Wednesday, February 24, 2021

Vadiraja - वादिराजयतिः


वादिराजगुरुं वन्दे हयग्रीवसमर्चकम् |

सरसा भारती यस्य रुग्मिणीशोऽधिदैवतम् ||

वादिराज इति प्रख्यातो यतिराट् पञ्चदशक्रैस्तशतके कर्णाटप्रान्ते बभूव | सोन्दामठाधीशोसौ उडुपिकृष्णदेवालयं नवीकृत्य तस्य पर्यायार्चनविधिं च परिवर्तयामास | भगवतः नारायणस्य हयग्रीवारूपस्यासौ आराधकः | मध्वमततल्लजस्स समग्रभरतखण्डं पर्यटन् तत्त्ववादं प्रसारितवान् |

न केवलं शास्त्रेषु कवित्वेऽपि स सिद्धहस्त आसीत् | तस्य तीर्थप्रबन्ध इति तीर्थक्षेत्रप्रबन्धग्रन्थः अनुपमः | रुग्मिणीशविजयः प्रसिद्धं महाकाव्यम् | लक्षालङ्कार इति महाभारतभाष्यं रचयामास | युक्तिमल्लिका सरसभारतीविलास इत्यादीः संस्कृतकृतयः स्तोत्रग्रन्थाः च विद्वज्जनप्रियाः | नैकाः कन्नडभाषारचना अपि अस्य लोकप्रथिताः | लक्ष्मीशोभाने इति गीतं तत्र बहु जनप्रियम् |

माघशुद्धद्वादशी अस्य महामुनेः अवतारदिनम् |

1 comment:

  1. यो मां देवं विजानाति ।
    ऋजुस्थं पुण्यकृन्नरः ।।
    स याति निलयं पुण्यं ।
    यद्गत्वा न निवर्तते ।। ♥ ♥

    ReplyDelete