वामनावतारकथा
(श्रीमद्भागवतपुराणे अष्टमस्कन्धाधारिता)
वामनावतारः श्रीविष्णुभगवतः प्रसिद्धेषु दशावतरेषु पञ्चमः | प्रह्लादपौत्रः दैत्यराजः बलिः देवगणैः युद्धे पराजितः खिन्नमनस्कः राज्यलक्ष्मीं पुनःप्राप्तुकामः भार्गवब्राह्मणान् समाश्रयत | विनयादिगुणयुक्तेन वैरोचनबलिना बहुप्रकारेणार्चितः दैत्यगुरुभार्गवशुक्रः सुप्रीतः तस्य हितार्थे विश्वजिन्नामकं यज्ञोत्तममायोजयत | तद्यज्ञप्रसादरूपेण बलिः सुवर्णोपेतं महारथं इष्वादिशस्त्रादीन् च प्राप्तवान् | अथ विशेषबलयुक्तः बलिः दैत्यसैन्यसमेतः सुरपुरीममरावतीं पर्यवृणोत् | सागरोपमं साध्वसजं दैत्यानीकं दृष्ट्वा किंकर्तव्यमूढः इन्द्रादिवृन्दारकगणः देवगुरुब्रुहस्पतिमुपगम्य मन्त्रालोचनं चकार | दैत्यादैत्यबलाबलं परामर्शन् बृहस्पतिः सुरान् नगरत्यजनं सूचयामास | तदेव समयोचितं मत्वा नाकिवृन्दः समस्तपरिवारजनैः सह स्वर्गात् लुप्तोऽभवत् | रिक्तां देवधानीमाक्रम्य प्रमुदितः असुरगणः अट्टहासेन ननाद |
अथ श्रीविहीनान् स्वर्भ्रष्टान् स्वपुत्रान् दृष्ट्वा विह्वलहृदया देवमाता अदितिः पतिं कश्यपमुनिं सस्मार | महामुनिकश्यपः तत्रागत्य पत्न्याः दुर्दशां वीक्ष्य दयार्द्रः तां मनोभीष्टप्रदं व्रतश्रेष्ठं पयोव्रतं उपादिशत् | पयोव्रतमनुष्ठमाणायां सुरमातरि श्रीमन्नारायणः पुत्ररूपेण अजायत | उपेन्द्रं वामननाम्नाभिधं तं ब्राह्मणवटुरूपिणं बालं बृहस्पत्यादिद्विजाः छत्रं यज्ञोपवीतं मेखलां दण्डं कौपीनं इत्यादीन् समर्पितवन्तः |
दैत्याधिपतिर्बलिः इन्द्रपदवीमिष्यमाणः यज्ञोत्तममश्वमेधं यष्टुमुपाक्रमत् | दण्डकमण्डलोपेतः छत्रधरः वामनः ऋत्विजादिसमलङ्कृतां यज्ञशालां प्राविवेश | ब्रह्मतेजोमयं वटुशरीरं प्रेक्ष्य यज्ञदीक्षितः बलिः अर्घ्यपाद्यादिना समपूजयत | यागसमये अभ्यागतं वामनं राजा बलिः स्वस्य ऐश्वर्यवर्णनं कुर्वन् निस्सङ्कोचेन दानं याचितुं उक्तवान् | राज्ञः आतिथ्येन सुप्रीतः वामनः बलिवंशजानां औदार्यगुणं प्रशंस्य त्रिपादपरिमाणं भूप्रदेशमेव याचितवान् | तच्छ्रुत्वा बलिः बालस्य बालिशबुद्धिरेव इति उपहसन् काञ्चनगजगवाश्वराज्यादीन् याचितुं पुनः उक्तवान् | वामनः मनुष्याणां यदृच्छालाभसन्तुष्टिरेव उत्तमगतिरिति प्रतिपादयन् पदत्रयमेव स्वकृते अलमिति उवाच | बलिः जलकलशमानीय स्वपत्न्या विन्ध्यावल्या सह दानार्थं सिद्धोऽभवत् | तदा दैत्यगुरुशुक्रः एषस्तु वामनरूपेण साक्षाद्विष्णुरेव असुरकुलाहितार्थमागतः इति वदन् दानसङ्कल्पं त्यक्तुं बलिम् आदिदेश | बलिः दृढचित्तः वटुः विष्णुर्वा न वा अहं तु वचनभ्रष्टः कुलकलङ्को न भविष्यामीति अवदत् | कुपितः शुक्रः ब्राह्मणवाचं तिरस्कुर्वन्तं बलिं शीघ्रमेव सकलैश्वर्यविहीनो भव इति शशाप | बलिः विधिपूर्वकं दानसङ्कल्पमकरोत् |
समाप्ते दानविधौ वामनः स्वरूपं प्रवर्धमानः लोकत्रयं व्याप्य तस्थौ | प्रथमपादेन सम्पूर्णभूलोकं द्वितीयपादेन समस्तद्युर्लोकमाक्रान्तं त्रिविक्रमं पश्यन्तः परमाश्चर्यचकिता सुरसिद्धतापसगन्धर्वादिगणाः वेदादिमन्त्रैः भूरिशः देवं तुष्टुवुः | चतुर्मुखब्रह्मणा श्रीहरिपादः प्रक्षालितः | तस्मादुत्पन्ना पवित्रपयोधारा स्वर्गङ्गा त्रिषु लोकेषु प्रावहत् | तदनन्तरं सर्ववन्द्यः वामनः विश्वरूपं विहाय पुनः मानवाकृतिं दधार |
महीं सर्वामपहृतां दृष्ट्वा रुष्टो दैत्यानीकः शूलाद्यायुधसहितः घातुमुद्युक्तः वामनं प्रति अधावत् | तदा विष्णोरनुचराः जयविजयादिप्रभृतयः सत्वरेण दैत्यसैन्यं युद्धे पीडयन्तः रसातलमगमयन् | वामनेच्छानुसारेण विष्णुवाहनः खगोत्तमः गरुडः बलिं वरुणपाशे बबन्ध | वामनः बलिमवदत् पादद्वयेन त्वयार्जिताः सकललोकाः हृताः मया तृतीयपाददानार्थे किमपि नावशिष्टं वचनच्युतोऽसि इति | सत्यसन्धः बलिः नतमस्तकः शिरसि तृतीयपादं स्थापयितुं वामनं प्रार्थयामास | दैत्यराजस्य दैन्यावस्थां अवेक्ष्य पितामहः प्रह्लादः तत्रागत्य वटुवेषं नारायणं स्तोत्रेण सम्पूजितवान् | भक्तवरप्रह्लादस्य प्रार्थनया आह्लादितः वामनः बलिं बन्धेन मुमोच | यदा भक्ताः धनादिकारणात् गर्विष्ठा निजमार्गच्युता भवन्ति तदा तान् समुद्धर्तुमेव तेषां धनाद्यैश्वर्यमपहरामि इति वामनः प्राबोधयत् | दैत्यपतेः स्थैर्येण परमप्रीतः विश्वपतिर्वामनः बलिं परिवारजनैः सह सुतललोके निवसितुं आदिदेश | सावर्णिमन्वन्तरे इन्द्रपदवीमपि तं प्रदत्तवान् |
वामनवामन माणववेषा दैत्यकुलान्तक कारणभूत (मध्वाचार्यकृतं द्वादशस्तोत्रम्)
No comments:
Post a Comment