Thursday, February 23, 2017

Song on Shiva - कैलासवास गौरीश ईश



शङ्करस्तुतिगीतम्
विजयदासविरचितकन्नडभक्तिगीतस्य संस्कृतानुवादः
कैलासवास गौरीश ईश |
तैलधारातुल्यमतिं देहि हरिचरणे शम्भो ||
लोकेस्मिन् अहोरात्रं चानुजाग्रणी भूत्वा
सर्वत्र भ्रमितोऽहं हे महादेव |
अहिभूषण मे त्वम् अवगुणान् नावलोक्य
धर्मविहिते सुपथि देहि वैष्णवभक्तिं शम्भो || १ ||
पापपुण्यानां न मनश्च कारणमस्ति
अनलाक्ष ननु तव विना प्रेरणाम् |
धनुजगतमदहारि भूरि ते प्रणमामि
नमय मे शिरः सुजनचरणकमले शम्भो || २ ||
भागीरथीधर मे भवभीतिं परिहृत्य
परिपालय मां त्वं सततं हि शर्वदेव |
भागवतजनप्रिय विजयविट्ठलस्याङ्घ्र्यां
सर्वात्मना भक्त्या सेवाभाग्यं मे देहि || ३ ||

1 comment: