Thursday, August 20, 2020

युद्धकाण्डसंग्रहः - Summary of Yuddhakandam

 

मारुतिः लङ्कानगरात् प्रत्यागतवान् | रामः सीतायाः वृत्तान्तं शृत्वा दुःखितः अभवत् | रामः वानरसैन्येन सह समुद्रतीरं प्राप्तवान् | तत्र लङ्कानगरे रावणस्य अनुजः विभीषणः आसीत् | सः रावणम् उदितवान् - “रामस्य बाणः राक्षसकुलस्य नाशं करिष्यति | भवान् रामं शरणं गच्छतु” इति | परन्तु रावणः तस्य वचनं न श्रुतवान् | विभीषणः रामस्य समीपं गतवान् | वानरसेना समुद्रस्य उपरि सेतुबन्धनं कृतवती | रामः सैन्येन सह लङ्काद्वीपं प्रविष्टवान् | वानरराक्षससैन्ययोः मध्ये युद्धम् आरब्धम् अभवत् | अनेके वानराः राक्षसाः च वीरगतिं प्राप्तवन्तः | रावणपुत्रस्य मेघनादस्य मायायुद्धेन रामलक्ष्मणौ पतितवन्तौ | पक्षिराजः गरुडः तत्र आगत्य तौ भ्रातरौ स्पृष्टवान् | गरुडस्य स्पर्शेन रामलक्ष्मणौ पुनः हर्षं लब्ध्वा युद्धाय सिद्धौ अभवताम् | रावणः स्वयं रणरङ्गम् आगतवान् | मारुतेः मुष्टिप्रहारात् रावणः मूर्छितः अभवत् | पुनः सः उत्थाय युद्धं कृतवान् | मारुतेः स्कन्धे उपविश्य रामः रावणस्य रथस्य शस्त्राणां च नाशं कृतवान् | रावणः लज्जया स्वभवनं गतवान् | अनन्तरं रावणः युद्धाय अनुजं कुम्भकर्णं प्रेषितवान् | रामः कुम्भकर्णं मारितवान् | मेघनादः युद्धाय पुनः आगतवान् | तस्य ब्रह्मास्त्रेण रामलक्ष्मणौ पुनः पतितवन्तौ | तदा मारुतिः हिमालयं गत्वा ओषधिपर्वतम् आनीतवान् | ओषधिप्रभावात् रामलक्ष्मणौ सचेतौ अभवताम् | मारुतिः पुनः लङ्घयित्वा ओषधिपर्वतं तस्य स्थाने स्थापितवान् | पुनः युद्धस्य आरम्भः अभवत् | लक्ष्मणः मेघनादं मारितवान् | रावणः युद्धे लक्ष्मणं घातितवान् | लक्ष्मणः मूर्छितः अभवत् | मारुतिः पुनः हिमालयप्रदेशं गत्वा ओषधिपर्वतम् आनीतवान् | तस्य प्रभावेन लक्ष्मणः उत्थितवान् | देवेन्द्रः रामाय दिव्यरथं प्रेषितवान् | रामः रथे स्थित्वा रावणेन सह युद्धं कृतवान् | युद्धे रामः रावणं मारितवान् | रामः विभीषणं लङ्कायाः राजपदे स्थापितवान् | मारुतिः आकाशमार्गेण अयोध्यां गतवान् | “रामः शीघ्रम् अयोध्यां प्राप्स्यति” इति सः भरतं सूचितवान् | रामः परिवारेण सह अयोध्यानगरं प्राप्तवान् | अयोध्यायां रामस्य राज्याभिषेकः अभवत् |