Thursday, September 17, 2020

महाभारतसंग्रहः-भागः १ Mahabharata Summary-Part 1


हास्तिनपुरस्य महाराजः पाण्डुः आसीत् | यदा पाण्डुः ऋषिशापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत् | पाण्डोः भार्याद्वयम् - कुन्ती माद्री इति | वने एव कुन्त्याः त्रयः पुत्राः जाताः | माद्र्याः द्वौ पुत्रौ जातौ | ते पञ्चपाण्डवाः इति प्रसिद्धाः | धृतराष्ट्रस्य अपि शतं पुत्राः जाताः | ते कौरवाः इति ख्याताः | वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्ती पुत्रैः सह हास्तिनपुरम् आगतवती | तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासः अभवत् | कौरवाणाम् अपेक्षया पाण्डवानां बलम् अधिकम् आसीत् | कौरवज्येष्ठः दुर्योधनः लाक्षागृहे पाण्डवान् मारयितुं प्रयत्नं कृतवान् | कुन्त्या सह पाण्डवाः गृहात् बहिः आगत्य वनं प्रविष्टवन्तः | वने पाण्डवश्रेष्ठः भीमः हिडिम्बासुरस्य वधं कृतवान् | ततः पाण्डवाः एकचक्रनगरं प्राप्तवन्तः |


यदा पाण्डवाः एकचक्रनगरे वसन्ति स्म तदा कुन्ती ब्राह्मणकुटुम्बस्य रोदनं श्रुतवती | यदा सा ब्राह्मणं कारणं पृष्टवती तदा सः ब्राह्मणः उक्तवान् - “बकासुरस्य भोजनाय मम कुटुम्बे कः गच्छति इति चिन्ता भवति” | कुन्ती उक्तवती - “चिन्ता मास्तु | अहं मम पुत्रं भीमं प्रेषयामि यतः सः बलवान् अस्ति | सः गच्छति चेत् बकासुरस्य मरणं निश्चयेन भविष्यति” | यथा कुन्ती उक्तवती तथा भीमः शकटे अन्नं स्थापितवान् | यत्र बकासुरस्य गुहा आसीत् तत्र सः गतवान् | यावत् बकासुरः गुहायाः बहिः न आगतवान् तावत् भीमः अन्नं खादितवान् | बकासुरः बहिः आगत्य भीमम् उक्तवान् - “यदि भवान् मह्यम् अन्नं न ददाति तर्हि अहं भवन्तं खादामि |” भीमः सर्वम् अन्नं खादितवान् | भीमः बकासुरं मारितवान् |


यः मत्स्ययन्त्रस्य भेदनं करोति सः द्रौपद्या सह विवाहं करोति इति पाण्डवाः श्रुतवन्तः | ते यत्र द्रौपदीदेव्याः स्वयंवरः आसीत् तत्र गतवन्तः | कौरवाः अपि तत्र आगतवन्तः | यदा कर्णः आगतवान् तदा द्रौपदी उक्तवती - “कर्णेन सह विवाहं न करोमि यतः सः सूतपुत्रः अस्ति” | पाण्डवमध्यमः अर्जुनः मत्स्ययन्त्रस्य भेदनं कृतवान् | यथा कुन्ती उक्तवती तथा द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत् |


No comments:

Post a Comment