वने एकः सरोवरः आसीत् । सरोवरे एकः कूर्मः वसति स्म । यदा सूर्योदयः अभवत् तदा एकः शशकः तत्र आगतवान् । यावत् शशकः सरोवरस्य तीरम् आगतवान् तावत् कूर्मः अपि जलात् बहिः आगतवान् । कूर्मः मन्दम् चलति स्म । कूर्मं दृष्ट्वा शशकः हसितवान् ।
शशकः कूर्मम् उक्तवान् –
हे कूर्म, यथा अहं शीघ्रम् धावामि तथा भवान् न धावति ।
कूर्मः उक्तवान् –
भोः शशक, एवं किमर्थं वदति । सरोवरतः पर्वतपर्यन्तम् धावनस्पर्धा भवतु । यः पर्वतं पूर्वं प्राप्नोति सः विजयं प्राप्नोति । यद्यपि अहं मन्दम् चलामि तथापि अहम् एव तत्र पूर्वं प्राप्नोमि।
शशकः उक्तवान् –
यथा भवान् वदति तथा एव भवतु ।
शशकः धावितुम् आरब्धवान् । कूर्मः अपि चलितुम् आरब्धवान् । यदा शशकः अर्धमार्गम् आगतवान् तदा सः कूर्मं न दृष्टवान् । शशकः तत्र एव निद्रां गतवान् ।
परन्तु कूर्मः विश्रान्तिं विना चलित्वा पर्वतं प्राप्तवान् ।
शशकः पृष्टवान् -
यद्यपि मम वेगः भवतः अपेक्षया अधिकः तथापि भवान् तत्र कथं पूर्वं प्राप्तवान्?
कूर्मः उक्तवान् –
वेगः अधिकः भवतु वा अल्पः । यः सततं कार्यं करोति सः एव निश्चयेन जयति किल ।
नीतिः – सततं कार्यम् फलदायकं भवति ।
No comments:
Post a Comment