Sunday, February 26, 2017

अकबरः तथा बीरबलः कथा (देवः किमर्थम् अवतरति)


आसीत् अकबरः इति प्रसिद्धः राजा | तस्य आस्थानकः चतुरः बीरबलः | एकदा राजा बीरबलं पृच्छति | देवः सर्वत्र अस्ति इति भवान् वदति | सः देवः भक्तान् रक्षितुं भूतलं किमर्थम् आगच्छति | देवं परितः बहवः सेवकाः सन्ति | तान् सेवकान् किं न प्रेषयति इति | बीरबलः किमपि न भणति | कानिचन दिनानि अतीतानि | एकदा प्रातः राजा अकबरः बीरबलेन सह उद्यानं गच्छति | तम् उभयतः अङ्गरक्षकाः अपि सन्ति | राजा अन्यैः जनैः साकं जलाशयं प्राप्नोति | जलाशयस्य समीपे अकबरस्य पुत्रः कन्दुकेन खेलति | पुत्रः जलाशये पतति | अकबरः पुत्रं रक्षितुं स्वयं जले निपतति | रक्षितं राजपुत्रं दृष्ट्वा बीरबलः वदति | हे महाराज एतदेव देवस्य अवतरणस्य कारणम् | भवान् पुत्ररक्षणं सेवकैः न कारयति किन्तु स्वयमेव करोति | तथैव देवः अपि स्वभक्तान् त्रातुं स्वयमेव अवतरति | तत् वचनं श्रुत्वा राजा अकबरः प्रसन्नः बीरबलं पारितोषकेण संमानयति |

No comments:

Post a Comment