भीममारुतिसमागमः
पद्यकथा
पद्यकथा
अक्षक्रीडापराभूतास्सत्यधर्मपरायणाः
न्यवसन् ते वने घोरे सकृष्णाः पाण्डुनन्दनाः || १ ||
एकदा पुष्पगन्धेन द्रौपदी बहुमोहिता |
भीमं हृदयकान्तारं सुमार्थमन्वमोदत || २ ||
प्राणप्रियावचं श्रुत्वा मुख्यप्राणो महाबलः |
पुष्पाहरणव्याजेन प्रतस्थौ गन्धमादनम् || ३ ||
कम्पयन् शैलशिखरं त्रासयन् मृगपक्षिणः |
पातयन् वृक्षमातङ्गान् प्राचलत्स गदाधरः || ४ ||
द्वितीयमद्वितीयं तं स्वात्मानं मानुषाकृतिं |
दिदृक्षन्मारुतिर्तस्य मार्गेऽभूद्हितकाम्यया || ५ ||
सुसुषुप्तजराकायं मार्गमावृत्यसंस्थितं |
कपीन्द्रमाह कौन्तेयः देहोऽयमपसार्यताम् || ६ ||
प्रोवाच वानरश्रेष्ठो वृद्धोऽहं त्वं महाबली |
यथेष्टं गम्यतामग्रे वालधिं मे निवारय || ७ ||
प्रहसन्निव तल्लूमं दर्पितो मध्यमस्तदा |
बाहुभ्यां सर्वशक्त्यापि कर्षितुं न शशाक ह || ८ ||
व्रीडितो नतमस्तिष्को भग्नदर्पो बृहन्नरः |
परिचयं हरिरूपस्य संपप्रच्छ वृकोदरः || ९ ||
हनूमान्नाम मे वत्स रामनाममधुप्रियः |
संभवो मातरिश्वनः भ्राता ते वायुनन्दन || १० ||
रामेण निहतो युद्धे वित्रस्तो रावणो मया |
किंपुरुषोषितस्तेऽहमागतो दर्शानाशया || ११ ||
विस्मितवदनो भीमो बभाषे हरिपुङ्गवं |
प्राप्तो दिष्ट्या मया दृश्यं रूपं ते सागरोत्प्लवम् || १२ ||
कृतत्रेतादिकालेषु यथायोग्यक्रियापरः |
प्रार्थं प्रार्थं मरुत्सूनुमनुनिन्येऽर्जुनाग्रजः |
दर्शितं रूपरौद्रमनिलेन खलमर्दनम् || १४ ||
प्रपश्य देहमतिमानुषं तं सगद्गदस्स प्रणिपत्य भीमः |
सहर्षचित्तस्तरसा जगाम संजीववन्द्यो जगदेकवीरः || १५ ||
(श्रीमन्महाभारतकथाधारितमिदं पद्यम्)
No comments:
Post a Comment