Saturday, March 23, 2019

व्यासतीर्थः - दासकूटप्रवर्तकः Vyasateertha - Promoter of Dasapantha

व्यासतीर्थः - दासकूटप्रवर्तकः

पञ्चदशक्रैस्तशतके भारतभूमौ व्यासतीर्थः इति यतिश्रेष्ठः विजयनगरराज्ये व्यराजत | तस्य महामहिमस्य संक्षिप्तास्ख्यायिकेऽयम् |

कर्मभूमीति प्रख्यातायां भरतभूमौ दक्षिणदेशे महिषासुरपत्तनसमीपस्थे (Mysore City) बन्नूरुग्रामे न्यवसतां भगवद्भक्तौ अक्कम्माबल्लण्णदम्पती | १४६०तमे क्रैस्ताब्दे भगवत्प्रसादात् तयोः जातः यतिराजः इति पुत्रः | सप्तायनसंपूर्णे उपनयनसंस्कारसंपन्नः यतिराजः चतुरायनं गुरुकुले अधीयमानः काव्यशास्त्रादिषु पाण्डित्यं संपादितवान् | तदनन्तरं सः चन्नपत्तनस्थितस्य माध्वयतिवरस्य ब्रह्मण्यतीर्थस्य आश्रये पित्रा निविष्टः | व्याकरणवेदशास्त्रादिषु यतिराजस्य निष्ठां निरीक्ष्य ब्रह्मण्यतीर्थः तं संन्यासदीक्षां स्वीकर्तुम् आदिष्टवान् | आदेशात् चकितः बालकः यतिराजः अरण्यं प्रविश्य वृक्षमूले ध्यानपरोभवत् | तत्र विष्णुभगवत्प्रेरणया कृतसङ्कल्पः सः ब्रह्मण्यतीर्थं पुनः प्राप्य यतिदीक्षाबद्धोभवत् | तस्य व्यासतीर्थः इति नामकरणोऽपि जातः |

१४६०तमे क्रैस्ताब्दे ब्रह्मण्यतीर्थस्य शरीरत्यागानन्तरं व्यासतीर्थः शास्त्राध्ययनस्थानेषु भूषणप्रायभूते काञ्चीनगरे न्यायमीमांसावेदागमविद्याः साङ्गं हृद्गतं कृतवान् | ततःपश्चात् सः मुळुबागिलुग्रामे श्रीपादराजाख्ययतिवराश्रये माध्वतत्त्वशास्त्रे पारङ्गतोभूत् |

अप्रतिमशास्त्रकोविदः सः भरतखण्डे विविधप्रान्तेषु संचरन् वाक्यार्थगोष्ठिषु नैकान् प्रतिवादीन् पराजित्य मध्वमुनिप्रणीतं भागवततत्त्वं प्रतिष्ठापितवान् | व्यासतीर्थस्य दैवीवर्चस्वम् आद्रियमाणः विजयनगरसाम्राज्याधिपतिः श्रीकृष्णदेवरायः यतिवरं राजगुरुपदविना सममानयत | व्यासतीर्थः श्रीकृष्णदेवरायं राजतान्त्रिकविषयेषु धार्मिकविषयेषु च मार्गदर्शनं करोति स्म | राजाश्रयत्वात्तस्य व्यासराजः इत्यपि नाम बभूव |

व्यासतीर्थः स्वयं संस्कृतभाषायां शास्त्रविषये अष्टौ ग्रन्थानरचयत | तेषु न्यायामृतं तात्पर्यचन्द्रिका तर्कताण्डवं च प्रसिद्धाः कृतयः | सः कन्नडभाषायामपि नैकानि पद्यानि लिलेख | इदानीं देशविदेशेषु प्रख्यातं “कृष्णा नी बेगने बारो” कन्नडगीतं व्यासतीर्थस्य रचना | तस्य यतिशिष्येषु विजयीन्द्रतीर्थः तथा वादिराजतीर्थः सुप्रसिद्धौ | जनसामान्येषु धार्मिकजागरणार्थं सः भक्तियोगप्रधानं दासकूटं स्थापयामास | तेन दासकूटे अनुवर्तिताः विद्वज्जनाः प्रादेशिकभाषासु भगवत्कथाः कीर्तयन्तः गीतानि गायन्तः जनसामान्येषु सुलभतया धार्मिकश्रद्धां सुदृढां चक्रुः | पुरुन्दरदासः कनकदासश्च सुपरिचितहरिदासौ व्यासतीर्थशिष्यौ एव |

सुदीर्घकालं वेदान्तसाम्राज्ये विराजमानः यतिवरशिखामणिः श्रीव्यासतीर्थः प्रायः १५३९तमे क्रैस्तवर्षे हम्पीनगरे स्वदेहं तत्याज | साम्प्रतमपि व्यासराजस्य महत्कार्यं सुजनैः स्मर्यते समाजे तत्फलं अनुभूयते च |

नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने |
नमतां कल्पतरवे भजतां कामधेनवे ||
(इति विजयीन्द्रतीर्थरचिते व्यासराजस्तोत्रे)

Sunday, March 10, 2019

Route of Pandavas' Military Expedition

राजसूययागप्रसङ्गे पाण्डवनां दिग्विजययात्रायाः मार्गदर्शिनी

श्रीवेदव्यासप्रणीते श्रीमन्महाभारतग्रन्थे सभापर्वान्तर्गतः राजसूययागप्रसङ्गः | तत्सन्दर्भे पाण्डवभ्रातरः भारतवर्षे दिग्विजययात्रां गच्छन्ति | भीमः पूर्वदेशं व्रजति | अर्जुनः उत्तरदिशां लक्षयति | नकुलः पश्चिमं सहदेवः दक्षिणं च यातः | मूलपाठमनुसृत्य तेषां पाण्डववीराणां यात्रामार्गानुकरणप्रयत्नोयम् | तत्कालीनदेशजनपदाः सर्वे साम्प्रतं नैव निश्चयेन ज्ञायन्ते | तथापि स्थूलरूपेण अवगाहनं शक्यम् | अन्तर्जाले स्थानान्तरेषु काचन एताः मार्गसूचिकाः स्युः | परन्तु भीमस्य पन्थाः नोपलब्धः | अपि च सर्वे पथदर्शिकाः एकस्मिन् चित्रे नोपलब्धाः | इत्येतत्र अल्पप्रयासः |

In the epic book Mahabharata authored by Shri Vedavyasa, the Sabhaparva has a major event Rajasuya yajna. During that time, Bhima, Arjuna, Nakula and Sahadeva carry out military expeditions across the Indian subcontinent. The following image depicts the routes taken by each of them. Though there could be similar maps available elsewhere on the Internet, the path taken by Bhima could not be found there and also all the paths could not be found on the same map. Here is a small attempt to show them on one page.



The map at the time of Mahabharata was sourced from here.