Thanks to Shri Easwaran Subramanian for writing and contributing this story.
पार्वती - प्रभो, विलक्षणं मन्ये भारतः । स्वल्पानि चेतनान्येव कैलासं आगच्छन्ति । गङगायां स्नानं कृत्वा पापनाशनं भवति शिवलोकं सिध्यति च इति भवतोक्तम् । अस्याः परिस्थित्याः कारणं किम् ? जनाः गङ्गायां न स्नान्ति उत भागीरथी पापविमोचनशक्तिं अजहात्?
महादेवो हसन् पार्वतीं समाधातुं तामुपगम्य रहस्यं समादिशत् । तदनन्तरं तौ वृद्धरूपं धृत्वा भूमौ अवतीर्य हरिद्वारे गङगातीरम् समतिष्ठेताम् । तत्र बहवः जनाः स्नानं कुर्वन्ति स्म । सहसा महेश्वरो जलप्रवाहे स्नातुम् प्रविष्टवान् । परन्तु तेन धारायाः बलं असह्यम् अभवत् । यदा सः हस्तौ उन्नम्य साहाय्यं प्रार्थितवान् तदा केचन पुरुषाः नदीजलं प्रविश्य तं रक्षितुं सज्जा अभवन् । तान् दृष्ट्वा पार्वती अभणत् "तिष्ठन्तु, यः विगतकल्मषः अस्ति सः एव तं रक्षितुं शक्नोति ।अन्ये मा यतन्ताम्" इति । एतत् श्रुत्वा यदा सर्वे विस्मये स्थिताः तदा एकः झटिति प्रवाहे निपत्य तं वृद्धपुरुषं गृहीत्वा तटे स्थापितवान् ।
सः तस्य नगरस्य कुप्रसिद्धः चोरः आसीत् । समूहात् केचन समीपवासिनः तं विज्ञाय अपृच्छन् "कथं जातः त्वं पवित्रः । वयं जानीमः त्वं स्तेनः एव । त्वया बहूनि पापकर्माणि कृतानि" इति । सः आपत्बान्धव उक्तवान् "सत्यमेव अहं पापकर्माणि कृतवान् । परन्तु यदा अहं गङ्गाजले स्नातवान् तत्क्षणमेव अहं निर्मलः अभवम्" इति ।
महेश्वरः - पश्यतु प्रिये, सः स्तेनः गङायाः महिमायां परिपूर्णां श्रद्धां हृदि आधृत्य एव प्रवाहे निपतितवान् । शिवलोकप्राप्त्यै श्रद्धा आवश्यकी ।
पार्वती - ज्ञातं भोः ।
श्रद्धा = Faith
No comments:
Post a Comment