Saturday, August 14, 2021

शिवस्तुतिः Shiva Stuti


रुद्राकारं भुजगवलयं भूतनाथं महेशं गङ्गाधारं वृषभगमनं पार्वतीप्राणनाथम् ।

चर्माश्लिष्टं तुहिननिलयं चन्द्रचूडं त्रिनेत्रं वन्दे शंभुं भवभयहरं सर्वलोकाशुतोषम् ॥

अर्थः -

देवस्यास्य आकारो रुद्रः । दुष्टान् रोदयतीति रुद्रः । संहारकाले अखिलजीवगणं रोदयतीति वा । भुजगाः सर्पाः अस्य वलयाः । सर्पाः वलयरूपीणि आभरणानि । अयं भूतगणस्य अधिपतिः । महेश इति ख्यातः महैश्वर्यवान् । गङ्गादेव्याः आधारभूतः शिरसि । वृषभः अस्य वाहनम् । पार्वतीदेव्याः पतिः ।

चर्माम्बरधारी । तुहिनदेशे हिमपर्वते अस्य वासः । चन्द्रः अस्य चूडारूपः । त्रीणि यस्य नेत्राणि । सः शंभुः सुखकरः । भवभयं संसारतापं हरतीति । सर्वलोकस्य आशुतोषः । शीघ्रं प्रसन्नः भवतीति । एतादृशं महादेवं वन्दे ।


गानम्


No comments:

Post a Comment