Sunday, October 16, 2016

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स (Karoly Takacs)

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स

Karoly_Takacs_at_Melbourne.jpg

क्यारलि टकाकस् नामक महाशयः हन्गरिदेशे १९१० क्रिस्ताब्दे संजातः | सः हन्गरिदेशस्य भूसेनायां कार्यं करोति स्म | सः गोलिकास्त्रप्रयोगे(*) निपुणः अपि आसीत् | तस्य ओलिम्पिक्सखेलनेषु भागं वोढुं महती आशा आसीत् | परन्तु हन्गरिसेनायाः नियमानुसारेण १९३६ वत्सरस्य बर्लिन्-नगरस्थं ओलिम्पिक्सखेलनं गन्तुम् अशक्यमभवत् | क्यारलिमहाशयः १९४० टोक्योनगरे संभूयमानं ओलिम्पिक्सखेलनं कृते अभ्यासं कर्तुं आरभत |

अहो तस्य दुर्भाग्यम् ! १९३८ वत्सरे एकस्मिन् सेनाप्रशिक्षणशिबिरे स्फोटनदुर्घटनाकारणात् तस्य दक्षिणबाहुः उपहतः निष्क्रियः अभवत् | क्यारलिः धीरः स्थिरचित्तः रहसि स्थले वामबाहुना एव गोलिकास्त्राभ्यासं अकरोत् | १९३९ वत्सरे हन्गरिदेशस्य राष्ट्रीयगोलकास्त्रस्पर्धायां प्रथमस्थानं प्राप्तवानपि | तद्दृष्ट्वा सहस्पर्धालवः सर्वे जनाश्च परमविस्मिता अभवन् | तदनन्तरं १९४० टोक्योखेलनस्य प्रतीक्षां कुर्वन् आसीत् |

हा विधिवैचित्र्यम् ! १९४० तथा १९४४ उभे ओलिम्पिक्सखेलने अपि विश्वमहायुद्धकारणतः न संघटिते | ईदृशे दीर्घकाले सामान्यतः अन्यः कोऽपि हताशः भवेत् | न क्यारलिः | एतेषु विश्वस्तरीयस्पर्धासु स्पर्धालूनां आयुरपि महत्वपूर्णं भवति | तथापि ३८ वर्षीयः क्यारलिः विश्वे विस्मिते १९४८ वत्सरे लङ्डन्-नगरभूते ओलिम्पिक्सखेलने गोलिकास्त्रस्पर्धायां सुवर्णपदकं प्राप्य इतिहासम् अरचयत | बहुकालतः अभ्यासानन्तरं मनोभिलाषाम् अवाप्य सामान्यजनः श्रान्तः विरामं कुर्यात् | न क्यारलिः | १९५२ वत्सरे हेल्सिन्की-नगरभूते ओलिम्पिक्सखेलने सः पुनः सुवर्णपदकं प्राप्तवान् | तदनन्तरमपि क्यारलिः बहवः गोलिकास्त्रस्पर्धासु अनेकपदकान् जितवान् | गोलिकास्त्रविषये बहवः छात्रेभ्यः प्रशिक्षणमपि दत्तवान् |

मानवः प्रतिकूलस्थितिषु अपि यदि दृढसंकल्पः भवेत् तर्हि किमपि साधितुं शक्नोति इति एषा निजा कथा प्रतिपादयति | क्यारलिमहाशयस्य कथा लोके बहु स्फूर्तिदायिनी अस्ति |

* गोलिकास्त्र = pistol or gun

No comments:

Post a Comment