Wednesday, November 6, 2019

काकः कनकसूत्रं च - Crow and Golden Necklace

(पञ्चतन्त्रकथा)

उपायेन जयो यादृग् रिपोस्तादृग् न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥

वने एकः महान् वृक्षः आसीत् । वृक्षे एकः काकः निवसति स्म । वक्षस्य बिले एकः कृष्णसर्पः वसति स्म। सर्पः काकस्य शिशून् सर्वदा खादति स्म । काकः दुःखितः आसीत् । सर्पस्य निवारणं कथं कर्तव्यम् इति काकः चिन्तयति । समीपे एकः शृगालः वसति । काकः शृगालस्य समीपं गच्छति । सर्पस्य विषयं वदति। तस्य निवारणस्य उपायं पृच्छति । शृगालः किञ्चित् चिन्तयित्वा एकम् उपायं कथयति । काकः उपायं शृणोति । महाराजः तस्य परिवारेण सहितः समीपे जलाशयं क्रीडितुम् आगच्छति । तत्र काकः गच्छति । जलाशयस्य तटे राजपरिवारस्य वस्त्राणि आभरणानि भवन्ति । काकः आभरणेषु एकं कनकसूत्रं चञ्च्वा गृह्णाति । कनकसूत्रेण सह डयनं करोति । तत् दृष्ट्वा राजपुरुषाः काकस्य पृष्ठतः धावन्ति । काकः वृक्षस्य समीपं गच्छति । सर्पस्य बिले कनकसूत्रं पातयति । राजपुरुषाः बिले पश्यन्ति । बिले सर्पः भवति । राजपुरुषाः दण्डेन सर्पं मारयन्ति । ते कनकसूत्रं गृहीत्वा गच्छन्ति । एवं काकः सर्पभयात् मुक्तिं प्राप्नोति ।

नीतिः
यः योग्यम् उपायं जानाति सः सुलभतया जयं प्राप्नोति । तस्य अस्त्रशस्त्रस्य आवश्यकता नास्ति ।

English:
Winning using a smart idea is better than winning using weapons. One who knows a smart idea, even if he is weak, does not get defeated by strong people.

There was a big tree in a forest. In the tree, lived a crow. In the hole of the tree, lived a black serpent. The serpent always ate the babies of the crow. The crow becomes sorrowful. He thinks of how to get rid of the serpent. Nearby lives a fox. The crow goes to the fox. He tells the fox about the serpent's deeds. He asks the fox about how to get rid of the serpent. The fox thinks a bit and tells him an idea. The crow listens to the idea. The king with his family friends comes to play to a nearby lake. The crow goes there. On the banks of the lake, there were the clothes and ornaments of the royal family. From the ornaments, the crow picks up a golden necklace with its beak. He flies with the golden necklace. Seeing that, the king’s men also run behind the crow. The crow goes near the tree. He fells the golden necklace in the serpent’s hole. The king’s men look in the hole. In the hole, there is the serpent. The king’s men kill the serpent with a stick. They take the golden necklace and go away. Thus, the crow gets relieved from the fear of the serpent.

Message
One who knows the right solution, gets the success easily. He does not need any weapons.

No comments:

Post a Comment