वाल्मीकिरामायणे आसीतापहरणपट्टाभिषेकपर्यन्तं कथासंग्रहः
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
वाल्मीकिरामायणे नैकेषु स्थलेषु श्रीरामस्य विष्णुदैवत्वमतिस्पष्टतया विदितमुक्तं चास्ति | सीतायाः लक्ष्मीत्वमपि | तथापि पितामहब्रह्मणा रावणाय प्रदत्तं देवदानवावध्यत्वमाद्रियमाणः परब्रह्म भगवान् विष्णुः मानुषरूपेण भूलोके अवततार | "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे" इति कृष्णावतारे जोघुष्यमाणः महाविष्णुः रामावतारे तु देवतागणैः स्तूयमानोऽपि "आत्मानं मानुषं मन्ये रामं दशरथात्मजं..." इति कथयन् संपूर्णमानुषत्वं प्रदर्शयति |
निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |
निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |
रावणवधबीजं स्त्रीमूलं सीताहेतुजातमिति बहवः कथयन्ति | परन्तु शूर्पणखायाः निस्त्रपाटोपभ्रष्टचेष्टाः एव एतन्महायुद्धकारणा इति दरीदृश्यते | विकृताङ्गस्वसुः पापवचनैरुद्दीप्तमनाः रावणः प्रतीकारबुद्धिरभूत् | अकम्पननामकात् सेनापतिमुखात् खरदूषणादिहनने रामबलमाकर्ण्य उदासीनोऽभवत् | ततःपुनः शूर्पणखाप्रलपनात् सः स्वबन्धुं मारीचं प्राप्य साहाय्यं ययाचे | रामबाणपरिणामसुविज्ञातः मारीचः रावणं समुपदिश्य लङ्कां निवर्तयामास | तच्छ्रुत्वा शूर्पणखाक्रन्दनं गुरुतरमसह्यं च जातम् | कुलघ्नप्रायं सीतहरणनिश्चयं कृत्वा पौलस्त्यः पुनः मारीचेन मिलित्वा प्रसभं योजनां रचयामास | स्वर्णमृगो मारीच एवेति लक्ष्मणेनोक्तोऽपि सुवर्णमृगलालसयापहृतचेतया जानक्या प्रचोदितः रामः मायामृगमार्गयमाणोऽन्वधावत् | ततः सीताकठोरवचनाल्लक्ष्मणोऽप्याश्रमान्निर्गतः | तदेवावसरं नीरिक्ष्य रूपान्तरे भैक्ष्यं याचमाने रावणे सीता विमलमना सत्कारपूर्वकं रामवृत्तान्तमशेषेणाकथयत | रावणेनापहृतां मित्रवधूं प्रपश्य खगोत्तमः जटायुर्विव्हलः राक्षसेन युद्धं कृत्वा व्रणितः मरणप्रायो जातः | तस्मिन्नवसरे ततः पलयमानां सीतां भीतां राक्षसेन्द्रः पुनराकृष्याकाशमार्गेण लङ्कामवाप | तत्र तां स्वभवने स्थापयित्वा मृदुवचनैः प्रसादयितुं यतित्वा विफलीभूतः रावणः सीतामशोकवनं निर्यायितवान् |
एतस्मिन्नन्तरे सलक्ष्मणः रामः वैदीहीमन्विष्यन् रक्तसिक्तवदनं धराशायीं जटायुमवलोक्य तत्पक्षिणैव सीता भक्षितेति संदिहन् तं हन्तुमुद्युक्तः | तदा पक्षिणो मुखाद्दशरथमर्मरमाकर्ण्य विस्मितः रामः तं सान्त्वयित्वा सीताहरणविषयेऽपि मनागवागच्छत् | तदनन्तरं पम्पाप्रदेशे हनुमन्मेलनप्रीतः रामः क्षरजपुत्रस्य सुग्रीवाग्रजस्य वालिनः वधाञ्चकार | सुग्रीवाज्ञया चोदिताः हरिगणाः दिक्षु सर्वासु परिभ्रमन्तः दक्षिणसमुद्रतीरे जटाय्वाग्रजेन सम्पातिना सीतादेव्याः स्थानं श्रुत्वा परिहृष्टा बभूवुः |
पवनसुत आञ्जनेयो महाजलधिं लङ्घित्वा सीतदर्शनकृतकृत्योऽभिज्ञानसहितः लङ्कादहनसन्नादः पुनराजगाम ऋष्यमूकं रामसमीपम् | रामलक्ष्मणसुग्रीवाङ्गदनलनीलजाम्बवद्धनूमदूर्मिभिरलंकृता हरिवाहिनी सुग्रीवनगरात् प्रस्थाप्य वरुणालयस्योत्तरतीरमासादयामास | तत्रागतः रावणानुजो विभीषणः रामाश्रयमुपापद्यत | रामक्रोधाद्भीतेन वरुणदेवेनादिष्टः वानरप्रमुखो नलः समुद्रोपरि महासेतुं निर्ममौ | जलं तीर्त्वा दशकोटिसंख्याका वानराः युद्धाय सिद्धा अतिष्ठन् | ततस्सञ्जाते सङ्ग्रामे प्रहस्तादयः राक्षसगणप्रमुखाः मृत्युमुखा अभवन् | तदा मायायुद्धनिपुणः रावणसुतः इन्द्रजित् रणाङ्गणेऽवतीर्य वानरान् बहुधा सम्पीडयन् रामलक्ष्मणावपि युद्धभूमौ पातयित्वा तौ नागपाशेन बबन्ध | सः शक्रारिः विमाने सीतामानय्य तद्दृश्यमदर्शयत | हताशा सीता परिक्रोशन्ती राक्षसीष्वेकया समाश्वासनमलभत | रामलक्ष्मणयोर्बन्धः गरुडदेवेन मोचितः |
अमोघशक्तिसंचयनार्थं इन्द्रजिति निरते सति रावणः स्वयं समराङ्गणमागत्य पराक्रममद्भुतवीर्यं प्रदर्शयन् सर्ववानरवीरान् त्रासयामास | लक्ष्मणः रावणेन घातितो निश्चेष्टितोऽभवत् | तदा लक्ष्मणं बाहुशक्त्या उत्थाप्य अपहर्तुं प्रयतमानः रावणः विफलो बभूव | मारुतेर्मुष्टिप्रहारात् रुधिरं वमन् रावणः पराङ्मुखोऽभवत् | तदनन्तरं रावणिः पुनः युद्धभूमिं प्रविश्य बलवद्भिरस्त्रैः संपूर्णकपिसैन्यं क्षोभायमानः रामलक्ष्मणौ संज्ञाविहीनावकुरुत | वानरवैद्यसुषेणेच्छानुसारेण ओषधीरवचेतुं पवनात्मजः हिमालयप्रदेशं प्रति उत्पुप्लुवे | विलम्बमनिच्छन् महामतिस्सः सुमहापर्वतखण्डमेव हस्ते गृहीत्वा प्रत्यागमत् | ओषधिप्रभावेण प्रबोधितौ राघवभ्रातरौ दृष्ट्वा कपिसेना हर्षोल्लासेन ननाद | सीताराममिलनोत्सुकाः वानरवीराः रात्रिसमये लङ्कानगरीं प्रविश्य तस्य बहुभागमग्निसाच्चक्रुः |
क्रोधमूर्छितेन रावणेन शयनादुत्थापितः रणङ्गमो महागात्रः कुम्भकर्णोऽपि युद्धे रामेण मारितः | ततश्शक्रजिदपि भयङ्करयुद्धे लक्ष्मणेन हतः | तद्वार्तामाकर्ण्यासमाहितावगुणमूर्खा शूर्पणखा रावणमुपगम्य रणे तस्यापयशमुद्दिश्य भर्त्सनवाक्यानश्रावयत् | नष्टबन्धुबान्धवः स्वसृभर्त्सनकर्शितः दशाननस्तदा प्राणपण्यं युद्धं कर्तुं निरचिनुत | ब्रह्ममहेश्वरेन्द्रादिदेववृन्दः महर्षिगणश्च रामरावणयोर्युद्धं दिदृक्षवः अम्बरे समाविष्टाः | रक्षसाधिपः वीरोचितयुद्धं कुर्वाणः मन्त्रास्त्रप्रयोगबलात् शत्रुगणे हाहाकारमवर्धयत | दशाननप्रयुक्तेन विशिष्टबलसमन्वितेन शक्त्यस्त्रेण रामानुजः मूर्छितः | रामे विलपिते सति सुषेणेन पुनरुक्तो हनुमान् सत्वरेण पुनरेकवारं हिमगिरिं प्राप्य गिरिभागमानयत् | तद्वनस्पतिकारणाल्लक्ष्मणो जातस्सलक्षणः |
सर्वलोकाधिरामे विजिगीषमाणः सुराधिपतिरिन्द्रः स्वामिसेवार्थं स्वरथं सारथिमातलियुक्तं प्रेषयामास | श्रीरामः तद्रथोत्तमं प्रणम्य रथोपस्थः अरुणोदितभानुरिव विरराज | इन्द्रध्वजरामस्य मुण्डध्वजरावणस्य संघर्षस्तत्तुमुलोऽभवत् | निशितैः रामेषुसहस्रैः प्रव्यथितः राक्षसः रथे निपपात | स्वस्वामिनः दुस्थितिमवेक्ष्य रावणसारथिः रथमपानयत रणाङ्गणात् | अचिरेण लब्धसंज्ञः राक्षसपतिः रणोपरमयमानं स्वसारथिं भृशं तर्जयामस | युद्धक्षेत्रं पुनः प्राप्य तपोबलप्राप्तानि नानाविधान्यस्त्राणि प्रकटयितुमारभत | तदा अगस्त्यमुनिः श्रीरामं विजयप्रदायकम् आदित्यहृदयस्तोत्रमुपादिशत् | शत्रुविनाशकं सूर्यदेवताकस्तोत्रमनुसन्दधच्छ्रीरामः तीक्ष्णसायकेनैकेन रावणहृदयभेदनमकरोत् | रावणभयान्मुक्ताः तुतोक्षमाणाः देवर्षिगणाः रामं संस्तुष्टुवुः | रामोऽपि इन्द्रेण सर्वान् मृतवानरान् पुनरुज्जीवयामास |
रामस्तदनन्तरं रावणस्य और्ध्वदैहिकक्रियां कारयित्वा विभीषणाय लङ्काधिपत्यं प्राददात् | रामादेशात् जानकी स्नात्वा शुभवस्त्राद्यलंकृता बाष्पनेत्रगद्गदा राममुपागमत् | पुरुषोत्तमरामेण रावणे निर्जिते यथेष्टं गन्तुमुक्ता सा अनिन्दिता स्वेच्छया अग्निप्रवेशं चकार | प्रकटीभूतेनाग्निदेवेन परमपवित्रेति उद्घोषितया सीतया तथा विभीषणवानरादिभिस्सह श्रीरामः पुष्पकविमानमारुह्य अयोध्यानगरीं प्राप्य पुरजनैः समादृतः सुमुहूर्ते ससीतः पट्टाभिषिक्तोऽभवत् |
रामाय रामभद्राय रामचन्द्राय वेधसे |
नाथाय रघुनाथाय सीतायाः पतये नमः ||
No comments:
Post a Comment