ब्रह्मा उत ब्रम्हा (Brahma/Bramha) पदस्य उच्चारणं कथं कुर्यात् इत्यस्मिन् विषये YouTube माध्यमे पूर्वमेव प्रकाशितमस्ति लघुविवरणं मया । तत्र उरः कण्ठश्चेति हकारस्य स्थानद्वयं निरूपितम् । स्वरपरको हकारः कण्ठ्यमात्रः । यथा आहतः महान्तः सहितः । अन्यत्र औरस्य इति । यथा ब्रह्मा प्रह्लादः अपह्नुतिः । अन्यव्यञ्जनपरे हकारस्य उच्चारणं पूर्वं भवेत् उत अन्यस्य व्यञ्जनस्य इति विषयो भ्रान्तिमूलः । उच्चारणविषयः प्रत्यक्षसिद्धो वैज्ञानिकश्च । तथापि शिक्षाग्रन्थानाकलय्य जनमानसे भ्रमनिरसनाय कृतं तत् प्रयतनं सुधीसंमतं च ।
हकारः पश्चादुच्चारणीयः (ब्रम्हा) इति ग्रस्तमनसो व्यासशिक्षेति ग्रन्थादुदाहरन्ति सूत्रमेकम् । तस्य विषये लेखनमिदम् । सूत्रं तावत्
हकारं नित्यनासिक्यमुत्तमोत्तरमेव च ।। ४११ ।।
कृष्णयजुर्वेदीयतैत्तेरीयशाखान्वितोयं शिक्षाबन्धः । ब्रम्हवादिनः सूत्रेणानेन मोमुद्यन्ते । प्रायेण उत्तमोत्तरमेवेति भाग उत्तरोच्चारणवाचीति । नित्यनासिक्यं ञमवर्णा इति वा । व्यासशिक्षायामुत्तमा इति निर्दिष्टसंज्ञका मकारान्ताः स्पृष्टाः । तर्हि सूत्रेणोच्यते स्पृष्टवर्णे परे हकारस्थानं नासिका इति । ततः अग्रिमसूत्रमेवं प्रवर्तते -
अन्तस्स्थापरमित्यत्र उरस्यञ्च विदुर्बुधाः ।। ४१२ ।।
सूत्रद्वयस्यास्य श्रीमता पट्टाभिरामशास्त्रिणा कृता टिप्पणीयम् -
च शब्देनोत्तरवाक्ये गृहीतमौरसपदमुत्कृष्यते । तदायमर्थः - उत्तमोत्तरं हकारं नासिक्यमौरसञ्च बुधा विदुरित्यन्वय इति व्याख्यायोदाहरणानि तान्येव मञ्जरीकारो ददाति । अत्र मञ्जरीकारो लिखति - अन्तस्थापरन्तु हकारमुरोमात्रस्थानं विदुः । तथा च शिक्षा -
हकारमौरसं विद्यादन्तस्थासु परासु च ।
उत्तमेषु परेष्वेवं नासिकत्वमिहाधिकम् ।। इति ।
किञ्च मपरेन्तस्थापरे च हकारे शिक्षान्तरेपि विशेषः । यथा -
नासाभ्यां नोत्सृजेद्वायुमत्यन्तं हमसंगमे ।
न वदेदुरसात्यन्तमन्तस्थाभिश्च संगमे ।।
अत्र पूर्वोत्तरोच्चारणस्य न प्रसक्तिः कापि । स्पष्टमौरस्यं हकारस्य अनचि परे । स्पृष्टे परे नासिकत्वं भवति मिश्रितमुरसा केवलस्य हकारस्यैव । शाखाधिगतं चैतत् । स्पृष्टात् परं हकारोच्चारणमिति न । तत्रापि स्फुटं हमयोः संगमे हकारः केवल औरस्यः । सुष्ठूक्तं च अन्तस्थापरे औरस्यं मार्दवं भवति । मञ्जरीकारस्तु अन्तस्थापरेऽपि उरोमात्रस्थानमिति जुघोष । यथा प्रह्लादः जिह्वा । ब्रह्मणि तु परमौरस्यम् ।
अपरञ्च प्रायो भाषालिपिव्यामिश्रितं चिन्तनमतिवादिनाम् । भाषा उच्चारिता । सैव लिपिबद्धा च । उच्चारणस्यैकविधिः तस्य लिपिबन्धो भिन्नविधिश्चेत् का गतिर्लेखनस्य पठितॄणां च । तदा शिक्षाग्रन्थेषु निबद्धानि सूत्राण्येव संदिग्धानि स्युः ।
सरळं ग्राह्यमिमं विषयं परम्परापरायणमुग्धाः पश्यन्तोऽपश्यन्तः कतिपया विद्वद्बान्धवः प्रतृण्णवाक्यान्युदाहृत्य वृथा परिश्रमं कुर्वते ।
भूयाच्चिन्तनमकर्दममिति शम् ।
====================
No comments:
Post a Comment