Sunday, May 28, 2017

Maharana Pratap (महाराणा प्रतापः)

क्रैस्तशकस्य षोडशशतमाने भारतदेशस्य वायव्यभागस्य राजस्थानप्रदेशे राजपूतकुलस्य उदयसिंहः नाम राजा आसीत् | सः कालः भारते मुघलराजवंशस्य उच्छ्रायकालः | तस्य वंशस्य प्रसिद्धः राजा अकबरः देहलीनगर्यां राज्यभारं करोति स्म | भारतस्य विशालभागः राज्ञः अकबरस्य स्वाधीने अवर्तत | सः राजस्थानप्रदेशे अपि आक्रमणं कृत्वा उदयसिंहस्य राजधानीं चित्तोरनगरीं जितवान् | नगरभ्रष्टः उदयसिंहः चित्तोरनगरं परित्यज्य उदयपुरनगरं गत्वा ततः मेवारराज्यस्य अनुशासनम् अकरोत् | तस्य मरणानन्तरं १५७२तमे वत्सरे ज्येष्ठपुत्रः प्रतापसिंहः मेवारस्य राजसिंहासनम् अलञ्चकार महारणा इति बिरुदाङ्कितवान् च | प्रतापसिंहः स्वदेशप्रेमी आसीत् | अकबरः चित्तोरनगरं जितवान् परन्तु मेवारराज्यं तस्य अधीने नासीत् | अकबरः अनेकवारं स्वमन्त्रिगणान् प्रतापसिंहस्य समीपे प्रेषयित्वा विनायुद्धमेव तस्य शरणागतिं अपेक्षितवान् | प्रतापसिंहः अकबरस्य परिसूचनाः सर्वथा निराकरोत् |

अकबरस्य आक्रमणं प्रतीक्षमाणः प्रतापसिंहः पर्वतप्रदेशस्थितं कुम्भलगढनगरं शासनकेन्द्रं कृत्वा युद्धसिद्धतां चकार | अनेके ग्राम्यजनाः तस्य सेनायां सैनिकरूपेण प्रशिक्षिताः | समीपस्थाः अन्ये केचन नृपाः अपि प्रतापसिंहस्य साहाय्यं चक्रुः | १५७६तमे वत्सरे महत्या मुघलसेनया सह प्रतापसिंहस्य सैन्यस्य हल्दिघाटप्रदेशे घोरयुद्धमभवत् | प्रतापसिंहस्य सेना न पराजितः परन्तु मुघलसैन्येन परिवृतः | प्रतापसिंहः ततः सुरक्षितप्रदेशं निर्जगाम | तदनन्तरं अकबरः मेवारराज्यं जेतुं अनेकवारं प्रायतत प्रतिवारं विफलो बभूव | १५८७ वत्सरानन्तरं कारणान्तरेण अकबरस्य लक्ष्यं भारतस्य अन्यप्रदेशेषु केन्द्रीकृतम् | तदेव समयं साधयित्वा प्रतापसिंहः केषुचन वर्षेषु मेवारराज्यस्य बहुभागं मुघलाधीनतः पुनः जितवान् | अस्मिन् समये तस्य नूतना राजधानी आसीत् चावण्डनगरी | १५९७तमे वत्सरे प्रतापसिंहः मृगयाविहारं गतः अत्यन्तं व्रणितः मरणं प्राप्तः |

प्रतापसिंहस्य देशभक्तिः शौर्यं स्थैर्यं च युगयुगान्तरेषु जनेभ्यः स्फूर्तिदायकाः सन्ति |

No comments:

Post a Comment