Wednesday, November 3, 2021

लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi

 


रमा माधवस्य प्रिया माधवी सा

क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।

सदावीतरागस्य नित्यानुसङ्गा

पुराणाप्रमेयस्य नैकट्यधामा ॥

(भुजङ्गप्रयातवृत्तम्)

अर्थः
रमा इति ख्याता लक्ष्मीः सर्वं लोकं रमयति । माधवस्य नारायणस्य प्रिया सा । अत एव सा माधवी इत्यपि विश्रुता । सा सर्वं लोकं क्षमते भूरूपेण । लोकस्य अखिलस्य विश्वस्य माता जननी । अत एव सा ब्रह्मरुद्रादिवन्द्या ।
सदावीतरागः नारायणः सर्वगुणातीतः कर्मबन्धरहितः । तस्य नारायणस्यापि नित्यम् अनुवसति नारायणी रमा । पुराणपुरुषस्य अप्रेमयस्य नारायणस्य निकटे एव रमादेव्याः सर्वदा वासः प्रलयकालेऽपि ।

No comments:

Post a Comment