Wednesday, November 3, 2021

लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi

 


रमा माधवस्य प्रिया माधवी सा

क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।

सदावीतरागस्य नित्यानुसङ्गा

पुराणाप्रमेयस्य नैकट्यधामा ॥

(भुजङ्गप्रयातवृत्तम्)

अर्थः
रमा इति ख्याता लक्ष्मीः सर्वं लोकं रमयति  माधवस्य नारायणस्य प्रिया सा  अत एव सा माधवी इत्यपि विश्रुता  सा सर्वं लोकं क्षमते भूरूपेण  लोकस्य अखिलस्य विश्वस्य माता जननी  अत एव सा ब्रह्मरुद्रादिवन्द्या 
सदावीतरागः नारायणः सर्वगुणातीतः कर्मबन्धरहितः  तस्य नारायणस्यापि नित्यम् अनुवसति नारायणी रमा  पुराणपुरुषस्य अप्रेमयस्य नारायणस्य निकटे एव रमादेव्याः सर्वदा वासः प्रलयकालेऽपि 

No comments:

Post a Comment