Sunday, September 27, 2020

महाभारतसंग्रहः-भागः २ Mahabharata Summary-Part 2


पाण्डवाः द्रौपद्या सह पाञ्चालदेशतः हास्तिनपुरं प्राप्तवन्तः | राजा धृतराष्ट्रः तेभ्यः खाण्डवप्रस्थप्रदेशं दत्तवान् | यद्यपि तत्र वनम् आसीत् तथापि पाण्डवाः तत्र इन्द्रप्रस्थनगरस्य निर्माणं कृतवन्तः | नूतननगरे पाण्डवाः राजसूययागं कृतवन्तः | भीमः जरासंधं मारितवान् | पाण्डवाः संपूर्णभारते विजयं प्राप्तवन्तः | यदा यागसमये ते श्रीकृष्णं पूजितवन्तः तदा शिशुपालः पाण्डवान् श्रीकृष्णं च निन्दितवान् | तदा श्रीकृष्णः चक्रेण शिशुपालं मारितवान् |

कौरवाणाम् अपेक्षया पाण्डवानाम् ऐश्वर्यम् अधिकम् आसीत् | अतः दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् | पाण्डवाः पराजिताः यतः दुर्योधनस्य मातुलः शकुनिः कपटः आसीत् | यदा कौरवसभायां द्रौपदीदेवी अपमानिता तदा श्रीकृष्णः तां रक्षितवान् | आगामियुद्धे सर्वान् कौरवान् मारयामि इति भीमः प्रतिज्ञां कृतवान् | यथा द्रौपदी प्रार्थितवती तथा धृतराष्ट्रः पाण्डवेभ्यः राज्यं पुनः दत्तवान् | परन्तु दुर्योधनः पाण्डवान् द्यूतार्थं पुनः आहूय तान् जितवान् | यथा क्रीडानियमः आसीत् तथा पाण्डवाः द्वादशवर्षकालं वनवासं कृतवन्तः | वनवासकाले अर्जुनः शङ्करेण पाशुपतास्त्रं प्राप्तवान् | सः इन्द्रलोकं गत्वा नृत्यविद्याभ्यासं कृतवान् | भीमः मारुतिना सह मिलितवान् | सः अनेकान् राक्षसान् मारितवान् |

त्रयोदशे वर्षे पाण्डवाः विराटनगरे गुप्तरूपेण उषितवन्तः | अज्ञातवासकाले यदि पाण्डवानां परिचयः भवति तर्हि पुनः वनवासः भवति इति नियमः आसीत् | विराटनगरे यः कीचकं मारितवान् सः भीमः एव इति कौरवाः चिन्तितवन्तः | पाण्डवान् द्रष्टुं ते विराटनगरं प्राप्तवन्तः | परन्तु यदा कौरवाः विराटनगरं प्राप्तवन्तः तदा पाण्डवानाम् अज्ञातवासः समाप्तः अभवत् |

पाण्डवानां राज्यं दातुं दुर्योधनः निराकृतवान् | कौरवपाण्डवयोः मध्ये अष्टादशदिनकालं युद्धम् अभवत् | युद्धस्य आरम्भकाले यदा अर्जुनः मम विजयः वा पराजयः वा भवतु, परन्तु युद्धं न करोमि इति उक्तवान् तदा श्रीकृष्णः भगवद्गीताम् उपदिष्टवान् | युद्धे भीष्मः पतितवान् | यावत् उत्तरायणकालः न आगच्छति तावत् शरशय्यायां तिष्ठामि इति भीष्मः उक्तवान् | यथा भीमः उक्तवान् आसीत् तथा सः सर्वान् कौरवसहोदरान् युद्धे मारितवान् | श्रीकृष्णस्य साहाय्येन पाण्डवाः विजयं प्राप्तवन्तः | युद्धानन्तरं पाण्डवाः श्रीकृष्णः च यत्र भीष्मः आसीत् तत्र गतवन्तः | भीष्मः विष्णुसहस्रनामस्तोत्रेण श्रीकृष्णं पूजितवान् | पाण्डवाः षट्त्रिंशतिवर्षकालं धर्मेण राज्यं पालितवन्तः | यदा श्रीकृष्णस्य अवतारकार्यं समाप्तं तदा पाण्डवाः अपि स्वर्गारोहणं कृतवन्तः |

यदा यदा हि धर्मस्य ग्लानिः भवति भारत |
अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् || (भगवद्गीता ४.७)

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः |
तत्र श्रीविजयः भूतिः ध्रुवा नीतिः मतिः मम || (भगवद्गीता १८.७८)


Thursday, September 17, 2020

महाभारतसंग्रहः-भागः १ Mahabharata Summary-Part 1


हास्तिनपुरस्य महाराजः पाण्डुः आसीत् | यदा पाण्डुः ऋषिशापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत् | पाण्डोः भार्याद्वयम् - कुन्ती माद्री इति | वने एव कुन्त्याः त्रयः पुत्राः जाताः | माद्र्याः द्वौ पुत्रौ जातौ | ते पञ्चपाण्डवाः इति प्रसिद्धाः | धृतराष्ट्रस्य अपि शतं पुत्राः जाताः | ते कौरवाः इति ख्याताः | वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्ती पुत्रैः सह हास्तिनपुरम् आगतवती | तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासः अभवत् | कौरवाणाम् अपेक्षया पाण्डवानां बलम् अधिकम् आसीत् | कौरवज्येष्ठः दुर्योधनः लाक्षागृहे पाण्डवान् मारयितुं प्रयत्नं कृतवान् | कुन्त्या सह पाण्डवाः गृहात् बहिः आगत्य वनं प्रविष्टवन्तः | वने पाण्डवश्रेष्ठः भीमः हिडिम्बासुरस्य वधं कृतवान् | ततः पाण्डवाः एकचक्रनगरं प्राप्तवन्तः |


यदा पाण्डवाः एकचक्रनगरे वसन्ति स्म तदा कुन्ती ब्राह्मणकुटुम्बस्य रोदनं श्रुतवती | यदा सा ब्राह्मणं कारणं पृष्टवती तदा सः ब्राह्मणः उक्तवान् - “बकासुरस्य भोजनाय मम कुटुम्बे कः गच्छति इति चिन्ता भवति” | कुन्ती उक्तवती - “चिन्ता मास्तु | अहं मम पुत्रं भीमं प्रेषयामि यतः सः बलवान् अस्ति | सः गच्छति चेत् बकासुरस्य मरणं निश्चयेन भविष्यति” | यथा कुन्ती उक्तवती तथा भीमः शकटे अन्नं स्थापितवान् | यत्र बकासुरस्य गुहा आसीत् तत्र सः गतवान् | यावत् बकासुरः गुहायाः बहिः न आगतवान् तावत् भीमः अन्नं खादितवान् | बकासुरः बहिः आगत्य भीमम् उक्तवान् - “यदि भवान् मह्यम् अन्नं न ददाति तर्हि अहं भवन्तं खादामि |” भीमः सर्वम् अन्नं खादितवान् | भीमः बकासुरं मारितवान् |


यः मत्स्ययन्त्रस्य भेदनं करोति सः द्रौपद्या सह विवाहं करोति इति पाण्डवाः श्रुतवन्तः | ते यत्र द्रौपदीदेव्याः स्वयंवरः आसीत् तत्र गतवन्तः | कौरवाः अपि तत्र आगतवन्तः | यदा कर्णः आगतवान् तदा द्रौपदी उक्तवती - “कर्णेन सह विवाहं न करोमि यतः सः सूतपुत्रः अस्ति” | पाण्डवमध्यमः अर्जुनः मत्स्ययन्त्रस्य भेदनं कृतवान् | यथा कुन्ती उक्तवती तथा द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत् |


Monday, September 14, 2020

M.Vishveshvarayya तन्त्रज्ञशिरोमणिः विश्वेश्वरय्यः

 Biography of Sir M. Visvesvaraya (1888-1970) - Robolab Technologies Pvt.  Ltd.

मोक्षगुण्डं विश्वेश्वरय्य इति विश्वविख्याततन्त्रज्ञः १८६०तमे क्रैस्ताब्दे सप्टेंबरमासस्य पञ्चदशदिनाङ्के अजायत | सः आङ्ग्लभारते महिषूरुराज्यस्य (State of Mysore) प्रधानसचिवपदवीं समलङ्कृतवान् | आङ्ग्लसर्वकारेण "सर्" उपाधिना गौरवान्वितः  | स्वातन्त्र्योत्तरभारते शतायुषी सः भारतरत्नभूषितः | श्रमजीविनः तस्य शतशः तान्त्रिककार्याणि देशविदेशेषु प्रसिद्धानि अद्यत्वेपि जनोपयोगीनि वर्तन्ते | तस्य जन्मदिनं तन्त्रज्ञदिवसः इति आचर्यते |

विश्वेश्वरय्यः कर्णाटजातो महिषूरुमन्त्री तन्त्रप्रवीणः |
स्थापत्यशास्त्रे लोकाग्र्यगण्यः स्ववृत्तिधर्मे ह्यादर्शप्रायः ||

अब्बन्धनानां निर्माणकर्ता यन्त्रोद्यमानां भूयो विधाता |
देशान्तरेषु बहुकार्यकारी भारतरत्नो बिरुदाङ्कधारी ||