Thursday, December 19, 2019

Namasakara - saying it right

The word नमस्कारः or नमस्काराः is a very widely used in most of the Indian languages. In those languages, it is used like: नमस्कारः to you, नमस्काराः to you all. So, when we want to use such a common salutation in a Sanskrit sentence, it sounds straightforward and logical to form a sentence as सर्वेभ्यः नमस्काराः - because सर्वेभ्यः means “to all”.

However, the usage in Sanskrit does not go like that. The correct usage is सर्वेषां नमस्कारः. If that is translated word-to-word, it becomes “नमस्कारः of all” - which sounds weird. That is the reason, word-to-word translation (for any to any language) should not be relied upon.

In Sanskrit literature, this word नमस्कारः is almost always used in stand alone mode, not with any other word in a sentence. What that means is: in Sanskrit, think of the word नमस्कारः as a general statement, (literally meaning “the act of bowing”) and not directed to any particular person or group of people. So, it is better to say just नमस्कारः. But if you cannot resist adding “to all”, use it as सर्वेषां नमस्कारः.

Such use of नमस्कारः with another word in a sentence is extremely rare in Sanskrit. One example can be quoted from the drama वेणीसंहारम् (of भट्टनारायणकविः) - संजय, पित्रोर्नमस्कृतिं श्रावय - Here पित्रोः is used in षष्ठी विभक्तिः, same as that of सर्वेषाम्. Panini's grammar also supports the use of षष्ठी विभक्तिः in such cases. (Ref: कर्तृकर्मणोः कृति २.३.६५). Per that, सर्वेषां नमस्कारः (and also सर्वान् नमस्करोमि as a verb) is correct.

Bottom line:
It is better to use नमस्कारः or नमस्काराः as stand alone words. To address others, stick with नमः सर्वेभ्यः or नमस्ते.

Sunday, December 15, 2019

The Haunting Car



Three years ago, I wrote a blog post “The Tale of a Car”. It was about the word “कारयानम्” and the need for a suitable word that has its roots in Sanskrit itself. And two years ago, another blog post "The Translation Mindset". There were a few interesting reactions and feedback on that topic both offline and online. Some said we should use the words like गन्त्री etc. I have even seen some actually using such alternate words. For some, कारयानम् (or कार् यानम् ) is the only word that can uniquely identify this class of vehicles. So, according to them, it is okay to introduce this as a new Sanskrit word so everyone can happily use it.

However, this kind of thought process throws up challenges on multiple fronts.
  1. Question mark on the ability of the language: In this great language of Sanskrit, each word has a very strong etymological foundation. In fact, “sanskrit” means well-processed, well-formed. The language is said to be thetmother of a host of other languages in the world. Many languages borrowed the words from Sanskrit. Many languages, to a greater or smaller extent, developed their structure based on Sanskrit. For a common vocabulary in the Indian subcontinent, in parallel to many of the English words, Sanskrit words also came into use. For example जलसेचन विभाग, जीवन विमा निगम, ऊर्जा तैल मन्त्रालय, and so on. What about the recent technology words in the area of computers, mobile phones, artificial intelligence? No problem. I found Shrikant Jamagni's research work presenting thousands of words related to computer technology. The Sanskrit language has a very solid foundation of thousands of root words on which a word for any object or action that exists today, for those that existed in the past and those that are still not imagined, at least for the human consumption, can be derived. So, with such a strong foundation, structure and rich background, how is it possible that there can be no word for a class of vehicles?
  2. United, we fall: This is a typical Indian scenario in many aspects. We easily agree to disagree. Or disagree to agree. If an Indian word was introduced long time back- like the examples given above, then perhaps that would have been in everyday use by now. Unfortunately, that did not happen. The Hindi word gaadi was there. But, with the English language taking over our mind, thoughts and life, we stuck with “car”. Now, if someone tries an indigenous word for car, others might frown upon. Just keep everyone happy using the word from another language.
  3. Lack of originality: If we look at what people in other countries say for car, it tells us few things about those people and how they think. There are words for car in different languages listed on the website www.indifferentlanguages.com/words/car. A quick look up of meaning of those words in each language reveals that in most of the languages, that word means auto, automobile, a vehicle, something on wheels,something that moves. In fact, the word car in English is derived from "carre", meaning a wheeled vehicle (originally a chariot). Notably, the Indian languages listed there use "car". Why? Because, we did not take the help of Sanskrit to come  up with a word for it. People of different languages around the word, including English, look at that object as a wheeled vehicle. They do not call it “car”. Many times, Hebrew is quoted as an example for the need to revive the Sanskrit language. Even Hebrew does not use the word “car”. So, in Sanskrit, is there no word for a vehicle with wheels, or something that moves?
  4. “Language should grow” thinking: For many, a language is considered “alive” if it imbibes new words from other languages and its dictionary size grows. That is true, if there is a real need and a word cannot be formed in that language. By that logic, we will end up using Sanskrit like how we are using our regional languages in India today. Most of the words for daily use have been replaced by English words. Words for numbers have disappeared. Words from the Indian languages have become obsolete and non-understandable by their own people. Everyone easily understands the words fridge, mixer, helicopter, police, apple, bus, train, table, stool, switch, ice cream, and so on. There would be no need for Sanskrit words for any of these commonly used words then.
Some ask me why I am so much freaked out for such a triviality, and harping on this one word. Well, “first impression is the last impression”, or at least it is hard to change. We need to be mindful of what is fed to new learners of the language. If we bring a word into use, it will be adopted. It is up to us.

Sunday, December 8, 2019

Story of Savitri सावित्री-कथा

(महाभारते वनपर्वणि)
पुरा मद्रदेशे अश्वपतिः नाम राजा आसीत् । सः पुत्रप्राप्त्यर्थं महायागम् एकम् अकरोत् । यागस्य अन्ते देवी सावित्री प्रत्यक्षा अभवत् । राजा अश्वपतिः देवीं पुत्रभाग्यं ददातु इति प्रार्थयत । परन्तु देवी उक्तवती - “हे राजन्, ब्रह्मदेवस्य आज्ञया अहं तुभ्यं कन्याभाग्यं ददामि । सा कन्या तव कुलस्य कल्याणं करिष्यति” । इति उक्त्वा देवी सावित्री अदृश्या अभवत् । किञ्चित् कालानन्तरं अश्वपतिराजस्य कन्या जाता । सावित्रीदेव्याः वरप्रसादात् जाता इति कन्यायाः नामकरणम् अपि सावित्री इति अभवत् । सा अनुपमसुन्दरी तेजस्विनी आसीत् ।

यदा सावित्री युवती अभवत् तदा राजा अश्वपतिः तस्याः विवाहं कर्तुं चिन्तितवान् । परन्तु सावित्र्याः तेजःप्रकाशं दृष्ट्वा कश्चित् अपि युवकः विवाहार्थं सिद्धः न अभवत् । स्वयमेव योग्यवरस्य अन्वेषणं करोतु इति राजा पुत्रीम् उक्तवान् । सावित्री सचिवैः सह रथारूढा अनेकदेशान् अटितवती । यदा सा स्वनगरं प्रत्यागता तदा अश्वपतिराजस्य समीपे देवर्षिः नारदः आसीत् । पिता अश्वपतिः पृष्टवान् -

अश्वपतिः - पुत्रि सावित्रि, किं भवत्या योग्यवरः प्राप्तः?
सावित्री - आम् । शाल्वदेशस्य राजा आसीत् द्युमत्सेनः । केनचित् कारणेन सः अन्धः अभवत् । तस्य राज्यम् अपि नष्टम् । सः इदानीं वने पत्नीपुत्रसहितः निवसति । तस्य पुत्रस्य नाम सत्यवान् । सः धर्मपरायणः गुणवान् च । मम अनुरूपः वरः ।
अश्वपतिः - नारदमहर्षे, अस्मिन् विषये भवतः अभिप्रायः कः?
नारदः - महाराज, सत्यवान् गुणवान् धर्मतत्परः च । तस्य कुलम् अपि उत्तमम् । परन्तु एकः एव दोषः अस्ति । एकसंवत्सरानन्तरं तस्य मरणं भविष्यति ।
अश्वपतिः - पुत्रि सावित्रि, सत्यवान् अल्पायुः । अतः भवती अन्यवरस्य अन्वेषणं करोतु ।
सावित्री - दीर्घायुः भवतु वा अल्पायुः । सत्यवता सह मम मनसा वरणं जातम् । तं विहाय अन्येन सह अहं विवाहं न करोमि ।

अस्तु इति अश्वपतिः वनं गत्वा वैभवेन सत्यवता सह सावित्र्याः विवाहं कारितवान् । वने सावित्री श्रद्धया श्वशुरयोः पत्युः च सेवां कृतवती । यदा संवत्सरस्य समाप्तिकालः आगतः तदा सा कठिनव्रतस्य अनुष्ठानं कृतवती । संवत्सरस्य अन्तिमदिनम् आगतम्। सत्यवान् काष्ठफलादिसंग्रहार्थं वनं गतवान् । तेन सह सावित्री अपि गतः । परशुना वृक्षं छिन्दमानः सत्यवान् परिश्रान्तः । सः सावित्र्याः उत्सङ्के शिरः दत्त्वा निद्राम् अगच्छत् । तदा तत्र श्यामवर्णः रक्तनेत्रः पुरुषः प्रत्यक्षः अभवत् । तस्य हस्ते पाशः आसीत् । तदा

सावित्री - कः भवान्?
यमः - अहं यमः । तव पत्युः आयुः समाप्तम् । अतः तस्य प्राणहरणं करोमि ।
सावित्री - प्राणहरणार्थं यमदूताः आगच्छन्ति इति श्रुतम् । भवान् स्वयं कथम् आगतः?
यमः - सत्यवान् बहु धर्मपरायणः इति अहं स्वयम् एव आगतः ।

इति उक्त्वा यमः पाशेन सत्यवतः प्राणान् अपहृतवान् । यमः ततः स्वलोकं प्रति प्रयाणम् अकरोत् । सावित्री यमम् अनुसृत्य चलितुम् आरम्भं कृतवती । तदा

यमः - सावित्रि, भवती निर्गच्छतु । पत्युः अन्त्यसंस्कारं करोतु ।
सावित्री - यत्र मम पतिः गच्छति तत्र मया गन्तव्यम् । एषः एव सनातनधर्मः । व्रतस्य बलात् मम गमने निरोधः न भवति ।
यमः - तव वचनेन अहं सन्तुष्टः । वरम् एकं प्रार्थयतु ।
सावित्री - मम श्वशुरः अन्धः । सः राज्यभ्रष्टः । तस्य दृष्टिप्राप्तिः भवेत् ।
यमः - अस्तु । तथैव भवति । भवती निर्गच्छतु । वृथा परिश्रमः मास्तु ।
सावित्री - यत्र मम पतिः अस्ति तत्र मम कुतः परिश्रमः? सत्पुरुषाणां सङ्गतिः बहु उत्तमा । तैः सह मित्रत्वं फलदायकं भवति ।
यमः - तव वचनं बहु हितकरम् । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - मम श्वशुरः राज्यभ्रष्टः । तस्य पुनः राज्यप्राप्तिः भवेत् ।
यमः - अस्तु । तथैव भवति । भवती निर्गच्छतु । श्रमेण अलम् ।
सावित्री - अनुग्रहः दानं सर्वभूतेषु दया च सत्पुरुषाणां महाधर्मः ।
यमः - तव वचनम् अमृततुल्यम् । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - मम पितुः पुत्राः न सन्ति । तस्य शतं पुत्राः भवेयुः ।
यमः - अस्तु । तथैव भवति ।‌ भवती बहु दूरम् आगता ।‌ इतः निर्गच्छतु ।
सावित्री - यमदेव, भवान् सूर्यपुत्रः । भवान् धर्मराजः । सत्पुरुषेषु जनाः विशेषतः विश्वासं कुर्वन्ति ।
यमः - तव शुभवचनेन अहं प्रसन्नः । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - देव, मम तथा सत्यवतः शतं पुत्राः भवेयुः ।
यमः - तथैव भवति । इदानीं निर्गच्छतु ।
सावित्री - सत्पुरुषाः धर्ममार्गात् न स्खलन्ति । ते सत्यं न त्यजन्ति । तेषां प्रभावेण लोके उत्तमकार्याणि भवन्ति ।
यमः - तव वचनं धर्मयुक्तम् । पुनः एकं वरं प्रार्थय ।
सावित्री - देव, भवता दत्तः वरः सफलः भवतु । मम दाम्पत्येन शतं पुत्राः भवेयुः । तस्य कृते सत्यवान् जीवितः भवतु । तेन विना अहं किमपि सुखं न इच्छामि ।
यमः - तव वचनेन प्रसन्नः अहं सत्यवतः जीवनं पुनः ददामि । तव पतिः दीर्घायुः भवति । शतं पुत्राः भविष्यन्ति । ते सावित्राः इति प्रसिद्धाः भविष्यन्ति ।

इति उक्त्वा यमः स्वलोकं गतवान् । सत्यवान् पुनः जीवितः अभवत् । तस्य पिता द्युमत्सेनः दृष्टिं प्राप्य पुनः स्वराज्यं प्राप्तवान् । सावित्र्याः पिता राजा अश्वपतिः शतं पुत्रान् प्राप्तवान् । सावित्री सत्यवान् अपि शतं पुत्रान्  प्राप्य सुखेन निवासं कृतवन्तौ ।

English Translation:
(As in Mahabharatam - Vanaparva)

In olden days, in Madra kingdom, there was a king by the name Ashvapati. He did a great sacrificial ritual to obtain a son. At the end of the ritual, Goddess Savitri appeared. King Ashvapati prayed the goddess to provide him with a son. But the goddess said - “Hey king, by the order of God Brahma, I will give you a girl. That girl do good to your lineage”. Saying this, Goddess Savitri disappeared. After sometime, a girl was born to the king Ashvapati. Because she was born from the boon of Goddess Savitri, the girl was also named Savitri. She was extremely beautiful and radiant.

When Savitri turned young, the king Ashvapati thought of marrying her off. But seeing the brilliance of Savitri, no boy was ready the marriage. The king said the daughter to find a suitable boy for herself. Savitri roamed many countries in a chariot accompanied by ministers. When she returned to her city, the divine saint Narada was with the king Ashvapati. The father Ashvapati asked -

Ashvapati - Daughter Savitri, was a suitable groom found by you?
Savitri - Yes, Dyumatsena was the king of Shalva country. For some reason, he became blind. His kingdom was also lost. He now lives in a forest with his wife and son. His son’s name is Satyavan. He is noble and man of good characters. He is my suitable groom.
Ashvapati - Saint Narada, in this matter, what is your opinion?
Narada - King, Satyavan is noble and of character. His family is also good. But there is only one problem. After one year, his death will happen.
Ashvapati - Daughter Savitri, Satyavan has a short life. Therefore, you find a different groom.
Savitri - Let him be of long life or short life. With Satyavan, my mental marriage has taken place. Other than him, I won’t marry another boy.

Ashvapati said okay, went to the forest and grandly married off Savitri to Satyavan. In the forest, Savitri devotedly served the in-laws and the husband. When the end of the year came near, she observed a difficult vow. The last day of the year came. Satyavan went to the forest to fetch sticks and fruits. With him, Savitri also went. While cutting a tree with axe, Satyavan became tired. He rested his head on Savitri’s thigh and went to sleep. Then, there a dark-colored, red-eyed person appeared. He had a rope in his hand. Then

Savitri - Who are you?
Yama - I am Yama. Your husband’s lifetime is over. Therefore, I will take aways his soul.
Savitri - To take away the soul, it is heard that Yama’s representatives come. How come you came in person?
Yama - Satyavan is a very noble person, so I came in person.

Saying thus, Yama took away the soul of Satyavan with the rope. From there, Yama traveled towards his abode. Savitri started walking following Yama. Then

Yama - Savitri, you go back. Do the last rites of your husband.
Savitri - I should go where my husband goes. This is the right thing to do. Because of power of my vow, my movement is not restricted.
Yama - I am pleased by your talk. Ask for a boon.
Savitri - My father-in-law is blind. Let him get his ability to see.
Yama - Okay, it will be so. You go back. Let there be unnecessary exhaustion.
Savitri - Where there is my husband, how can I be exhausted? Company of good people is very nice. Friendship with them is useful.
Yama - Your talk is very good. Except for the life of Satyavan, ask some boon.
Savitri - My father-in-law has lost his kingdom. He should get his kingdom back.
Yama - Okay, it will happen. You go back to. Enough of your effort.
Savitri - Bestowing upon others, giving away and mercy are the great characters of good people.
Yama - Your words are great. Except for the life of Satyavan, ask for a boon.
Savitri - My father does not have sons. Let there be a hundred sons of him.
Yama - Okay. It will be so. You came a long way. Go away from here.
Savitri - O God Yama, you are the son of God Sun. You are the god of righteousness. People especially trust good people.
Yama - I am pleased with your nice words. Except for the life of Satyavan, ask for a boon.
Savitri - O God, let there be a hundred sons of me and Satyavan.
Yama - It will be so. Now, go away.
Savitri - Good people do not deviate from the path of righteousness. They do not abandon truth. Because of them, good work happens in this world.
Yama - Your words have virtue in them. Ask for a boon again.
Savitri - God, let the boon given by you come true. Out of my marriage, let there be a hundred sons. For that, let Satyavan live. Without him, I do not wish any kind of happiness.
Yama - Pleased by your words, I am giving back the life of Satyavan. Your husband will have long life. You will have a hundred sons. They will be famous as Savitras.

Saying thus, Yama went to his abode. Satyavan came back to life again. His father Dyumatsena gained his vision and obtained his kingdom again. Savitri’s father King Ashvapati obtained a hundred sons. Savitri and Satyavan also got a hundred sons and lived happily.

Saturday, December 7, 2019

Army Sizes and Mahabharata Loss


The table below shows the army sizes as given in an Amarakosha commentary. Even if we assume about 40 million population in the Indian subcontinent 7000 years ago, a simple calculation shows about 15% of that population was wiped out due the Mahabharata war that lasted just 18 days.

Soldiers on foot
पदातयः
Horses
अश्वाः
Chariots
रथाः
Elephants
गजाः
Total
आहत्य
Patti
पत्तिः
5 3 1 1 10
Senamukh
सेनामुखम्
15 9 3 3 30
Gulma
गुल्मः
45 27 9 9 90
Gana
गणः
135 81 27 27 270
Vahini
वाहिनी
405 243 81 81 810
PRtana
पृतना
1225 729 243 243 2430
Chamoo
चमूः
3645 2187 729 729 7290
Anikinee
अनीकिनी
10935 6561 2187 2187 21,870
Akshohinee
अक्षोहिणी
109,350 65,610 21,870 21,870 218,700
In Mahabharata war
18 Akshohinees
1,968,300 1,180,980 393,660 393,660 3,936,600
Minimum people in
Mahabharata war
not counting support staff
1,968,300 1,180,980 787,320 787,320 4,723,920
Minimum animals in Mahabharata war - 1,180,980 787,320 393,660 2,361,960
Minimum total lives lost in
Mahabharata war (about 3000 BCE)
7,085,880
Approx. population of India in 1900 CE (Source) 80,000,000

Thursday, November 21, 2019

Panchatantram-The Handbook of Five Strategies: The Complete Book In Simple Sanskrit & English

Book Announcement

Panchatantram is one of the most frequently translated literary work from Sanskrit to other Indian as well as foreign languages. The book is extremely popular as the collection of fables - the stories of crows, serpents, lions and monkeys. Many of us have grown listening to reading these stories in our childhood. And each of those stories supposedly conveys a moral message. As it turns out, that is only half the story.

Such depictions ignore the intended theme of the original book. The book is laid out into five sections - breaking the enemy alliance, securing the alliance, war games, risking the gains and risk of hasty actions. These are the five important strategies for any statesman to be familiar with. To present these strategies, the book takes a bold approach. It is not shy with any of its story lines. It does not restrict itself to just crows and turtles. It is certainly not a book that can be directly consumed by children, as we know today. While narrating each story, the book tries to emphasize on the underlying message through multitude of verses. Many of these are widely in circulation among masses as popular quotes.

In this rendition, all the stories from the original work are presented in simple-to-read and understand Sanskrit words. All the anchor stories of each section are also covered. No part of the original work has been left out. After each story, its English translation is given. Under each story, a one-line message conveyed by that story is given.

The rendition is kept true to its original theme, so the readers can understand the underlying message of each story. These stories are not just for kids - be good, act good kind. If one focuses on the strategical messages conveyed by them, they can really benefit in life’s challenging situations. These strategies are especially useful for statesmen, leaders, managers at all times, serving as a quick handbook for them.

The book is available from the following websites.
Paperback:
Amazon USA
Amazon Canada
Kindle E-book:
Amazon USA
Amazon Canada
Amazon India

Saturday, November 16, 2019

मुद्गलकथा - The Sage Who Refused Heaven

मुद्गलकथा
(महाभारते वनपर्वणि)

एकस्मिन् ग्रामप्रदेशे मुद्गलः नाम मुनिः वसति स्म । सः धर्मपरायणः दानशीलः च आसीत् । सः ऊञ्छवृत्या जीवति स्म । इत्युक्ते क्षेत्रेषु धान्यकर्तनान्तरं ये धान्यकणाः अवशिष्टाः तान् सङ्गृह्णाति स्म । एवं प्रतिदिनं धान्यकणान् सङ्गृह्य यजनं कृत्वा अतिथिम् एकं भोजयति स्म । अनन्तरम् यत् अवशिष्टम् अन्नं तत् एव मुद्गलः स्वयं भुङ्क्ते स्म ।

मुद्गलं परीक्षितुम् एकदा दुर्वासोमुनिः वेषान्तरं कृत्वा तत्र आगतवान् । ब्राह्मणरूपी दिगम्बरः सः दुर्वासोमुनिः उन्मत्तः इव आचरन् मध्याह्नभोजनसमये मुद्गलस्य गृहम् आगतः । मुद्गलः ब्राह्मणं सत्कृत्य भोजनं निवेदितवान् । ब्राह्मणः अन्नं भक्षयित्वा अवशिष्टं सर्वम् अन्नं देहे सर्वत्र लेपनं कृत्वा निरगच्छत् । मुद्गलः निराहारः एव स्थितः । एवं षड्वारं दुर्वासोमुनिः ब्राह्मणरूपेण प्रतिदिनं मुद्गलस्य गृहम् आगत्य अन्नं सर्वम् अभक्षयत् । मुद्गलः निराहारः अपि शान्तचित्तः ब्राह्मणाय भोजनं दत्त्वा तस्य सेवां कृतवान् ।

तदा दुर्वासोमुनिः प्रीतः निजरूपम् आगत्य अवदत् - "हे मुद्गल, तव शमदमादिगुणाः मङ्लकराः । अस्मात् कारणात् तव स्थानं स्वर्गे निश्चितम् अस्ति । त्वां स्वर्गं नेतुं देवदूतः इदानीम् आगच्छति" । तदा एकः देवदूतः देवविमाने तत्र अवतीर्णवान् । मुद्गलः देवदूतम् अपृच्छत् - "देवदूत, स्वर्गलोकस्य गुणान् अवगुणान् च कथयतु" । देवदूतः अवदत् - "स्वर्गे बुभुक्षा पिपासा निद्रा इत्यादिपीडाः न भवन्ति । मलमूत्ररोगाः न बाधन्ते । स्वर्गे जनाः सर्वदा सुखेन विहरन्ति । परन्तु तत्र अवगुणाः अपि सन्ति । तत्रत्याः जनाः यदा तेषां सञ्चितपुण्यं क्षीणं भवति तदा ते स्वर्गात् च्युताः मर्त्यलोके पतन्ति । एतत् भयं स्वर्गवासिनां सर्वदा भवति । अन्यच्च स्वर्गे स्वस्य पुण्यसञ्चयानुगुणं कस्यचित् सुखम् अधिकं भवति कस्यचित् सुखम् अल्पं भवति । अतः तत्र जनाः सर्वदा असन्तुष्टाः भवन्ति" । मुद्गलः पुनः अपृच्छत् - "कस्मिन् लोके अवगुणाः न वर्तन्ते? कुत्र शाश्वतं सुखं विद्यते?" देवदूतः अवदत् - "हे मुने, स्वर्गलोकात् अनन्तरं ब्रह्मलोकपर्यन्तं बहवः लोकाः सन्ति । तेषु सर्वेषु अधःपतनस्य भयं विद्यते एव । केवलं विष्णुलोकं प्राप्य जीवः शाश्वतसुखं विन्दति । भगवतः अनुग्रहात् सः जीवः अधोगतिं पुनः न प्राप्नोति" ।

तत् श्रुत्वा मुद्गलः स्वर्गलोकगमनं तिरस्कृतवान् । देवदूतः स्वर्गलोकं प्रत्यागच्छत् । मुद्गलः आजीवनं स्वधर्मं परिपालयन् जीवनान्ते सद्गतिं प्राप्तवान् ।

English translation:
The Sage Who Refused Heaven
in a rural area, a sage by the name Mudgala was living. He was very pious and had a character of donating. He used to live by picking up the grains left behind on the fields when the grains were cut by the farmers. Thus, everyday he used to collect the grains, do the yajna, and feed a guest. After that, he used to eat whatever is left of the food.

To test Mudgala, once the sage Durvasa took a different guise and came there. In the form of a brahmana, the sage Durvasa, acting like a crazy person, came to Mudgala's house at the time of lunch. Mudgala welcomed the brahmana and offered him the food. The brahmana ate the food and smeared the rest of of the food all over his body and went away. Mudgala was left with no food Like this, for six times, the sage Durvasa came to Mudgala's house in the form of a brahmana and ate all the food. Mudgala, though without food, kept calm mind, gave the food to the brahmana and served him.

Then the sage Durvasa was pleased, came into his own form, and said - "Hey Mudgala, your characters like self-restraint are very virtuous. For that reason, your place in heaven is secured. To take you to heaven, a divine messenger is coming now". Then a divine messenger got down there in a divine plane. Mudgala asked the divine messenger - "Divine messenger, tell about the good and bad things of the heaven". The divine messenger sad - "In heaven, there is no hunger, thirst and sleep. Poop, pee and disease do not bother there. In heaven, the people always roam around in happiness. But there are bad things are also there. The people living there, after their accumulated benefit of good deeds is over, lose their place in heaven and fall down to the world of mortals. This fear always exists for the people who live in heaven. And also, in heaven, as per the accumulation of the good deeds, someone's happiness is more, someone's happiness is less. Therefore, there the people are always unhappy". Mudgala asked again - "In what world, there are no bad things? Where does the permanent happiness exists?" The divine messenger said - "Hey sage, after heaven, there are many worlds until the world of Brahma. In al those worlds, there is certainly the fear of falling down. Only after attaining the world of Vishnu, a soul attains permanent happiness. By the grace of god, that should does not again fall down".

Hearing that, Mudgala refused going to heaven. The divine messenger returned to heaven. Mudgala lived virtuously for his entire life and obtained a good place after life.

Wednesday, November 6, 2019

काकः कनकसूत्रं च - Crow and Golden Necklace

(पञ्चतन्त्रकथा)

उपायेन जयो यादृग् रिपोस्तादृग् न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥

वने एकः महान् वृक्षः आसीत् । वृक्षे एकः काकः निवसति स्म । वक्षस्य बिले एकः कृष्णसर्पः वसति स्म। सर्पः काकस्य शिशून् सर्वदा खादति स्म । काकः दुःखितः आसीत् । सर्पस्य निवारणं कथं कर्तव्यम् इति काकः चिन्तयति । समीपे एकः शृगालः वसति । काकः शृगालस्य समीपं गच्छति । सर्पस्य विषयं वदति। तस्य निवारणस्य उपायं पृच्छति । शृगालः किञ्चित् चिन्तयित्वा एकम् उपायं कथयति । काकः उपायं शृणोति । महाराजः तस्य परिवारेण सहितः समीपे जलाशयं क्रीडितुम् आगच्छति । तत्र काकः गच्छति । जलाशयस्य तटे राजपरिवारस्य वस्त्राणि आभरणानि भवन्ति । काकः आभरणेषु एकं कनकसूत्रं चञ्च्वा गृह्णाति । कनकसूत्रेण सह डयनं करोति । तत् दृष्ट्वा राजपुरुषाः काकस्य पृष्ठतः धावन्ति । काकः वृक्षस्य समीपं गच्छति । सर्पस्य बिले कनकसूत्रं पातयति । राजपुरुषाः बिले पश्यन्ति । बिले सर्पः भवति । राजपुरुषाः दण्डेन सर्पं मारयन्ति । ते कनकसूत्रं गृहीत्वा गच्छन्ति । एवं काकः सर्पभयात् मुक्तिं प्राप्नोति ।

नीतिः
यः योग्यम् उपायं जानाति सः सुलभतया जयं प्राप्नोति । तस्य अस्त्रशस्त्रस्य आवश्यकता नास्ति ।

English:
Winning using a smart idea is better than winning using weapons. One who knows a smart idea, even if he is weak, does not get defeated by strong people.

There was a big tree in a forest. In the tree, lived a crow. In the hole of the tree, lived a black serpent. The serpent always ate the babies of the crow. The crow becomes sorrowful. He thinks of how to get rid of the serpent. Nearby lives a fox. The crow goes to the fox. He tells the fox about the serpent's deeds. He asks the fox about how to get rid of the serpent. The fox thinks a bit and tells him an idea. The crow listens to the idea. The king with his family friends comes to play to a nearby lake. The crow goes there. On the banks of the lake, there were the clothes and ornaments of the royal family. From the ornaments, the crow picks up a golden necklace with its beak. He flies with the golden necklace. Seeing that, the king’s men also run behind the crow. The crow goes near the tree. He fells the golden necklace in the serpent’s hole. The king’s men look in the hole. In the hole, there is the serpent. The king’s men kill the serpent with a stick. They take the golden necklace and go away. Thus, the crow gets relieved from the fear of the serpent.

Message
One who knows the right solution, gets the success easily. He does not need any weapons.

Friday, October 18, 2019

Sanskrit - Not a Natural Language

Recently, I came across a post on YouTube - भारतीय कालक्रम के मुख्य आधार by Vedveer Arya. He makes some interesting analysis of the timeline of the Vedas, Ramayana and Mahabharata. Per the analysis, Brahma was a historical great man, did Vedic academic revolution, lived in 14500 BC. Brahma's son was Svayambhuava Manu. Vishwamitra lived in 13500 BC. Brahmana composition of Vedas came into existence after 9200 BC. Krita yuga is of 4800 years, Treta yuga is of 3600 years, Dvapara yuga is of 2400 years and Kali yuga is of 1200 years (whoof, that is a relief!). But then he says for ease of calculation, a revised system of measuring the yugas was introduced. And the Kali yuga's duration changed to 432,000 years. Tretayuga started in 6777 BC. Rama was born in 5674 BC. Ravana died in 5635 BC. Mahabharata happened around 3200 BC. During the Ramayana time, the sea level was much below. There was already a natural stone structure between Rameshvaram and Sri Lanka. This used to submerge during high tides of the seas. Rama and his army had to just put some rocks and trees on the natural structure.

In context of deriving a timeline for the Indian history, Mr. Arya discusses the origins of the Sanskrit language. He classifies the Sanskrit literature timeline into three - ancient, transitional and modern. Here modern - means Ramayana and onward. He posits that Sanskrit is NOT a natural language. This language is based on grammar and (was) developed to perfect a language. He compares this to today's computer languages. Computer languages are technically languages, but not natural languages, are artificially created. The computer languages are subject to rigorous syntactical rules for consumption of computers, not for humans. During the Veda period, the grammar of Sanskrit was loose. Then its grammar evolved and matured further. He says आगन्तास्मि used in Vedas is considered invalid (दोषपूर्ण) in post-Vedic period. However, this observation is incorrect. This usage is still valid in today's Sanskrit.

Anyways, Mr. Arya's analysis strongly suggests the Sanskrit language was mainly a link language and not attached to any region, community or geography. In Ramayana, Hanuman's thoughts of how to present himself to Sita also suggest that Sanskrit as a link language. This was echoed in couple of my posts. One of them - Sanskrit - Is it a language? discussing how Sanskrit is different from other languages. The other post - The Tale of a Car - Why We Should Keep the Sanctity of Sanskrit Language.

Friday, September 27, 2019

समीचीनसंवादः - A Good Discussion


गुरुशिष्यौ वेदमन्त्रं पठतः |

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

शिष्यः - गुरुवर्य, अस्मिन् मन्त्रे प्रायः सर्वाणि पदानि सुलभावगम्यानि | परन्तु “उदच्यते” इति पदं तावन्न प्रसिद्धम् | अस्य अर्थः कः ?
गुरुः - हे शिष्य, “उदच्यते” इति क्रियापदम् | उद्गच्छति, बहिः गच्छति इति तस्य अर्थः |
शिष्यः - को धातुः तत्र ? रूपं किम्?
गुरुः - उत्+अच्यते इति भागद्वयं तस्य | अञ्चुँ इति भ्वादिगणीयधातुः गतिपूजनयोः अर्थे प्रयुज्यते | अच्यते इति तस्य लटि प्रथमपुरुषैकवचनस्य कर्मणिरूपम् |
शिष्यः - धातुः अञ्चुँ तर्हि अञ्च्यते भवेत् ननु | कथं अच्यते इति रूपम् ?
गुरुः - अस्य धातोः वैशिष्ट्यं यत् गत्यर्थे नकारलोपः भवति | पूजार्थे नकारलोपो न भवति | तदा गत्यर्थे अच्यते इति रूपम् | पूजार्थे अञ्च्यते इति रूपम् |
शिष्यः - बहु सम्यगुक्तं त्वया गुरुदेव |
गुरुः - अहो शिष्य | “सम्यक्” इति पदमपि तद्धातुतः एव निष्पन्नम् |
शिष्यः - कथमिति? तस्य निर्वचनं निरूप्यतां कृपया |
गुरुः - तस्य व्याकरणप्रक्रिया एवमस्ति -
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अच् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
सम्+अक् (क्विन् प्रत्ययस्य कुः ८.२.६२)
समि+अक् (समः समि ६.३.९३)
सम्यक् (इको यणचि ६.१.७७)
शिष्यः - भोः अति समीचीनम् |
गुरुः - अहह! “समीचीनं” पदमपि अञ्चुधातोरेव विकारः |
शिष्यः - कथमीदृशम्? उच्यतां देव |
गुरुः - शृणु प्रक्रियामत्र |
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अञ्च्+ क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
समि+अच् (समः समि ६.३.९३)
समि+अच्+ख (विभाषा अञ्चेरदिक्स्त्रियाम् ५.४.८)
समि+अच्+ईन (आयनेयीनीयियः फढखच्छाघां प्रत्ययादीनाम् ७.१.२)
समि+च्+ईन (अचः ६.४.१३८)
समी+च्+ईन (चौ ६.३.१३८)
समीचीन
शिष्यः - रोमाञ्चो जातः भगवन् |
गुरुः - शिष्य, “रोमाञ्चः” अपि रोम्णाम् अञ्चः इति अञ्चुधातरेव कृदन्तरूपम् |
शिष्यः - प्रदीर्घोयं विषयः | अन्यः को विशेषोस्य धातोः ब्रह्मन्?
गुरुः - ब्रवीमि | देहि कर्णमत्र | प्राचीन-अर्वाचीन-प्रतीचीन-उदीचीन-पदानि समीचीनपदवत् निर्मितानि | इदानीं प्राङ् पदस्य प्रक्रियां निरूपयामि |
प्र + अञ्च् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
प्र + च् (अचः ६.४.१३८)
प्रा + च् (चौ ६.३.१३८)
प्राच् + सुँ (प्रथमैकवचनस्य सुप्प्रत्ययः)
प्रा + न् + च् + स् (उगिदचां सर्वनामस्थानेऽधातोः ७.१.७०)
प्रान् (संयोगान्तस्य लोपः ८.२.२३)
प्राङ् (क्विन्प्रत्ययस्य कुः ८.२.६२)

इति प्राच् पदस्य पुंलिङ्गप्रथमैकवचनरूपम् | एवेमेव उदङ् तिर्यङ् रूपे प्रथमैकवचने सिध्यतः |
शिष्यः - अवगतं गुरुवर | अस्य मननं चेक्रीय्ये | प्रणामाः |

Thursday, September 26, 2019

कैलासप्राप्तिः - Getting to Kailasa

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 


महाशिवरात्रिदिनम् । काशीनगरे महान् जनसम्मर्दः । लक्षाधिकजनाः तत्र आगताः । भक्तानाम् एकः विश्वासः अस्ति - महाशिवरात्रिदिने गङ्गास्नानं कृत्वा गङ्गाजलेन काशीविश्वनाथस्य अभिषेकं करोमि चेत् जीवनात् परं कैलासप्राप्तिः भवति इति । पार्वती कैलासे वसति । सा काशीं दृष्टवती । बहु जनसम्मर्दः । सर्वत्र जनाः सन्ति । गङ्गास्नानं कुर्वन्ति । मन्दिरं गच्छन्ति । अभिषेकं कुर्वन्ति । सा परमेश्वरं पृष्टवती “ते सर्वे जनाः जीवनात् परं कैलासम् आगमिष्यन्ति वा?” इति । तस्याः मनसि भीतिः । सर्वे जनाः कैलासम् आगच्छन्ति चेत् तत्र स्थानं पर्याप्तं न भवति । शिवस्य वाहनम् अपि वृषभवाहनम् । तत् भीत्या इतस्ततः गच्छति । शिवः हसितवान् । सः “अस्तु पश्यामः इति आगच्छतु, आवाम् इदानीं काशीं गच्छावः” इति उक्तवान् ।

पार्वत्या सह शिवः काशीम् आगतवान् । परन्तु स्वस्य रूपं धृत्वा न आगतवान् । शिवः एकः वृद्धस्य रूपं स्वीकृतवान् । पार्वती अपि वृद्धनारीरूपं स्वीकृतवती । काशीविश्वनाथमन्दिरस्य गोपुरद्वारसमीपे वृद्धा उपविशति । वृद्धः मूर्छितः इव नटति । वृद्धः वृद्धायाः वक्षस्थले मुखं निधाय उपविशति । तदा पार्वती प्रार्थनां करोति “हे भक्तजनाः, मम पतिः इदानीं मूर्छितः अस्ति । आवां विश्वनाथदर्शनार्थम् आगतवन्तौ । इदानीं एषः बहु वृद्धः मूर्छितः । तस्य दाहः अस्ति । किञ्चित् जलं ददातु” इति । भक्ताः आगच्छन्ति । तेषां हस्ते अभिषेकार्थं जलम् अस्ति । एकः वदति “धिक् दरिद्रा, गच्छतु । जलम् अभिषेकार्थम् आनीतवान् । ददामि चेत् अपवित्रं भवति” इति । सः अग्रे गच्छति । पुनः एकः अन्यः पुरुषः आगच्छति । माता प्रार्थितवती “किञ्चित् जलं ददातु । मम पतिः मूर्छितः । तस्य जीवनस्य रक्षणम् आवश्यकम् । किञ्चित् जलं ददातु” इति रोदनं कृतवाती । सः पुरुषः वदति “महाशिवरात्रिदिने दरिद्रायाः दर्शनं वा? गच्छतु गच्छतु” इति । जलं न ददाति ।

यदा जनसम्मर्दः भवति तदा चोरः निश्चयेन आगच्छति आभरणमालादिचोरणार्थम् । चोरः वृद्धायाः रोदनं श्रुतवान् । किमिति शृणोमि इति सः समीपम् आगतवान् । वृद्धा पुनः वदति “वृद्धः मूर्छितः । जलं ददातु” इति । चोरः उक्तवान् “अहं जलम् आनयामि” इति । सः गङ्गानदीं प्रति झटिति धावितवान् । घटे जलम् आनीतवान् । वृद्धायाः हस्ते घटं दत्तवान् । “पत्युः मुखे जलं स्थापयतु । तस्य रक्षणं करोतु” इति सः उक्तवान् । सा उक्तवती “एतत् जलम् एव मम पत्युः अन्तिमजलं भवितुम् अर्हति । अतः भवता कृतं पुण्यकार्यम् एकम् उक्त्वा ददातु । अहं स्वीकरोमि” इति । तदा चोरः उक्तवान् “हे मातः, अहं चोरः । मया पुण्यकार्यं एकम् अपि जीवने न कृतम् । एतद् एव मम प्रथमपुण्यकार्यम् । कृपया जलं स्वीकरोतु । वृद्धस्य पत्युः रक्षणं करोतु । मा अस्तु इति न वदतु” इति । तत्क्षणे एव शिवः स्वस्य रूपं धृतवान् । पार्वती अपि स्वस्य रूपं धृतवती । शिवः पार्वतीम् उक्तवान् “एषः एव जीवानात् परं कैलासं आगमिष्यति” इति । तौ अदृश्यौ जातौ ।

कथायाः संदेशः - संप्रदायरीत्या यत् यत् कुर्मः तस्य फलम् अस्ति । परन्तु तेन मोक्षप्राप्तिः कैलासप्राप्तिः वैकुन्ठप्राप्तिः वा न भवति । स्वार्थं त्यक्त्वा परोपकारार्थं जीवनं यदा संभवति तदा एव मुक्तिः भवति । अन्येषां पुनरपि मरणं पुनरपि जननम् एव भवति ।

Sunday, September 22, 2019

शुनकायनम् - Tale of a Lost Dog

एका सत्यघटना (लेखनेस्मिन् जननगरादिकाः नामन्तरैः निर्दिष्टाः)
English Translation at the bottom
अमेरिकादेशे मिशिगन्-राज्ये नेपरपल्लिः इति एकं नगरम् । नगरे एकः कुटुम्बः । कुटुम्बे माता निर्मला तस्याः दशवर्षीयः पुत्रः विजयः अष्टवयस्का पुत्री अनिता च सुखेन वसन्ति स्म । एकदा सायङ्काले ते गन्त्र्या (by car) महामार्गे प्रयाणं कुर्वन्ति स्म । मार्गपार्श्वे शनैः वण्ठमानम् एकं शुनकम् अपश्यत् बाला अनिता | लघुगात्रं सुन्दरतनुं पिङ्गलवर्णकं शुनकं वीक्ष्य अनिता मातुः पुरतः तस्य गृहनिनीषां प्राकटयत । स्वामिरहितं तं शुनकं सानुकम्पं गृहीत्वा ते गृहं प्रत्यागच्छन् । शुनकः स्नेहपूर्णम् आश्रयं लब्ध्वा परं मुमोद । कुटुम्बोऽपि शुनकेन सह क्रीडादिभिः आनन्दितः । पशुवैद्येन शुनकस्य आरोग्यपरिक्षा अपि कारिता । एवं मासद्वयम् अतीतम् ।

ग्रीष्मर्तुः आरब्धः । निदाघकाले प्रकृतिसौन्दर्यम् अनुभवितुम् उत्तरसीमाम् आसादयन्ति अनेके मिशिगन्-वासिनः । निर्मला अपि पुत्रीपुत्रशुनकैः सहिता षड्घण्टादूरस्थं सुपीरियर्-महासरोवरतटं प्राप्ता । सरोवरतीरे शिबिरप्रदेशे अयं कुटुम्बोऽपि पटकुटीं (tent) स्थापयित्वा विश्रान्तः । शुनकः क्रीडन् कूर्दमानः शिबिरवासिनां जनानां मनोरञ्जकः अभवत् । समीपस्थः एकः पुरुषः निर्मलाम् अकथयत् "अहमपि नेपरपल्लिनगरे वसामि । तत्र चापेल्-मार्गस्थे आपणे लुम्बितशुनकस्य पुनरीप्सया स्थापितं भावचित्रमेकं दृष्टवान् । अयं शुनकः समानरूपः दृश्यते" इति । तन्निशम्य शुनके स्नेष्णिह्यमानौ अनिताविजयौ तस्य विरहभयावृतौ जातौ ।

सरोवरविहारात् प्रत्यागत्य निर्मला तं पुरुषोक्तम् आपणम् अगच्छत् । तत्र चित्रे दत्तं शुनकेष्विणः सम्पर्कं दूरवाण्या कृतवती । सः एकदा मार्गक्रमणसमये स्वशुनकः वाहनाद् उत्क्षिप्य अदृश्योऽभवद् इति पालितपशुहानिप्रसङ्गं श्रावितवान् । निर्मला तं स्वगृहम् शुनकस्य परामर्शनार्थम् आह्वयत् । मासद्वयकालं शुनकमैत्रिभावरता अनिता शुनकेन पूर्वस्वामिसम्बन्धः विस्मृतः स्याद् इति अभ्यलषत् । अपरस्मिन् दिने शुनकदिदृक्षुः निर्मलायाः गृहं प्राप्तः स्वपुत्रेण साकम् । वाहनद्वारमुद्घाट्य आगच्छन्तं पूर्वस्वामिपुत्रं जातहर्षः शुनकः विलोडितपुच्छः अभ्यद्रुवत् । सः स्वामिदारकोऽपि चिरवियोगसङ्गतमुदया शुनकमालिङ्ग्य तं पर्यष्वजत् । शुनकप्राप्तिसन्तुष्टः सः पुरुषः निर्मलायै किञ्चित् पारितोषिकधनं प्रदातुम् ऐष्यत् । परन्तु निर्मला पारितोषिकधनं निराकुर्वती यदीच्छसि तर्हि शतडालरमितं पशुवैद्याय दत्तं शुल्कं देहि इत्यवदत् । सः पुरुषः इदानीं तावत् धनं समीपे नास्तीत्युक्त्वा शुनकमादाय ततः निर्गतः ।

शुनकवञ्चिता खिन्नहृदया अनिता अन्यमेकं शुनकम् आपणात् क्रेतुं मातरं बहुवारं प्रार्थयत । तथापि निर्मला शुनकपालनं कष्टकरम् इति दुहितुरनुरोधनं न्यवारयत् । सप्ताहद्वयानन्तरं शुनकस्वामिप्रेषितं पत्रमेकं निर्मलायाः गृहम् आगतम् । किमिदमिति निर्मला तत् पत्रम् उद्घाट्य पश्यति चेत् तस्मिन् पञ्चशतडालरधनम् आसीत् । दृष्ट्वा मूकविस्मिताः कुटुम्बिनः सर्वे । अनिता अवदत् "धनमिदानीं पर्याप्तम् । अस्माभिः नूतनशुनकः सर्वथा क्रेतव्यः एव" इति । निर्मला उपायान्तरम् अपश्यन्ती पशुविक्रीणनस्थानात् नूतनं बालशुनकमेकं गृहम् आनयत् । अनिताविजयौ नूतनमित्रं सम्पाद्य संतुष्टौ अभवताम् ।

English Translation:
This is not word-to-word translation, but translation at the sentence level, keeping the English language structure in mind.

Neparapalli is a town in the Michigan state of USA. A family libed in that town. The family had mother Nirmala, her 10-year old son Vijay and 8-year old Anita living happily. Once in the evening, they were traveling by car on a highway. Anita saw a dog which was walking slowly alone on the road-side. Seeing the dog which was small, beautiful and brown-colored, the girl Anita showed her desire in front of her mother to take the dog home. With compassion, they took home the ownerless dog. The dog also was happy by obtaining the friendly shelter. Thee family also enjoyed playing with the dog. The dog's health check up was done by a veterinarian. Like this, two months passed.

The summer started. In the summer time, to experience the beauty of the nature, many Michigan state residents visit the north boundary (of the state). Nirmala also with her daughter, son and the dog got to the Superior Lake that was six-hour-drive away. The family set up a tent in the camp area on the banks of the lake and rested. The dog with its playing and jumping was entertaining for the people at the camp. The man who was nearby said to Nirmala “I also live in the town of Neparapalli”. There in the shop on Chapel Road, I saw a picture of a lost dog which was wanted back. This dogs looks similar.” Hearing that, Anita and Viaya who loved the dog, got fearful of losing it.

After returning from the visit to the lake, Nirmala went to the shop told by that man. Over the phone, she contacted the person indicated in the picture. That person narrated the incident how he lost his pet like during a road travel, his dog jumped out of the vehicle and disappeared. Nirmala invited him to her house to check the dog. Being acquainted with the dog for a period two months, Anita wished that the dog had forgotten its previous owner.  Next day, the person willing to take a look at the dog got to Nirmala’s house with his son. The dog wagging his tail ran towards the son of the previous owner, who was coming in after opening the vehicle’s door. The owner’s son also embraced and petted the dog, with the joy of meeting it after a long separation. Being happy of getting the dog back, the person wanted to give Nirmala some gift amount. But Nirmala, declining the gift amount, said “if you want, then pay me the veterenarian’s fee of one hundred dollars”. Saying that that much money was not with him at present, the person took the dog and left from there.

Having lost the dog and sad, Anita many times prayed her mother to buy a different dog from shop. Even then, Nirmala declined her daughter’s requests saying that keeping a dog was difficult. After two weeks, a letter sent by the owner of the dog came to Nirmala’s house. Nirmala wondering about it, when opened the letter and saw, there were five hundred dollars in it. By seeing it, all the family members were surpirsed. Anita said “this money is enough. A new dog must be certainly bought by us.” Nirmala not finding a way out, brought a new dog from pet’s market. Obtaining the new friend, Anita and Vijay became happy.

Thursday, September 19, 2019

देवप्रयत्नः God's Effort

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
English Translation at the bottom

ग्रामे एकः पुरुषः आसीत् | तस्य नाम गोपालः | सः परमनारायणभक्तः | एकदा सः देवदर्शनम् इच्छति | तस्मिन् काले लोकयानं किमपि न आसीत् | शकटयानेन मन्दिरं गच्छति | मार्गः मृण्मयः आसीत् | मध्ये बहु वृष्टिः भवति | तदा मार्गे पङ्कः भवति | पङ्के शकटयानस्य चक्रम् अधः गच्छति | शकटयानं स्थगितं भवति | यदि गोपालः शकटं किञ्चित् नुदति चेत् चक्रं बहिः आगच्छति | परन्तु सः अधः न आगच्छति | शकटे एव उपविशति | देवं प्रार्थयति “हे नारायण, मम साहाय्यं करोतु” इति | वृष्टिः पतति एव | तदा एकः कृषिकः आगच्छति | सः समीपं आगत्य गोपालं वदति “भवतः शकटयानं स्थगितम् अस्ति | अहं साहाय्यं करोमि वा शकटं नुदामि वा?” इति | तदा गोपालः वदति “भवान् किं मम साहाय्यं करोति | भगवान् नारायणः मम साहाय्यं करोति | भवान् गच्छतु” इति | सः कृषिकः गच्छति |

अधिकवृष्टिः पतति | जलम् उपरि आगच्छति | शकटस्य उपरि छदिः अस्ति | तस्य उपरि गोपालः उपविशति | पुनः सः देवं प्रार्थयति “हे नारायण, मम रक्षणं करोतु” इति | एका नौका आगच्छति | नौकायाम् एकः आरक्षकः अस्ति | सः समीपम् आगत्य वदति “इदानीं बहु वृष्टिः भवति | जलप्रवाहः भवति | भवान् मम नौकायां आगच्छ | भवतः रक्षणं भवति” इति | तदा गोपालः वदति “भवान् किं साहाय्यं करोति | नारायणः मम रक्षणं करोति | भवान् गच्छतु” इति | सः आरक्षकः गच्छति |

पुनः अधिकवृष्टिः भवति | अधिकजलम् उपरि आगच्छति | समीपे एकः वृक्षः भवति | वृक्षस्य शाखायां गोपालः उपविशति | सर्वत्र जलप्रवाहः भवति | सः प्रार्थयति “हे नारायण, आगच्छतु | मम साहाय्यं करोतु” इति | किञ्चित् समये एकं लघु विमानम् उपरि आगच्छति | विमानचालकः वदति “सर्वत्र जलप्रवाहः अस्ति | अहं भवतः साहाय्यं करोमि | एकां रज्जुम् अधः स्थापयामि | भवान् रज्जुं गृह्णातु | अहम् उपरि विकर्षणं करोमि | भवान् उपरि विमाने आगच्छतु” इति | तदा गोपालः वदति “मम साहाय्यं भगवान् नारायणः करोति | भवान् गच्छतु” इति | विमानचालकः अपि गच्छति |

अधिकप्रवाहः भवति | वृक्षः जले पतति | गोपालः जले मग्नः भवति | सः मरणं प्राप्नोति | नारायणभक्तः सः वैकुण्ठं गच्छति | तत्र गोपालः नारायणं नमस्करोति | सः नारायणं पृच्छति “अहं पुनः पुनः भवन्तम् आहूतवान् | परन्तु भवान् मम साहाय्यं कर्तुं न आगतवान् | किमर्थं मम रक्षणं न कृतवान्” इति | तदा भगवान् नारायणः वदति “अहम् एकवारं न - त्रिवारम् आगतवान् भवतः रक्षणार्थम्” इति | गोपालः आश्चर्येण उक्तवान् “कथम्? कदा आगतवान्? अहं न दृष्टवान्” इति | तदा नारायणः उक्तवान् “यदा आरम्भे पङ्के शकटं स्थगितं तदा भवान् किमपि प्रयत्नं न कृतवान् | अहं कृषिकरूपेण आगतवान् | अनन्तरम् अहम् आरक्षकरूपेण आगतवान् | तदा अपि भवान् साहाय्यं निराकृतवान् | अनतरं विमानचालकरूपेण अहम् आगतवान् | तदा अपि भवान् साहाय्यं निराकृतवान् | अहं भवतः साहाय्यं कर्तुं बहुप्रयत्नं कृतवान् | परन्तु भवान् किमपि प्रयत्नं न कृतवान् | मम साहाय्यम् अपि निराकृतवान्” इति | नारायणस्य वचनं श्रुत्वा गोपालः लज्जितः |

English Translation:
This is not word-to-word translation, but translation at the sentence level, keeping the English language structure in mind.

There was a person in a village. His name was Gopal. He was an ardent devotee of Narayana. Once he wishes to see God (idol). In those times, there was not any kind of public transport. He goes to the temple by cart. The road was muddy. In the meantime, it rains a lot. Then the road becomes slushy with dirt. The wheel of the cart goes down in the dirt. The cart stops. If Gopal pushes the cart a little bit then then the wheel would come out. But he does not get down. He sits in the cart only. He prays god - “Hey Narayana, help me”. The rain continues to fall. Then a farmer comes by. He comes close and says to Gopal - “Your cart is stuck. May I help you, or may I push your cart?” Then Gopal says - “What help can you give me? God Narayana will help me. You may go”. The farmer goes away.

More rain falls. The water rises. There is a cover over the cart. Gopal sits on that cover. He prays to God again “Hey Narayana, protect me”. A boat comes. In the boat, there is a policeman, He comes close and says “There is lot raining now. There is flood. You come into my boat I will rescue you”. Then Gopal says “What help will you do to me? Narayana will rescue me. You may go”. The policeman goes away.

Again it rains more. More water rises. There is a tree nearby. Gopal sits on a branch of the tree. There is flood everywhere. He prays “Hey Narayana, come, help me”. After sometime, a small airplane comes over. The pilot says “There is flood everywhere. I will help you. I will put a rope down. You catch the rope. I will pull you up. You come up into the plane”. Then Gopal says “God Narayana will help me. You may go”. The pilot also goes away.

Flood increases. The tree falls into the water. Gopal drowns in the water. He dies. (Being a) Devotee of the god, he goes to Vaikuntha. There he bows to Narayana. He asks Narayana “I called you again and again. But you did not come to help me. Why did not you rescue me?” The God Narayana says “Not once, but I came thrice to rescue you”. Gopal surprised said “How? When did you come? I did not see you”. Then Narayana said “In the beginning when the cart was stuck in the dirt, then you did not do any effort. I came in the form of a farmer. Then I came in the form of a policeman. Then also you refused the help. Afterwards, I came in the form of a pilot. Then also you refused the help. I tried a lot to help you. But you did not do any effort. You also refused my help”. Hearing Narayana’s words, Gopal was ashamed.

Thursday, September 12, 2019

भिक्षुकवृत्तिः Beggar's Fate

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
विषयः - सप्तमी विभक्तिः
एकः भिक्षुकः नगरे अटनं करोति | सः एकं गृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | महिला बहिः आगच्छति | अन्नं ददाति | भिक्षुकः अन्नं स्थालिकायां स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | एका महिला बहिः आगच्छति | वस्त्रं ददाति | भिक्षुकः वस्त्रं स्यूते स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | तत्र महिला बहु धनं ददाति | भिक्षुकस्य समीपे पात्रम् अस्ति | सः धनं पात्रे स्थापयति | इदानीं पात्रे पूर्णं धनम् अस्ति |

भिक्षुकः काशीनगरं गच्छति | काशीनगरे गङ्गानदी अस्ति | भिक्षुकः स्नानार्थं नदीं गच्छति | सः नदीतटे धनपात्रं स्थापयति | जले स्नानार्थं गच्छति | नदीतटे धनपात्रं सुरक्षितं नास्ति इति चिन्तयति | पुनः नदीतटं आगच्छति | सः तटे भूमिं खनति | गर्ते धनपात्रं स्थापयति | उपरि मृत्तिकां स्थापयति | कुत्र पात्रं स्थापितम् इति ज्ञातुं सः तस्य उपरि शिवलिङ्गस्य निर्माणं करोति | स्नानं कर्तुं नदीं गच्छति |

अन्यः पुरुषः स्नानार्थं तत्र आगच्छति | सः नदीतटे शिवलिङ्गं पश्यति | प्रायः एषः काशीनगरस्य संप्रदायः अस्ति इति सः चिन्तयति | सः अपि तटे अन्यशिवलिङ्गस्य निर्माणं करोति | अनन्तरं स्नानं कर्तुं नदीं गच्छति | तदनन्तरं एकं लोकयानं तत्र आगच्छति | बहवः जनाः स्नानार्थम् आगच्छन्ति | सर्वे तटे शिवलिङ्गानि पश्यन्ति | ते अपि सर्वे भक्त्या शिवलिङ्गनिर्माणं कुर्वन्ति | इदानीं बहूनि शिवलिङ्गानि भवन्ति |

भिक्षुकः स्नानं कृत्वा तटम् आगच्छति | तत्र बहूनि शिवलिङ्गानि पश्यन्ति | धनपात्रं कुत्र इति न जानाति | निराशः सः स्वनगरं गच्छति |

Monday, September 9, 2019

चोरव्यापारः Trade-In of a Thief

(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)

एकः चोरः आसीत् । चोरस्य कार्यं रात्रिसमये भवति । सः दिवा समये चौर्यं न करोति । एकदा सायङ्कालः । चोरस्य किमपि कार्यं नास्ति । अतः सः अटनं करोति । समीपे एकं मन्दिरम् अस्ति । मन्दिरे प्रवचनं चलति । रात्रिपर्यन्तं किमपि करणीयम् इति चिन्तयित्वा सः मन्दिरं गच्छति । तत्र उपन्यासे गुरुः कृष्णस्य कथां कथयति । चोरः तत्र उपविशति । गुरुः कृष्णस्य विवरणं करोति । कृष्णः नीलवर्णः । तस्य स्वर्णमुरळी । किरीटं वज्रखचितम् । कण्ठे स्वर्णमाला । कर्णे स्वर्णकुण्डलानि । हस्ते कङ्कणानि । चोरः एतत् सर्वं विवरणं शृणोति । प्रवचनस्य समापनं भवति । अनन्तरं चोरः गुरोः समीपं गच्छति । सर्वे जनाः गुरुं नमनं कृत्वा गच्छन्ति । चोरः नमस्कारं कृत्वा तत्र एव तिष्ठति । सः गुरुं पृच्छति "कृष्णस्य सङ्केतं ददातु" इति । गुरुः बहु सन्तुष्टः । मम उपन्यासं श्रुत्वा एषः प्रभावितः । गुरुः वदति "एतावत्पर्यन्तं कोऽपि मम समीपे आगत्य कृष्णस्य विषये न पृष्टवान् । त्वं मम शिष्यः । अस्तु । श्वः प्रातःकाले मम गृहम् आगच्छतु । अहं कृष्णस्य विषये सम्पूर्णविवरणं ददामि । कृष्णस्य सङ्केतम् अपि ददामि" इति । चोरः आनन्देन गच्छति ।

अग्रिमदिने प्रातःकाले चोरः गुरोः गृहं गच्छति । चोरं दृष्ट्वा गुरुः वदति “त्वं स्नानं न कृतवान् । दन्तधावनम् अपि न कृतवान् । उत्तमं वस्त्रम् अपि न धृतवान् । अशुद्धः । कृष्णस्य विषये किमपि न वदामि” इति । तत् श्रुत्वा चोरः क्रुद्धः । छुरिकां दर्शयित्वा वदति “ह्यः भवान् सङ्केतं ददामि इति उक्तवान् । इदानीं न वदति चेत् भवतः मरणं भवति” इति । छुरिकां दृष्ट्वा भीतः गुरुः “भवान् कः?” इति पृच्छति । सः वदति “अहं तु चोरः । कृष्णस्य शरीरे आभरणानि सन्ति इति भवान् एव उक्तवान् । अतः तस्य चौर्यं कर्तुम् आगतवान् । कृष्णस्य सङ्केतं ददातु” इति । गुरुः प्राणरक्षणार्थं वदति “कृष्णः तु अत्र नगरे न वसति । वने एकः वटवृक्षः अस्ति । तत्र कृष्णः वसति” इति । चोरः रज्जुं करदीपं स्यूतं च गृहीत्वा वनं गच्छति । वने अन्वेषणं करोति । कुत्रापि वटवृक्षं न पश्यति । बहुत्र अटति । तस्य बहु कष्टं भवति । अनन्तरम् एकं वटवृक्षं पश्यति । संतुष्टः भवति । “हे कृष्ण, हे कृष्ण आगच्छतु” इति उच्चैः सः बहु वारं वदति । कृष्णं कुत्रापि न पश्यति । श्रान्तः सः चोरः तत्र एव निद्रां करोति । यदा सः उत्तिष्ठति तदा बालकृष्णः तत्र आगच्छति । यथा गुरुः उक्तवान् तथा कृष्णः सर्वाभरणानि धृत्वा शोभमानः तत्र आगच्छति । गुरुः सत्यम् उक्तवान् इति चिन्तयति चोरः । सः कृष्णं प्रति वदति “सर्वं निष्कासयतु । आभरणानि ददातु” इति । तदा बालकृष्णः सर्वाणि आभरणानि निष्कास्य चोरस्य हस्ते ददाति । चोरः आभरणानि स्यूते स्थापयित्वा नगरं प्रति गच्छति । सः गुरोः गृहं गच्छति । गुरुः वातायनतः चोरं दृष्ट्वा भीतः । सः चिन्तयति “मम प्राणरक्षणार्थम् अहं वनं वटवृक्षः इति किमपि चोरं उक्तवान् । तत् किमपि चोरः न दृष्टवान् वने । इदानीं मम अन्तिमकालः आगतः । अद्य मम यमदर्शनं भवति । ईश्वरं प्रार्थयामि” इति । चोरः गुरोः समीपं गच्छति । स्यूततः सर्वाणि आभरणानि निष्कास्य गुरोः पादे अर्पयति । “सर्वाणि आभरणानि भवतः एव” इति चोरः वदति । चोरः नमस्कारं कृत्वा ततः गच्छति ।

अत्र चौर्यव्यापारः जातः । चोरः कृष्णस्य आभरणानि चोरितवान् । कृष्णः अपि एकः चोरः । कृष्णः चोरस्य मनः अपहृतवान् । चोरः कृष्णस्य कथां श्रुतवान् इति कारणात् सज्जनः जातः । उत्तमजनसम्पर्कं भवति चेत् अस्माकं जीवनम् अपि उत्कृष्टं भवति । अपि च श्रीकृष्णस्य दर्शनं गुरुः न कृतवान् परन्तु चोरः कृतवान् । चोरस्य मनसि कृष्णविषये विश्वासः आसीत् इति कारणात् दर्शनं साध्यम् अभवत् । कार्यसाधनार्थं दृढविश्वासः आवश्यकः ।

चतुरः काकः The Smart Crow

(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)


एकः काकः आसीत् । तस्य बहु दाहः भवति । काकः अत्र पश्यति । काकः तत्र पश्यति । परन्तु जलं नास्ति । सः काकः अन्यत्र गच्छति । तत्र एकः घटः अस्ति । घटे किञ्चित् जलम् अस्ति । काकः जलं पातुं न शक्नोति । सः चिन्तयति । समीपे शिलाखण्डाः सन्ति । काकः शिलाखण्डान् घटे स्थापयति । जलम् उपरि उपरि आगच्छति । काकः सन्तोषेण जलं पिबति । एषः पुरातनः सामान्यः काकः ।

अन्यः नूतनकाकः । तस्य अपि दाहः भवति । सः घटस्य समीपं गच्छति । घटे किञ्चित् जलम् अस्ति । काकः आपणं गच्छति । ततः एकां पाननलिकाम् (straw) आनयति । नलिकां घटे स्थापयति । विना कष्टेन जलं पिबति । एषः चतुरः काकः |

Sunday, September 8, 2019

नवनीतचोरः कृष्णः Krishna Stealing Butter

आधारः - संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
This story with caption and English meaning is available on YouTube.

श्रीकृष्णः बालकः। तस्य नवनीतं बहु प्रियम् । गोपस्त्री घटे नवनीतं स्थापितवती । अनन्तरं सा बहिः गतवती । कृष्णः बलरामः अन्ये बालकाः च तत्र गत्वा नवनीतं खादितवन्तः । गोपस्त्री आगत्य पश्यति । घटे नवनीतं न आसीत् । अग्रिमदिने सा नवनीतं घटे स्थापितवती । घटं रज्जुना उपरि लम्बितवती । अनन्तरं सा बहिः गतवती । सर्वे बालकाः तत्र गत्वा पश्यन्ति । घटः उपरि आसीत् । कृष्णः एकम् उपायं चिन्तितवान् । तदा बलरामः अधः स्थितवान् । बलरामस्य उपरि श्रीकृष्णः स्थितवान् । एवं कृष्णः घटं प्राप्य नवनीतं बलरामाय दत्तवान् । बलरामः नवनीतं मित्राय दत्तवान् । एवं सर्वे नवनीतं खादितवन्तः । गोपस्त्री आगत्य पश्यति । घटे पुनः नवनीतं न आसीत् । अग्रिमदिने सा नवनीतं घटे पुनः स्थापितवती । घटं रज्जुना उपरि पुनः लम्बितवती । तत्र रज्जुमूले एकां घण्टां स्थापितवती । अनन्तरं सा बहिः गतवती । बालकाः च तत्र गत्वा पश्यन्ति । घटः उपरि आसीत् । तत्र घण्टा अपि आसीत् । कृष्णः घण्टाम् उक्तवान् "हे घण्टे शब्दं मा करोतु" इति । ईश्वरस्य आज्ञा इति घण्टा किञ्चित् अपि शब्दं न कृतवती । पुनः बलरामः अधः स्थितवान् । बलरामस्य उपरि श्रीकृष्णः । कृष्णः घटं प्राप्य नवनीतं बलरामाय दत्तवान् । बलरामः नवनीतं मित्राय दत्तवान् । सर्वे नवनीतं खादितवन्तः । अन्ते कृष्णः नवनीतं खादितवान् । तदा घण्टा उच्चैः शब्दं कृतवती । तत् श्रुत्वा कृष्णः क्रुद्धः घण्टां पृष्टवान् "हे घण्टे, किमर्थं मम खादनसमये शब्दं कृतवती?" इति । तदा घण्टा उक्तवती "हे कृष्ण, एषः मम कुलधर्मः । यदा ईश्वरस्य नैवेद्यं भवति तदा घण्टाशब्दः भवति । भवान् तु जगदीश्वरः । अतः भवतः खादनसमये अहं शब्दं कृतवती" इति ।

English Translation
by Smt. Suryakumari Guthikonda

Sreekrishna is a boy. His most favorite thing is butter. Cowherdess (Gopika) kept butter in a pot. Then she went out. Krishna, Balarama and other boys went there and ate butter. She returns and looks. There was no butter in the pot. Next day she put the butter in the pot. She tied the pot with a rope and hung it high up. After that she went out. All the boys went there and looked. Pot was at high level. Krishna thought of an idea. Then Balarama stood on the floor. On top of Balarama Sreekrishna stood. Thus Krishna reached the pot and gave the butter to Balarama. Balarama gave the butter to a friend. Like this, everybody ate the butter. Cowherdess comes back and looks. There was no butter in the pot again.

Next day, she kept butter in the pot again. She tied the pot with a rope and hung up at a high level again. At the base of the rope, she put one bell. After that she went out. Boys went there and looked. Pot was at a high level.There was a bell also. Krishna said to the bell "Hey bell, do not make sound". "This is God's order" so, the bell did not make any sound. Again Balarama stood at the bottom. On top of Balarama stood Sreekrishna. Krishna reached the pot and gave the butter to Balarama. Balarama gave the butter to a friend. All of them ate the butter. At the end, Krishna ate the butter. Then the bell made a loud sound. Hearing that, angry Krishna asked the bell "Hey bell, why did you make the sound during my eating time?". Then the bell said "Hey Krishna, this is the nature of my family. Whenever an offering is made to God, then the bell rings. You are the God of the universe. So, during your eating time, I made the sound".

Saturday, August 3, 2019

Ushinara Katha - उशीनरकथा



उशीनरः इति महाराजः आसीत् । सः सत्यधर्मपरिपालकः न्यायनिष्ठुरः इति लोके विश्रुतः । देवेन्द्रः तथा अग्निदेवः उशीनरराजस्य परीक्षार्थं मनः कृतवन्तौ । देवेन्द्रः श्येनरूपम् अग्निदेवः कपोतरूपं च धृत्त्वा उशीनरस्य राजभवनम् आगतवन्तौ ।
श्येनेन प्रद्रावितः कपोतः प्राणभयात् उशीनरस्य अङ्के शरणं प्राप्तवान् । तदा समभूत् एतत् संभाषणम् ।

श्येनः - हे उशीनर । अङ्के तव कपोत एष मया लक्षितः । विसृज एनं मम आहारार्थम् ।
राजा - श्येनश्रेष्ठ । कपोतोऽयं शरणम् इच्छति मम । कृपया एनं त्यक्त्वा अन्यत् किञ्चित् भुङ्क्ष्व ।
श्येनः - हे राजन् । कपोतकुलं मम भक्षणम् इति विधिना विहितम् । अत्र मम न कोऽपि दोषः । भवान् तु धर्मसूक्ष्मज्ञ इति सुविख्यातः । मुञ्चतु मम भक्ष्यपदार्थम् ।
राजा - हे खगवर । त्वत् भीतः जीवितार्थी अयं कपोतः मम आश्रयं प्राप्तः । शरणागतस्य त्यागः धर्मविरुद्धः वर्तते । एतत्कारणात् कृपया त्वं अन्यत् किमपि भक्षय । मम समीपे नानाविधानि भक्ष्याणि सन्ति । यथेष्टं भोक्तुम् अर्हसि ।
श्येनः - महाराज । क्षुधापीडितस्य निजाहारनिराकरणात् मम मृत्युः संभवति । तस्मात् मम कुटुम्बोऽपि प्राणत्यागं करोति । एकस्यास्य कपोतस्य जीवितात् अनेके मृत्युमुखा भवन्ति । अतः अस्य रक्षणात् किमपि प्रयोजनं नास्ति । संत्यज एनम् ।
राजा - हे विहगोत्तम । कल्याणकरं भाषणं ते धर्मज्ञत्वं सूचयति । तथापि शरणागतानां त्यजनं सर्वथा लोके निन्दनीयं पापयोग्यं चेति धर्मविदः वदन्ति । अतः त्वं कापोतभक्षणं विहाय यदिच्छसि तत् निश्चयेन ददामि । इति मम सत्यवचनम् ।
श्येनः - कपोते यदि तव एतादृशः स्नेहः तर्हि तव शरीरात् कपोततुल्यं मांसम् उत्कृत्य देहि । तेन अहं संतुष्टो भवामि ।
राजा - हे पक्षिराट् । तव वचनेन अनुगृहीतोस्मि । अधुना एव अहं कपोतसमं स्वमांसं तोलयित्वा ददामि ।

इति उक्त्वा स राजा उशीनरः तुलाम् एकाम् आदापय्य तस्यां स्वशरीरात् मांसम् उत्कृत्य स्थापितवान् । परन्तु कपोतस्य भारः मांसखण्डात् अधिकतरः अभवत् । तदा राजा पुनः स्शवरीरात् अधिकं मांसम् उत्कृत्य तुलायां स्थापितवान् । कपोतस्य भारः इतोऽपि अधिकः जातः । राजा पुनः अधिकं मांसं स्थापितवान् । एवं बहुवारं कृतम् अपि कपोतात् मांसं लघ्वीभूतम् । तदा उशीनरः स्वयं तुलायाम् उपाविशत् ।

श्येनः - प्रसन्नोस्मि महाराज । तव परीक्षणार्थम् आगतौ आवाम् । अहं श्येनरूपी देवेन्द्रः । अयं कपोतरूपी अग्निदेवः । यत् स्वशरीरात् मांसम् उत्कृत्य अर्पणं कृतं तत् परमाद्भुतम् । तव कीर्तिः लोके उज्ज्वला प्रकाशते ।

इत्युक्त्वा देवेन्द्रः अग्निदेवः च स्वर्गं गतवन्तौ । उशीनरः अपि कालानन्तरं स्वर्गलोकसुखं प्राप्तवान् ।

(महाभारताधारितकथा)

Saturday, July 20, 2019

वातापि जीर्णो भव - Vatapi Story

(महाभरतन्तर्गता कथा)
पूर्वस्मिन् काले भारतस्य दक्षिणभागे मणिमतिनगरे इल्वलः नामकः दैत्यराजः आसीत् | तस्य अनुजः वातापिः | एकदा इल्वलः तपोधनं ब्राह्मणमेकं समासाद्य पुत्रमेकं प्रदातुं प्रार्थितवान् | ब्राह्मणवरः इल्वलस्य प्रार्थनां तिरस्कृतवान् | तस्मात् क्रुद्धः इल्वलः ब्राह्मणजनान् हन्तुमेकं कुटिलोपायं समचिन्तयत | यदा कश्चित् ब्राह्मणः अतिथिरूपेण तस्य राजभवनं आगच्छत् तदा इल्वलः अनुजं वातापिं मेषदेहे परिवर्तनं कृत्वा तदनन्तरं मेषरूपिणः वातापेः मांसम् अन्ने मिश्रयित्वा अतिथिं भोजयति स्म | भोजनान्तरम् इल्वलः वातापिं वाचा आह्वयति स्म | स मायावी वातापिः इल्वलवचनेन ब्राह्मणातिथेः उदरं भित्त्वा बहिरागच्छति स्म | एवं नैके ब्राह्मणाः मृत्युमुखं गताः। इल्वलभयात् संत्रस्तः ब्राह्मणगणः तन्निवारणार्थं महामुनिम् अगस्त्यं समाश्रयत् ।

अगस्त्यः इल्वलराजधानीमुद्दिश्य दक्षिणाभिमुखं प्रस्थितवान्। मार्गे सः गर्ते लम्बमानान् स्वपितॄन् अपश्यत्। तान् उद्धर्तुकामः अगस्त्यः सन्तानहेतुः राजकन्यया लोपामुद्रया सह विवाहं चकार। लोपामुद्रा राजवैभवं त्यक्त्वा वने उटजवासिनी पत्यनुकूला मुमोद | किञ्चित् कालानन्तरं पत्या अपत्यार्थं प्रार्थिता सा | परन्तु संतानप्राप्तिपूर्वं विभवाभिलाषा प्रकटिता तया | अर्थसंपादनाय निर्गतः अगस्त्यः श्रुतर्वाणं राजानं प्राप्य तं धनं पृष्टवान् | स राजा राजकोशं दर्शयित्वा अधिकं धनं नास्तीति अवदत् | ततः अगस्त्यः ब्रध्नश्वराजं तरसदस्युराजं च प्राप्य धनम् अयाचत | उभावपि राजानौ स्वकोशे धनाभावं दर्शयन्तौ राक्षसराजस्य इल्वलस्य समीपे भूरि धनं विद्यते इति सूचितवन्तौ |

अगस्त्यः श्रुतर्वाब्रध्नश्वत्रसदस्युराजैः सह इल्वलभवनं प्राप्य असुरराजेन संपूजितः | यथाक्रमं इल्वलः भ्रात्रा वातापिना संस्कृतं भोजनं अगस्त्याय न्यवेदयत् | तद्दृष्ट्वा भयभीतं राजत्रयम् अभयं दत्त्वा अगस्त्यः मांसमिश्रितम् अन्नम् गिलङ्कृतवान् | इल्वलस्तु विकटहासं कुर्वाणः वातापि बहिरागच्छ इति अभणत् | अगस्त्येन उक्तं वातापि जीर्णो भव इति | ततः मुनिः प्रहस्य उक्तवान् मया जिर्णस्तु वातापिः कथं स बहिरागच्छति इति | तदा इल्वलः विषण्णः प्राञ्जलिः भूत्वा अगस्त्यस्य आगमनकारणं पृष्टवान् | अगस्त्यः तदा स्वस्य वित्ताशयं राजत्रयस्य अल्पधनत्त्वं च उक्तवान् | इल्वलः तान् सर्वान् भूरिशः धनं गावः सुवर्णादिकं च प्रदाय अप्रेषयत |

स्वभवनात् प्रस्थितम् अगस्त्यं पृष्ठतः गत्त्वा हन्तुम् उद्युक्तः इल्वलः | तत् ज्ञात्वा क्रोधितो मुनिः केवलं हुंकारमात्रेण राक्षसं भस्मीभूतम् अकरोत् | तदनन्तरं मुनिरगस्त्यः स्वकुटीरं गत्त्वा लोपामुद्रां वसुमतीम् अकरोत् | कालान्तरे मुनिदम्पत्योः दृढस्यः इति मुनिश्रेष्ठः अपत्यरूपेण जातः |

Friday, April 12, 2019

ईदासकथा

(शानच्-प्रत्ययप्रयोगः - आसीन-रूपसिद्धिः च)

आसीद् एकः बालः ईदासो नामकः | तस्य मित्रं मैदासः | एकदा ईदासः मित्रेण सह मेलनं चिन्तयमानः तस्य गृहं प्रस्थितवान् | डयमानानां पक्षिणां कलरवं शृण्वन् सः मार्गं क्रान्तवान् | पन्थानम् उभयतः आच्छादयमानेषु महावृक्षेषु कूर्दमानान् वानरान् अपि सः दृष्टवान् | किञ्चिद्दूरं चलित्वा श्रान्तः ईदासः पाथेयं भक्षमाणः सः पार्श्वस्थे आपणे शाकानि क्रीणानाः महिलाः अपश्यत् | आतपेन पीडितः सः तरुमूले सुखेन शयानः आनन्दितवान् | किञ्चित् कालानन्तरं सः उत्थाय कम्पमानान् पादपान् वीक्षमाणः मार्गं क्रमित्वा मैदासगृहं प्राप्तवान् | संध्याकाले जायमाने आगतं मित्रं दृष्ट्वा मैदासः स्वागतं कुर्वाणः ईदासम् आलिङ्गितवान् | मैदासः पचमानायाः भगिन्याः मधुरं खाद्यम् आदाय ईदासं दत्तवान् | मैदासः मित्रं शोभमानम् आसनं दर्शयमानः अवदत् | भो मित्र आसानो  त्वं मधुरं खाद इति |

ईदासः स्मयमानः अवदत् - प्रिय मित्र | आसीन इति पदं प्रयोक्तव्यम् | आसान इति प्रयोगः अशुद्धः | 

लजमानः मैदासः मित्रं पृष्टवान् - कथं तथा मित्र ? वृत्-धातोः शानजन्तरूपं वर्तमानः | मनु-धातुः शानच्-प्रत्यये परे मन्वानः भवति | अधि-पूर्वकः इङ्-धातुः अधीयानः भवति | ब्रू-धातुः ब्रुवाणः भवति | वस्-धातुः वसानः दा-धातुः ददानः ईश्-धातुः ईशानः च भवन्ति | तर्हि आस्-धातोः शानजन्तरूपम् आसानः इति भवेत् खलु ? 

खाद्यं भक्षयमाणः ईदासः अवदत् - अयि सखे | आस्-धातोः विषये विशिष्टं व्याकरणसूत्रम् एकं प्रवर्तमानं विद्यते | तत् सूत्रम् - ईदासः इति |

साश्चर्यं मित्रम् अवलोकमानः मैदासः प्रत्यवदत् - ईदासः इति सूत्रम् ? किञ्चिद् विस्तरेण कथयमानात् तव मुखात् श्रोतुम् इच्छामि |

सूत्रार्थं वर्णयमानः ईदासः अवदत् - सत्यम् | ईदासः इति पाणिनीयसूत्रम् | आसः ईत् इत्यन्वयः | आस्-धातोः शानच्-प्रत्यये परे आ-स्थाने ई इति आदेशः भवति इति सूत्रस्य अर्थः | तदा आस् अनन्तरम् ई योजयमानाः विबुधाः आसीनः इति पदरूपं प्राप्नुवन्ति | 

आनन्दं भावयमानः मैदासः अवदत् - साधु मित्र | नूनं वन्द्यमानः पाणिनिः | 

एवम् ईदासमैदासौ कथाविनोदादिषु रममाणौ शिष्टसंध्यासमयं यापितवन्तौ |