Showing posts with label Ramayana. Show all posts
Showing posts with label Ramayana. Show all posts

Thursday, July 9, 2020

अरण्यकाण्डसंग्रहः - Summary of Aranyakandam



रामः लक्ष्मणेन सीतया च सह दण्डकारण्यं प्रविशति । तत्र अरण्ये विराधः नाम राक्षसः वसति । विराधः सीतायाः अपहरणाय प्रयत्नं करोति । रामलक्ष्मणौ विराधेन सह युध्यतः । विराधः मरणं प्राप्नोति । रामः बहुभिः ऋषिभिः सह मिलति । सः अगस्त्यमुनिना सह अपि मिलति । मुनेः वचनात् रामः लक्ष्मणः सीता च पञ्चवटीप्रदेशं प्राप्नुवन्ति । तस्मिन् सुन्दरे प्रदेशे सुन्दर्याः नद्यः सुन्दराणि पुष्पाणि च भवन्ति । तत्र आश्रमे ते सुखेन निवसन्ति । शूर्पणखा रावणस्य भगिनी । एकदा सा पञ्चवटीम् आगच्छति । सा रामस्य रूपे अनुरक्ता भवति । रामेण निराकृता सा लक्ष्मणं प्रार्थयति । लक्ष्मणेन अपि निराकृता शूर्पणखा सीतां प्रति धावति । तदा लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तयति । शूर्पणखायाः अन्यः भ्राता खरः समीपे वसति । सा भ्रातुः खरस्य समीपं गच्छति । खररामयोः मध्ये युद्धं भवति । रामः खरस्य उपरि बहून् बाणान् मुञ्चति । राक्षसः खरः मरणं प्राप्नोति । शूर्पणखा रावणाय सर्वं वृत्तान्तं निवेदयति । रावणः मातुलस्य मारीचस्य साहाय्यं प्रार्थयति । रावणस्य भयात् मारीचः सुवर्णमृगस्य रूपं धरति । सीता सुवर्णमृगाय रामं प्रार्थयति । रामः आश्रमात् निर्गच्छति । सः मृगस्य पृष्ठतः दूरं गच्छति । रामः बाणेन मृगं मारयति । मृगः मरणसमये रामस्य ध्वनिं अनुकरोति । सीता तं ध्वनिं शृणोति । “मम पतिः साहाय्यम् इच्छति । तस्य समीपं गच्छतु” इति सीता लक्ष्मणं कथयति । लक्ष्मणः आश्रमात् निर्गच्छति । रावणः संन्यासिरूपं धरति । सः सीताम् आश्रमात् अपहरति । जटायुः नाम खगः दशरथस्य मित्रं तस्मिन् वने वसति । जटायुः रावणेन सह युद्धं करोति । रावणः जटायुं खड्गेन प्रहरति । रावणः सीतया सह लङ्कानगरं प्राप्नोति । तत्र सीतां अशोकवने स्थापयति । रामः लक्ष्मणः च आश्रामं प्रत्यागच्छतः । आश्रमे तौ भ्रातरौ सीतां न पश्यतः । रामः दुःखितः भवति । सीतां वने सर्वत्र अन्विष्यति । एकत्र सः पतितं जटायुं पश्यति । जटायुः रावणस्य वृत्तान्तं कथयति । रामलक्ष्मणौ अग्रे चलतः । तौ वीरौ कबन्धराक्षसस्य उभौ बाहू कर्तयतः । मरणसमये कबन्धः रामं कथयति - “पम्पासरोवरप्रदेशे सुग्रीवः निवसति । तस्य समीपं गच्छतु” । अनन्तरं तौ शबर्याः आश्रमं गच्छतः । रामस्य दर्शनात् शबरी मुक्तिं प्राप्नोति । ततः रामः लक्ष्मणः च पम्पासरोवरप्रदेशं प्रविशतः ।

Meanings of some words:
अनुरक्त = interested
मुञ्चति = releases
साहाय्यम् = help
निराकृत = rejected
अनुकरोति = imitates
एकत्र = at one place
उभौ = both (two)
ततः = thereafter (afterwards)/from there

Thursday, July 2, 2020

अयोध्याकाण्डसंग्रहः Summary of Ayodhyakandam

पितृभक्त्या पुरत्यागं सीतया लक्ष्मणेन च ।
कृत्वा वनं गतो रामः भरतः पादुकाधरः ॥

दशरथः अयोध्यायाः महाराजः । दशरथस्य कौसल्या सुमित्रा कैकेयी इति पत्न्यः । कौसल्यायाः पुत्रः रामः । सुमित्रायाः पुत्रौ लक्ष्मणः शत्रुघ्नः च । कैकेय्याः पुत्रः भरतः । रामस्य पत्नी सीता । एकदा भरतः शत्रुघ्नः च मातुलस्य नगरं गच्छतः । तदा ज्येष्ठः पुत्रः रामः राजा भवतु इति दशरथः इच्छति । सर्वे जनाः हृष्टाः भवन्ति । परन्तु दशरथस्य पत्नी कैकेयी दुःखिता भवति । सा दशरथं वदति - "मम पुत्रः भरतः एव राजा भवतु । अपि च रामः वनं गच्छतु" । दशरथः मूर्छितः भवति । रामः कैकेयीं दशरथं च नमति । सः नगरात् निर्गच्छति । सीता लक्ष्मणः च रामम् अनुसरतः । रामः लक्ष्मणः सीता च नौकया नदीं तरन्ति । ते वनं प्रविशन्ति । जनाः शोकं कुर्वन्ति । रामस्य वियोगात् दशरथः मरणं प्राप्नोति । भरतः शत्रुघ्नः च मातुलस्य गृहात् प्रत्यागच्छतः । भरतः सर्वं वृत्तान्तं जानाति । सः दुःखितः क्रुद्धः च भवति । भरतः राज्यपदं निराकरोति । सः परिवारेण सह वनं प्रविशति । तत्र ते सर्वे रामेण सह मिलन्ति । भवान् एव राजा भवतु इति भरतः रामं प्रार्थयति । रामः वदति - "हे भरत, अहं तु इदानीं वने एव वसामि । चतुर्दशवर्षानन्तरम् अयोध्यां प्रत्यागच्छामि । तदा अहं राजा भवामि" । भरतः वदति - "हे प्रिय राम, भवतः पादत्राणं मह्यं ददातु । तस्य साहाय्येन अहं राज्यपालनं करोमि" । रामः भरताय पादत्राणं ददाति । भरतः रामस्य पादत्राणं मस्तकस्य उपरि धरति । सः परिवारेण सह अयोध्यां प्रतिगच्छति । रामः सीतया लक्ष्मणेन च सह अन्यत् वनं व्रजति ।

Meaning of some words:
एकदा = Once (at one time)
तदा = then (at that time)
ज्येष्ठ = eldest
हृष्ट = happy/excited
परन्तु = but/however
मूर्छित = unconscious
निर्गच्छति = goes away
अनुसरति = follows
वियोग = separation
प्रत्यागच्छति = comes back
वृत्तान्त = news/happening
क्रुद्ध = angry
निराकरोति = rejects
इदानीम् = now
चतुर्दशवर्षानन्तरम् = after fourteen years 
साहाय्येन =  with the help of
व्रजति = goes (गच्छति)

English Meaning:
Dasharatha is the king of Ayodhya. Kausalya, Sumitra, and Kaikeyi are Dasharatha's wives. Kausalya's son is Rama. Sumitra's sons are LakshmaNa and Shatrughna. Bharata is Kaikeyi's son. Rama's wife is Seeta. Once Bharata and Shatrugna go to their maternal uncle’s city. Dasharatha desires that his eldest son must be coronated as the king. All people become happy. But Dasharatha's wife Kaikeyi is unhappy. She says to Dasharatha - “My son Bharata only should become the king. And also Rama should go to the forest." Dasharatha loses consciousness. Rama bows to Dasharatha and Kaikeyi. He leaves the city. Seeta and Lakshmana follow Rama. Rama, LakshmaNa, and Seeta cross the river on a boat. They enter the forest. All the people are very dejected. Separated from Rama, Dasharatha attains death. Bharata and Shatrughna return from their maternal uncle’s place. Bharata comes to know of all that happened. He is sad and angry. He rejects the throne. He with his family enter the forest. There they all meet with Rama. Bharata pleads to Rama that he only should become the king of Ayodhya. Rama replies - "Hey Bharata, right now I will live in the forest only. After fourteen years, I will return to Ayodhya. I will be the king then." Bharata says - "Dear Rama, please give me your sandals. With the help of those I will rule the kingdom." Rama gives him his sandals. Bharatha places the sandals over his head. He returns to Ayodhya with his family. Rama with Seeta and LakshmaNa go to another forest.

Thursday, June 25, 2020

सुलभबालकाण्डम् Simple Balakandam

दशरथः इक्ष्वाकुवंशस्य महाराजः । सः अयोध्यानगरे वसति । दशरथस्य प्रथमा पत्नी कौसल्या । द्वितीया सुमित्रा । कैकेयी च तृतीया । सः एकं यागं करोति । अग्निकुण्डे यज्ञपुरुषः प्रत्यक्षः भवति । यज्ञपुरुषात् दशरथः पायसं प्राप्नोति । दशरथस्य पत्न्यः पायसं पिबन्ति । तस्य प्रभावात् कौसल्यायाः गर्भे रामः अवतरति । सुमित्रायाः लक्ष्मणः शत्रुघ्नः इति पुत्रौ भवतः । कैकेयी भरतः इति पुत्रं जनयति ।

एकदा महर्षिः विश्वामित्रः महाराजस्य दशरथस्य समीपम् आगच्छति । सः वदति - “अहं एकं यागं करोमि । यागसमये राक्षसाः विघ्नं जनयन्ति । यागस्य रक्षणाय भवतः पुत्रं रामं मया सह प्रेषयतु” । दशरथः वदति - "रामः तु बालकः । अहम् एव आगच्छामि" । विश्वामित्रः वदति - "रामः बालकः । परन्तु सः समर्थः अस्ति । सः एव आगच्छतु" । दशरथः विश्वामित्रेण सह रामं प्रेषयति । रामेण सह लक्ष्मणः अपि गच्छति ।

रामलक्ष्मणौ महर्षिणा विश्वामित्रेण सह चलतः । मार्गे घोरं वनं भवति । तत्र ताटका इति राक्षसी निवसति । रामः दुष्टायाः ताटकायाः वधं करोति । अनन्तरं रामः लक्ष्मणः च विश्वामित्रस्य आश्रमं प्रविशतः । विश्वामित्रः यागस्य आरम्भं करोति । सुबाहुः मारीचः इति राक्षसौ तत्र आगच्छतः । तौ यागस्य नाशाय रक्तमांसादिकं पातयतः । रामः बाणेन सुबाहुं मारयति । रामस्य बाणेन मारीचः समुद्रे पतति । विश्वामित्रस्य यागः निर्विघ्नः समाप्तः भवति ।

मिथिलानगरस्य राजा जनकः । तस्य पुत्री सीता । सा अतीव सुन्दरी गुणसंपन्ना च । महाराजस्य जनकस्य समीपे एकः दिव्यः चापः अस्ति । यः तस्य चापस्य मौर्वीबन्धनं करोति सः एव सीतायाः पतिः भवति इति जनकस्य निश्चयः । रामलक्ष्मणौ विश्वामित्रेण सह मिथिलानगरं गच्छतः । मार्गे ते गौतममुनेः आश्रमं प्रविशन्ति । तत्र मुनेः पत्नी अहल्या शापग्रस्ता तिष्ठति । रामस्य दर्शनेन अहल्या शापमुक्ता भवति ।  

अनन्तरं तौ राजपुत्रौ मिथिलानगरम् आगच्छतः । रामः दिव्यं चापं पश्यति । सः तं चापं सुलभतया गृह्णाति । मौर्वीबन्धनस्य समये चापः भग्नः भवति । दशरथः परिवारेण सह मिथिलानगरम् आगच्छति । सीतायाः विवाहः रामेण सह भवति । तदा भगवान् परशुरामः तत्र आगच्छति । सः अन्यं दिव्यं चापं रामाय ददाति । एतस्य चापस्य मौर्वीबन्धनं करोतु इति रामं वदति । रामः तस्य चापस्य अपि मौर्वीबन्धनं करोति । परशुरामः रामम् अभिनन्दति । दशरथः परिवारेण सह मिथिलानगरात् अयोध्यानगरं गच्छति ।

Meanings of some words:
चापः = bow (धनुः)
जनयति = creates/produces
घोर = scary
पातयति = throws down
मौर्वीबन्धनम् = tying of string to a bow
शापग्रस्त = afflicted by curse
शापमुक्त = free from curse

Thursday, June 18, 2020

बालकिष्किन्धाकाण्डम् Kishkindha Kandam made Simple


सुग्रीवः वाली च सहोदरौ | वाली किष्किन्धादेशस्य भूपः | सहोदरस्य भयात् सुग्रीवः ऋष्यमूकपर्वते वसति | सुग्रीवेण सह तस्य वानरगणः अपि वसति | रामः लक्ष्मणः च ऋष्यमूकपर्वतम् आगच्छतः | तत्र मारुतिः रामेण सह मिलति | मारुतिः रामेण सह भाषणं करोति | रामः लक्ष्मणः च  मारुतिना सह सुग्रीवस्य समीपं गच्छतः | रामः सुग्रीवेण सह सख्यं करोति | वाली सुग्रीवः च युध्यतः | तदा रामः सुग्रीवस्य सहोदरं मारयति | सुग्रीवः किष्किन्धादेशस्य भूपः भवति | अङ्गदः युवराजः भवति | सीतायाः अन्वेषणम् करोतु इति सुग्रीवः वानरगणम् आज्ञापयति | वानराः सर्वत्र गच्छन्ति | अङ्गदः वानरगणेन सह दक्षिणदिशां गच्छति | मारुतौ रामस्य पूर्णः विश्वासः | रामः मारुतये अङ्गुलीयकं ददाति | मारुतिः अङ्गदेन सह गच्छति | मारुतिः अङ्गदः वानराः च दक्षिणसमुद्रस्य तीरम् आगच्छन्ति | तत्र खगेन संपातिना सह ते मिलन्ति | लङ्कायां सीता अस्ति इति संपातिः कथयति | समुद्रस्य लङ्घनं कः करोति इति वानराः चिन्तयन्ति | कोऽपि वानरः सिद्धः न भवति | तदा जाम्बवान् मारुतेः शक्तिं वर्णयति | मारुतिः रामं स्मरति | सः महेन्द्रपर्वतम् आरोहति | भक्तश्रेष्ठः सः लङ्घनाय सिद्धः भवति |

Focus on: Usage of द्विवचनम्, बहुवचनम्, सह, विशेषणम्, पुरतः

Meaning of some words:

भूपः = राजा king                               सख्यम् = मैत्री friendship

आज्ञापयति = orders                          कथयति = वदति tells

कोऽपि = कः अपि anybody                वर्णयति = describes


English Translation:

sugrIva and vAlI are brothers. vAlI is the king of Kishkindha region. Being afraid of his brother, sugrIva lives on R^ShyamUka mountain. His monkey army (vAnaragaNa) also lives with sugrIva. rAma and lakShmaNa arrive at R^shyamUka mountain. There, mAruti meets rAma. mAruti talks with rAma. rAma and lakShmana along with mAruti go to sugrIva. rAma befriends sugrIva. vAlI and sugrIva fight. Then rAma kills sugrIva’s brother. SugrIva becomes the king of Kishkindha region. angada becomes the crown prince. sugrIva orders the monkey army, “Go search for sItA”. The monkeys go everywhere. angada, along with the monkey army, goes to the south direction. rAma has complete trust in mAruti. rAma gives his finger ring to mAruti. mAruti goes with angada. mAruti, angada and the monkeys arrive in front of the southern sea. There they meet the bird sampAti. sampAti tells, “sItA is in Lanka''. The monkeys think as to who can cross the sea. None of the monkeys becomes ready. Then, jAmbavAn describes mAruti’s strength. mAruti remembers (prays to) rAma. He climbs up the mahendra mountain. The most devoted (to rAma) mAruti gets ready for the leap.


Sunday, May 31, 2020

बालसुन्दरकाण्डम् Sundarakandam for Beginners


वायुपुत्रः मारुतिः विशालं समुद्रं लङ्घयति | सः लङ्कानगरं प्रविशति | सः माता सीता कुत्र इति चिन्तयति | सः नगरे सर्वत्र जानकीम् अन्विष्यति | सः रावणस्य भवनस्य अन्तः गच्छति | तत्र अपि सीतायाः दर्शनं न भवति | मारुतिः नगरस्य बहिः अशोकवाटिकां प्राप्नोति | वाटिकायां वृक्षस्य अधः दुःखितां सीतां पश्यति | सः मधुरया वाण्या रामस्य कथां गायति | देवी सीता आनन्दिता भवति | मारुतिः देव्यै सीतायै रामस्य अङ्गुलीयकं ददाति | सीता मारुतये केशाभरणं यच्छति | अनन्तरं मारुतिः रावणस्य पुत्रम् अक्षकुमारं मारयति | रावणस्य अन्यः पुत्रः मेघनादः ब्रह्मास्त्रेण मारुतेः बन्धनं करोति | रावणः मारुतेः पुच्छं ज्वालयति | मारुतिः तेन एव अग्निना सर्वं नगरं ज्वालयति | सः लङ्कानगरात् रामस्य समीपं गच्छति | सः रामाय सीतायाः केशाभरणं ददाति | भक्तश्रेष्ठः मारुतिः प्रभुं रामं नमति |

Meaning of some words:
अन्विष्यति = searches
आनन्दिता = happy (feminine)
यच्छति = gives
अङ्गुलीयकम् = ring (worn in finger)
केशाभरणम् = ornament worn in hair
ज्वालयति = burns

Thursday, September 20, 2018

Sundarakanda in One Shloka एकश्लोकी सुन्दरकाण्डम्

|| राघवेन्द्रस्वामिविरचितम् एकश्लोकी सुन्दरकाण्डम् ||

यस्य श्रीहनुमाननुग्रहबलात्तीर्णाम्बुधिर्लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रम्भजे ॥

इति राघवेन्द्रस्वामिविरचितं एकश्लोकी सुन्दरकाण्डं सम्पूर्णम् ।

पदच्छेदः
यस्य श्रीहनुमान् अनुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिः युतो यम् अनमत् तं रामचन्द्रं भजे ॥

अन्वयः
यस्य अनुग्रहबलात् श्रीहनुमान् लीलया तीर्णाम्बुधिः, लङ्कां प्राप्य, रामदयितां निशाम्य, वनं भङ्क्त्वा, अक्षादीन् राक्षसान् विनिहत्य, दशकं वीक्ष्य, तां पुरीं दग्ध्वा, पुनः तीर्णाब्धिः, कपिभिः युतः, यम् अनमत्, तं रामचन्द्रं भजे |

अर्थः
यस्य = यस्य पुरुष्यस्य, अनुग्रहबलात् = प्रसादात्, श्रीहनुमान् = वायुपुत्रः, लीलया = निरायासेन, तीर्णाम्बुधिः = सागरं लङ्घितवान्, लङ्कां प्राप्य = लङ्कानगरीं गत्वा, रामदयितां निशाम्य = सीतां रामसंदेशं श्रावयित्वा, वनं भङ्क्त्वा = अशोकवनस्य नाशनं कृत्वा, अक्षादीन् राक्षसान् विनिहत्य = अक्षकुमारादीन् अनेकराक्षसान् मारयित्वा, दशकं वीक्ष्य = रावणेन सह वार्तालापं कृत्वा, तां पुरीं दग्ध्वा = लङ्कादहनं कृत्वा, पुनः तीर्णाब्धिः = पुनः सागरं लङ्घितवान्, कपिभिः युतः = वानरैः सह मिलितवान्, (अनन्तरं) यम् अनमत् = (सः आञ्जनेयः) यं पुरुषश्रेष्ठं प्रणतवान्, तं रामचन्द्रं भजे = तं श्रीरामचन्द्रं प्रीणये |

In English:
I salute Ramachandra, by whose blessings, Shri Hanuman easily crossed the sea, reached Lanka and delivered Rama's message to Sita, destroyed the (Ashoka) garden, killed Aksha and many demons, met Ravana, burned down the city of Lanka, crossed the sea again, joined with the other monkeys, and then bowed at his (Rama's) feet.

Saturday, March 24, 2018

Ramayana - Some Interesting Facts

वाल्मीकिरामायणे आसीतापहरणपट्टाभिषेकपर्यन्तं कथासंग्रहः
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
वाल्मीकिरामायणे नैकेषु स्थलेषु श्रीरामस्य विष्णुदैवत्वमतिस्पष्टतया विदितमुक्तं चास्ति | सीतायाः लक्ष्मीत्वमपि | तथापि पितामहब्रह्मणा रावणाय प्रदत्तं देवदानवावध्यत्वमाद्रियमाणः परब्रह्म भगवान् विष्णुः मानुषरूपेण भूलोके अवततार | "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे" इति कृष्णावतारे जोघुष्यमाणः महाविष्णुः रामावतारे तु देवतागणैः स्तूयमानोऽपि "आत्मानं मानुषं मन्ये रामं दशरथात्मजं..." इति कथयन् संपूर्णमानुषत्वं प्रदर्शयति |

निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |

रावणवधबीजं स्त्रीमूलं सीताहेतुजातमिति बहवः कथयन्ति | परन्तु शूर्पणखायाः निस्त्रपाटोपभ्रष्टचेष्टाः एव एतन्महायुद्धकारणा इति दरीदृश्यते | विकृताङ्गस्वसुः पापवचनैरुद्दीप्तमनाः रावणः प्रतीकारबुद्धिरभूत् | कम्पननामकात् सेनापतिमुखात् खरदूषणादिहनने रामबलमाकर्ण्य उदासीनोभवत् | ततःपुनः शूर्पणखाप्रलपनात् सः स्वबन्धुं मारीचं प्राप्य साहाय्यं ययाचे | रामबाणपरिणामसुविज्ञातः मारीचः रावणं समुपदिश्य लङ्कां निवर्तयामास | तच्छ्रुत्वा शूर्पणखाक्रन्दनं गुरुतरमसह्यं च जातम् | कुलघ्नप्रायं सीतहरणनिश्चयं कृत्वा पौलस्त्यः पुनः मारीचेन मिलित्वा प्रसभं योजनां रचयामास | स्वर्णमृगो मारीच एवेति लक्ष्मणेनोक्तोऽपि सुवर्णमृगलालसयापहृतचेतया जानक्या प्रचोदितः रामः मायामृगमार्गयमाणोऽन्वधावत् | ततः सीताकठोरवचनाल्लक्ष्मणोऽप्याश्रमान्निर्गतः | तदेवावसरं नीरिक्ष्य रूपान्तरे भैक्ष्यं याचमाने रावणे सीता विमलमना सत्कारपूर्वकं रामवृत्तान्तमशेषेणाकथयत | रावणेनापहृतां मित्रवधूं प्रपश्य खगोत्तमः जटायुर्विव्हलः राक्षसेन युद्धं कृत्वा व्रणितः मरणप्रायो जातः | तस्मिन्नवसरे ततः पलयमानां सीतां भीतां राक्षसेन्द्रः पुनराकृष्याकाशमार्गेण लङ्कामवाप | तत्र तां स्वभवने स्थापयित्वा मृदुवचनैः प्रसादयितुं यतित्वा विफलीभूतः रावणः सीतामशोकवनं निर्यायितवान् |

एतस्मिन्नन्तरे सलक्ष्मणः रामः वैदीहीमन्विष्यन् रक्तसिक्तवदनं धराशायीं जटायुमवलोक्य तत्पक्षिणैव सीता भक्षितेति संदिहन् तं हन्तुमुद्युक्तः | तदा पक्षिणो मुखाद्दशरथमर्मरमाकर्ण्य विस्मितः रामः तं सान्त्वयित्वा सीताहरणविषयेऽपि मनागवागच्छत् | तदनन्तरं पम्पाप्रदेशे हनुमन्मेलनप्रीतः रामः क्षरजपुत्रस्य सुग्रीवाग्रजस्य वालिनः वधाञ्चकार | सुग्रीवाज्ञया चोदिताः हरिगणाः दिक्षु सर्वासु परिभ्रमन्तः दक्षिणसमुद्रतीरे जटाय्वाग्रजेन सम्पातिना सीतादेव्याः स्थानं श्रुत्वा परिहृष्टा बभूवुः |

पवनसुत आञ्जनेयो महाजलधिं लङ्घित्वा सीतदर्शनकृतकृत्योऽभिज्ञानसहितः लङ्कादहनसन्नादः पुनराजगाम ऋष्यमूकं रामसमीपम् | रामलक्ष्मणसुग्रीवाङ्गदनलनीलजाम्बवद्धनूमदूर्मिभिरलंकृता हरिवाहिनी सुग्रीवनगरात् प्रस्थाप्य वरुणालयस्योत्तरतीरमासादयामास | तत्रागतः रावणानुजो विभीषणः रामाश्रयमुपापद्यत | रामक्रोधाद्भीतेन वरुणदेवेनादिष्टः वानरप्रमुखो नलः समुद्रोपरि महासेतुं निर्ममौ | जलं तीर्त्वा दशकोटिसंख्याका वानराः युद्धाय सिद्धा अतिष्ठन् | ततस्सञ्जाते सङ्ग्रामे प्रहस्तादयः राक्षसगणप्रमुखाः मृत्युमुखा अभवन् | तदा मायायुद्धनिपुणः रावणसुतः इन्द्रजित् रणाङ्गणेऽवतीर्य वानरान् बहुधा सम्पीडयन् रामलक्ष्मणावपि युद्धभूमौ पातयित्वा तौ नागपाशेन बबन्ध | सः शक्रारिः विमाने सीतामानय्य तद्दृश्यमदर्शयत | हताशा सीता परिक्रोशन्ती राक्षसीष्वेकया समाश्वासनमलभत | रामलक्ष्मणयोर्बन्धः गरुडदेवेन मोचितः |

अमोघशक्तिसंचयनार्थं इन्द्रजिति निरते सति रावणः स्वयं समराङ्गणमागत्य पराक्रममद्भुतवीर्यं प्रदर्शयन् सर्ववानरवीरान् त्रासयामास | लक्ष्मणः रावणेन घातितो निश्चेष्टितोभवत् | तदा लक्ष्मणं बाहुशक्त्या उत्थाप्य अपहर्तुं प्रयतमानः रावणः विफलो बभूव | मारुतेर्मुष्टिप्रहारात् रुधिरं वमन् रावणः पराङ्मुखोभवत् | तदनन्तरं रावणिः पुनः युद्धभूमिं प्रविश्य बलवद्भिरस्त्रैः संपूर्णकपिसैन्यं क्षोभायमानः रामलक्ष्मणौ संज्ञाविहीनावकुरुत | वानरवैद्यसुषेणेच्छानुसारेण ओषधीरवचेतुं पवनात्मजः हिमालयप्रदेशं प्रति उत्पुप्लुवे | विलम्बमनिच्छन् महामतिस्सः सुमहापर्वतखण्डमेव हस्ते गृहीत्वा प्रत्यागमत् | ओषधिप्रभावेण प्रबोधितौ राघवभ्रातरौ दृष्ट्वा कपिसेना हर्षोल्लासेन ननाद | सीताराममिलनोत्सुकाः वानरवीराः रात्रिसमये लङ्कानगरीं प्रविश्य तस्य बहुभागमग्निसाच्चक्रुः |

क्रोधमूर्छितेन रावणेन शयनादुत्थापितः रणङ्गमो महागात्रः कुम्भकर्णोपि युद्धे रामेण मारितः | ततश्शक्रजिदपि भयङ्करयुद्धे लक्ष्मणेन हतः | तद्वार्तामाकर्ण्यासमाहितावगुणमूर्खा शूर्पणखा रावणमुपगम्य रणे तस्यापयशमुद्दिश्य भर्त्सनवाक्यानश्रावयत् | नष्टबन्धुबान्धवः स्वसृभर्त्सनकर्शितः दशाननस्तदा प्राणपण्यं युद्धं कर्तुं निरचिनुत | ब्रह्ममहेश्वरेन्द्रादिदेववृन्दः महर्षिगणश्च रामरावणयोर्युद्धं दिदृक्षवः अम्बरे समाविष्टाः | रक्षसाधिपः वीरोचितयुद्धं कुर्वाणः मन्त्रास्त्रप्रयोगबलात् शत्रुगणे हाहाकारमवर्धयत | दशाननप्रयुक्तेन विशिष्टबलसमन्वितेन शक्त्यस्त्रेण रामानुजः मूर्छितः | रामे विलपिते सति सुषेणेन पुनरुक्तो हनुमान् सत्वरेण पुनरेकवारं हिमगिरिं प्राप्य गिरिभागमानयत् | तद्वनस्पतिकारणाल्लक्ष्मणो जातस्सलक्षणः |
सर्वलोकाधिरामे विजिगीषमाणः सुराधिपतिरिन्द्रः स्वामिसेवार्थं स्वरथं सारथिमातलियुक्तं प्रेषयामास | श्रीरामः तद्रथोत्तमं प्रणम्य रथोपस्थः अरुणोदितभानुरिव विरराज | इन्द्रध्वजरामस्य मुण्डध्वजरावणस्य संघर्षस्तत्तुमुलोभवत् | निशितैः रामेषुसहस्रैः प्रव्यथितः राक्षसः रथे निपपात | स्वस्वामिनः दुस्थितिमवेक्ष्य रावणसारथिः रथमपानयत रणाङ्गणात् | अचिरेण लब्धसंज्ञः राक्षसपतिः रणोपरमयमानं स्वसारथिं भृशं तर्जयामस | युद्धक्षेत्रं पुनः प्राप्य तपोबलप्राप्तानि नानाविधान्यस्त्राणि प्रकटयितुमारभत | तदा अगस्त्यमुनिः श्रीरामं विजयप्रदायकम् आदित्यहृदयस्तोत्रमुपादिशत् | शत्रुविनाशकं सूर्यदेवताकस्तोत्रमनुसन्दधच्छ्रीरामः तीक्ष्णसायकेनैकेन रावणहृदयभेदनमकरोत् | रावणभयान्मुक्ताः तुतोक्षमाणाः देवर्षिगणाः रामं संस्तुष्टुवुः | रामोऽपि इन्द्रेण सर्वान् मृतवानरान् पुनरुज्जीवयामास |
रामस्तदनन्तरं रावणस्य और्ध्वदैहिकक्रियां कारयित्वा विभीषणाय लङ्काधिपत्यं प्राददात् | रामादेशात् जानकी स्नात्वा शुभवस्त्राद्यलंकृता बाष्पनेत्रगद्गदा राममुपागमत् | पुरुषोत्तमरामेण रावणे निर्जिते यथेष्टं गन्तुमुक्ता सा अनिन्दिता स्वेच्छया अग्निप्रवेशं चकार | प्रकटीभूतेनाग्निदेवेन परमपवित्रेति उद्घोषितया सीतया तथा विभीषणवानरादिभिस्सह श्रीरामः पुष्पकविमानमारुह्य अयोध्यानगरीं प्राप्य पुरजनैः समादृतः सुमुहूर्ते ससीतः पट्टाभिषिक्तोऽभवत् |
रामाय रामभद्राय रामचन्द्राय वेधसे |
नाथाय रघुनाथाय सीतायाः पतये नमः ||