अपरत्र हिरण्यकशिपोः तपोज्वालया संतप्तः सुरगणः चतुर्मुखब्रह्माणं आश्रितः | परमेष्ठी कमलासनः हिरण्यकशिपुं संदर्श्य यथेप्सितं वरं याचितुं उवाच | हिरण्यकशिपुः चतुर्मुखदर्शनेन परमहर्षितः तस्य प्रजापतेः केनचिदपि सृष्टिना अपि च न दिने न रात्रौ न आकाशे न भुवौ न गृहान्ते न बहिः न केनापि शस्त्रास्त्रेण स्वस्य मरणं न स्यात् इति अभूतपूर्ववरं अयाचत | चतुर्मुखः अदेयोऽपि इमं वरं ददामीति उक्त्वा अन्तर्दधान | कयाधुना तथा पुत्रप्रह्लादेन सह स्वनगरीं पुनरागत्य हिरण्यकशिपुः दैत्यसिंहासने विराजमानोऽभूत् | ब्रह्मवरबलात् अजेयः सः त्रिलोकेषु हाहाकारं जनयामास | यज्ञपूजादिकार्याणि हरिपराणि इति सः यजमानान् मुनिजनान् बहुधा पीडयामास | सर्वत्र स्वयमेव परमो देवः इति घोषणामपि चकार | इन्द्रादिदेवताः भयात् स्वर्गम् अत्यजन् | सर्वैः साधुगणैः त्राहि त्राहीति प्रार्थ्यमानः क्षीराब्धिशयनः श्रीमन्नारायणः दैत्यस्य अवसानः कालान्तरे भविष्यतीति अभयं प्रददौ |
पुत्रप्रियः हिरण्यकशिपुः बालकप्रह्लादं अभ्यसनार्थे दैत्यगुरुकुलं प्रेषयामास | तस्मिन् गुरुकुले दैत्यगुरुभिः हिरण्यकशिपुरेव परं दैवतं अन्यो देवो नास्तीति उपदेशः प्रचलति स्म | तदुपदेशं निराकृत्य प्रह्लादः श्रीहरिरेव जगतः परं दैवतमिति प्रत्यपादयत | चकिताः दैत्यगुरवः तद्विषयं हिरण्यकशिपुं न्यवेदयन् | हिरण्यकशिपुः प्रीत्या स्वपुत्राय हरिद्वेषं अवगमयितुं प्रायतत | परन्तु प्रह्लादस्य मनःपरिवर्तनं सुतरां नाभवत् | तदा परमक्रुद्धः दैत्येन्द्रः पुत्रस्य विनाशं कर्तुमिच्छन् बालकस्य पर्वतशिखरात् पातनं वह्नौ दाहनं गजपदतले मर्दनम् इत्यादीन् उपायान् कृतवान् | ते सर्वे उपायाः विफला बभूवुः | भगवत्प्रसादेन प्रह्लादाय ईषदपि क्लेशः नाभवत् |
तदा इतोऽपि क्रुद्धः हिरण्यकशिपुः प्रह्लादं पप्रच्छ तव स्वामी कथं कुत्रापि न दृश्यते इति | प्रह्लादः पितरं उवाच श्रीहरिः न केवलं मम स्वामी परन्तु तवापि स्वामी संपूर्णजगतः प्रभुः सर्वत्र सर्वभूतेषु सर्वपदार्थेषु विद्यते इति | कुटिलनेत्रः हिरण्यकशिपुः तदा समीपस्थस्तम्भं निर्दिश्य पृष्टवान् किं सः हरिः अस्मिन् स्तम्भेऽपि वर्तते इति | प्रह्लादः हरिः स्तम्भेऽपि वर्तते एव इति उत्तरम् अददात् | कुपितः हिरण्यकशिपुः तत्स्तम्भस्युपरि दारुणमुष्टिप्रहारं चकार | स्तम्भः भग्नः | भग्नस्तम्भात् भीकरशब्दसहिता नरशरीरं सिंहमुखं धृत्वा अभूतपूर्वा विचित्राकृतिः प्रादुरभवत् | भयङ्करमूर्तिं विलोक्य हिरण्यकशिपुः एषः एव मायारूपी दैत्यारिः हरिः इति विदित्वा गदाखड्गपाणिः तं प्रति अधावत् | उग्ररूपी नरसिंहः दैत्यपुङ्गवं अतिलीलया उधृत्य राजभवनद्वारसोपने उपविश्य स्वस्य ऊरुयुग्मोपरि तं निधाय वज्रसमाननखैः हिरण्यकशिपोः उदरं व्यदारयत् | तदा संध्याकालः अपि आसीत् | अतः सर्वरीत्या ब्रह्मवरस्य समाधानमपि अभवत् | तथापि देवनृसिंहस्य उग्रता शान्ता नाभवत् | ब्रह्मरुद्रादि देवाः मुनिगणाः सिद्धाः चारणाः अपि स्तोत्रैः देवादिदेवस्य उग्रतां शामयितुं न शक्नुवन् | लक्ष्मीदेवी अपि तस्य शमनार्थं बालकप्रह्लादमेव प्रेषयितुमैच्छत् | भक्तप्रह्लादः निष्कलङ्कमनसा नृसिंहस्य सुन्दरस्तोत्रमालामेव विरचयन् तस्य पादकमलं संपूजयत | तस्य भक्त्या प्रसन्नः नृसिंहः प्रह्लादं वरं याचितुम् अवदत् | प्रह्लादः हरिपादयोः अनवरतभक्तिं विना किमपि न याचे इति उवाच | तथापि एकं वरं याचितुं हरिणा प्रचोदितः सः स्वपितरं उत्तमगतिर्भवतु इति प्रार्थयत | नृसिंहरूपी हरिः तथास्त्वित्युक्त्वा प्रह्लादं राजपदवीं प्रदाय अन्तर्दधान |
अस्मिन् परमाद्भुताख्याने अनेके तत्त्वांशाः ग्रथिताः | हिरण्यकशिपुः अहं ब्रह्मेति अहंकारगुणस्य द्योतकः | तद्भ्रमं दूरीकर्तुं भागवततत्त्वज्ञानं प्रतिष्ठितुं मायावादभञ्जकस्य कुजनहृदयविप्लवस्य नृसिंहरूपस्य अवतारः | चतुर्मुखस्य वरसमाधानार्थं तथा लोकोपद्रवं निवारयितुं अचिन्त्यसामर्थ्यप्रदर्शनहेतुः अवतारः अयम् | तामसेभ्यः अत्युग्रोऽपि निष्कामभक्तेभ्यः परमकरुणाकरः श्रीहरिः इति उद्घोषमाणा कथा इयं परमपवित्रा |
(श्रीमद्भागवतपुराणाधारितमिदं आख्यानम्)
No comments:
Post a Comment