महाभारतयुद्धानन्तरं पाण्डवज्येष्ठः युधिष्ठिरः श्रीकृष्णसहायः षट्त्रिंशत् संवत्सरकालं राज्यं प्रशशास | तदभ्यन्तरे पितृव्यो धृतराष्ट्रः पितृव्या गान्धारी माता कुन्ती च दावानाले भस्मसादभवन् | श्रीकृष्णस्य संकल्पात् मुनिशापग्रस्तं यादवकुलं अन्तःकलहेन विनाशं गतम् | श्रीकृष्णः स्वेच्छया भूलोकलीलां समाप्य पार्थिवशरीरं विससर्ज | कृष्णसारथिदारुकमुखात् तद्दरुणवार्तां विश्रुत्य पाण्डवास्सर्वे शोकोपहता बभूवुः | मध्यमपाण्डवः अर्जुनः द्वारकानगरीं प्राप्य अवशिष्टान् यादवबालकगणं स्त्रीसमूहं च परं कृच्छ्रात् हास्तिनपुरम् निनाय | तत्र द्वारकापुरीं समुद्रो बभक्ष | कृष्णविरहितं भूतलवासम् अनिच्छन्तो देवांशाः पाण्डवा अपि स्वावतारसमापनाय मनश्चक्रुः | रुग्मिण्यादिस्त्रियः अग्निप्रवेशं चक्रुः | कश्चन स्त्रीगणः वनं प्राविशत् |
राजपदे पौत्रं परिक्षितमभिषिच्य भ्रातरं युयुत्सुमामन्त्र्य पाञ्चालीसहिताः पादचारिणः पञ्चपाण्डवा हास्तिनपुरात् निर्ययुः | गाण्डीवधारी अर्जुनः अन्यपाण्डवा निरायुधा आर्यावर्तं परिभ्रम्य हिमवत्प्रदेशं प्रापुः | तत्र अग्निदेवस्य वचनात् अर्जुनेन गाण्डीवधनुः जले संत्यक्तम् |
ततःपरं भ्रातृकलत्रानुगो युधिष्ठिरः मेरुपर्वतप्रदेशे स्वर्गमार्गे प्रपद्यत | श्वानोप्येकः तस्य अनुचरोभूत् | किञ्चित् कालेन द्रौपदीदेवी आयासात् पपात | तद्दृष्ट्वा भीमसेनो युधिष्ठिरं द्रौपदीपतनस्य कारणं पप्रच्छ |
भीमः - द्रौपदी सर्वदा धर्मपरयणा | कथं तस्याः पतनम्?
युधिष्ठिरः - अर्जुने अधिका प्रीतिः एव तस्याः पतनस्य कारणम् |
किञ्चित्कालेन कनिष्ठस्य सहदेवस्य पतनमभवत् |
भीमः - सहदेवः अस्मासु परमशुश्रूषापरः | तस्य पतनं कथम्?
युधिष्ठिरः - आत्मनः समः प्राज्ञः नास्ति लोके इति तस्य मनसि | तस्मात्तस्य पतनम् |
किञ्चित्कालेन नकुलः न्यपतत् |
भीमः - नकुलोयं सर्वदा वचनपालकः | कुतोस्य पतनम्?
युधिष्ठिरः - आत्मनः समो रूपवान् नास्ति लोके इति धारणं तस्य पतनास्य कारणम् |
किञ्चित्कालात् अर्जुनोऽपि पपात |
भीमः - अर्जुनस्तु सत्यसंधः | कदापि अनृतं नाचरितं तेन | तस्य पतनस्य कारणम्?
युधिष्ठिरः - वीर्यदर्पितोयं धनञ्जयः एकस्मिन् दिने एव कौरवपक्षं संहरामीति उक्त्वा तत् कार्यं न साधितवान् | एतत् वचनस्खलनमेव तस्य पतनास्य कारणम् |
किञ्चित्कालेन भीमोऽपि धराशायी बभूव |
भीमः - भ्रातः, तव प्रियोऽहम् | मम पतनं केन कारणेन?
युधिष्ठिरः - अतिभोजनः त्वम् | परेषु उपेक्षा च | इत्येव तव पतनकारणम् |
युधिष्ठिरः एवं पतितान् भ्रातृकलत्रान् समुत्सृज्य श्वानेन अनुसृतः स्वर्गद्वारं प्राप | तत्रापि इन्द्रेण यमधर्मेण च परीक्षितः सः सदेहः स्वर्गं प्रविष्टः | स्वर्गे सः दुर्योधनादीन् वीक्ष्य तत्र वासमनिच्छन् देवदूतेन नरकं प्रापितः | द्रोणवधप्रसङ्गे अनृतवचनकारणात् नरकदर्शनं जातं युधिष्ठिरस्य | ततः सः पूतो भूत्वा प्राकृतशरीरं परित्यज्य दिव्यवपुषा स्वर्गं जगाम | अन्ये पाण्डवा द्रौपद्यपि मूलरूपेण स्वर्गमलञ्चक्रुः |
(यथा वेदव्यासप्रणीतमहाभारतनिरूपितम्)
No comments:
Post a Comment