’s head. Kaliya spits out venom from the mouth. Krishna orders Kaliya to go away to a distant place. Kaliya gives up that river.  He goes away to a distant place along with his family.

The cowherds praise Shri Krishna.