दशरथः इक्ष्वाकुवंशस्य महाराजः । सः अयोध्यानगरे वसति । दशरथस्य प्रथमा पत्नी कौसल्या । द्वितीया सुमित्रा । कैकेयी च तृतीया । सः एकं यागं करोति । अग्निकुण्डे यज्ञपुरुषः प्रत्यक्षः भवति । यज्ञपुरुषात् दशरथः पायसं प्राप्नोति । दशरथस्य पत्न्यः पायसं पिबन्ति । तस्य प्रभावात् कौसल्यायाः गर्भे रामः अवतरति । सुमित्रायाः लक्ष्मणः शत्रुघ्नः इति पुत्रौ भवतः । कैकेयी भरतः इति पुत्रं जनयति ।
एकदा महर्षिः विश्वामित्रः महाराजस्य दशरथस्य समीपम् आगच्छति । सः वदति - “अहं एकं यागं करोमि । यागसमये राक्षसाः विघ्नं जनयन्ति । यागस्य रक्षणाय भवतः पुत्रं रामं मया सह प्रेषयतु” । दशरथः वदति - "रामः तु बालकः । अहम् एव आगच्छामि" । विश्वामित्रः वदति - "रामः बालकः । परन्तु सः समर्थः अस्ति । सः एव आगच्छतु" । दशरथः विश्वामित्रेण सह रामं प्रेषयति । रामेण सह लक्ष्मणः अपि गच्छति ।
रामलक्ष्मणौ महर्षिणा विश्वामित्रेण सह चलतः । मार्गे घोरं वनं भवति । तत्र ताटका इति राक्षसी निवसति । रामः दुष्टायाः ताटकायाः वधं करोति । अनन्तरं रामः लक्ष्मणः च विश्वामित्रस्य आश्रमं प्रविशतः । विश्वामित्रः यागस्य आरम्भं करोति । सुबाहुः मारीचः इति राक्षसौ तत्र आगच्छतः । तौ यागस्य नाशाय रक्तमांसादिकं पातयतः । रामः बाणेन सुबाहुं मारयति । रामस्य बाणेन मारीचः समुद्रे पतति । विश्वामित्रस्य यागः निर्विघ्नः समाप्तः भवति ।
मिथिलानगरस्य राजा जनकः । तस्य पुत्री सीता । सा अतीव सुन्दरी गुणसंपन्ना च । महाराजस्य जनकस्य समीपे एकः दिव्यः चापः अस्ति । यः तस्य चापस्य मौर्वीबन्धनं करोति सः एव सीतायाः पतिः भवति इति जनकस्य निश्चयः । रामलक्ष्मणौ विश्वामित्रेण सह मिथिलानगरं गच्छतः । मार्गे ते गौतममुनेः आश्रमं प्रविशन्ति । तत्र मुनेः पत्नी अहल्या शापग्रस्ता तिष्ठति । रामस्य दर्शनेन अहल्या शापमुक्ता भवति ।
अनन्तरं तौ राजपुत्रौ मिथिलानगरम् आगच्छतः । रामः दिव्यं चापं पश्यति । सः तं चापं सुलभतया गृह्णाति । मौर्वीबन्धनस्य समये चापः भग्नः भवति । दशरथः परिवारेण सह मिथिलानगरम् आगच्छति । सीतायाः विवाहः रामेण सह भवति । तदा भगवान् परशुरामः तत्र आगच्छति । सः अन्यं दिव्यं चापं रामाय ददाति । एतस्य चापस्य मौर्वीबन्धनं करोतु इति रामं वदति । रामः तस्य चापस्य अपि मौर्वीबन्धनं करोति । परशुरामः रामम् अभिनन्दति । दशरथः परिवारेण सह मिथिलानगरात् अयोध्यानगरं गच्छति ।
Meanings of some words:
चापः = bow (धनुः)
जनयति = creates/produces
घोर = scary
पातयति = throws down
मौर्वीबन्धनम् = tying of string to a bow
शापग्रस्त = afflicted by curse
शापमुक्त = free from curse
No comments:
Post a Comment