Friday, September 27, 2019

समीचीनसंवादः - A Good Discussion


गुरुशिष्यौ वेदमन्त्रं पठतः |

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

शिष्यः - गुरुवर्य, अस्मिन् मन्त्रे प्रायः सर्वाणि पदानि सुलभावगम्यानि | परन्तु “उदच्यते” इति पदं तावन्न प्रसिद्धम् | अस्य अर्थः कः ?
गुरुः - हे शिष्य, “उदच्यते” इति क्रियापदम् | उद्गच्छति, बहिः गच्छति इति तस्य अर्थः |
शिष्यः - को धातुः तत्र ? रूपं किम्?
गुरुः - उत्+अच्यते इति भागद्वयं तस्य | अञ्चुँ इति भ्वादिगणीयधातुः गतिपूजनयोः अर्थे प्रयुज्यते | अच्यते इति तस्य लटि प्रथमपुरुषैकवचनस्य कर्मणिरूपम् |
शिष्यः - धातुः अञ्चुँ तर्हि अञ्च्यते भवेत् ननु | कथं अच्यते इति रूपम् ?
गुरुः - अस्य धातोः वैशिष्ट्यं यत् गत्यर्थे नकारलोपः भवति | पूजार्थे नकारलोपो न भवति | तदा गत्यर्थे अच्यते इति रूपम् | पूजार्थे अञ्च्यते इति रूपम् |
शिष्यः - बहु सम्यगुक्तं त्वया गुरुदेव |
गुरुः - अहो शिष्य | “सम्यक्” इति पदमपि तद्धातुतः एव निष्पन्नम् |
शिष्यः - कथमिति? तस्य निर्वचनं निरूप्यतां कृपया |
गुरुः - तस्य व्याकरणप्रक्रिया एवमस्ति -
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अच् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
सम्+अक् (क्विन् प्रत्ययस्य कुः ८.२.६२)
समि+अक् (समः समि ६.३.९३)
सम्यक् (इको यणचि ६.१.७७)
शिष्यः - भोः अति समीचीनम् |
गुरुः - अहह! “समीचीनं” पदमपि अञ्चुधातोरेव विकारः |
शिष्यः - कथमीदृशम्? उच्यतां देव |
गुरुः - शृणु प्रक्रियामत्र |
सम्+अञ्च् (उपदेशेजनुनासिक इत् १.३.२)
सम्+अञ्च्+ क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
समि+अच् (समः समि ६.३.९३)
समि+अच्+ख (विभाषा अञ्चेरदिक्स्त्रियाम् ५.४.८)
समि+अच्+ईन (आयनेयीनीयियः फढखच्छाघां प्रत्ययादीनाम् ७.१.२)
समि+च्+ईन (अचः ६.४.१३८)
समी+च्+ईन (चौ ६.३.१३८)
समीचीन
शिष्यः - रोमाञ्चो जातः भगवन् |
गुरुः - शिष्य, “रोमाञ्चः” अपि रोम्णाम् अञ्चः इति अञ्चुधातरेव कृदन्तरूपम् |
शिष्यः - प्रदीर्घोयं विषयः | अन्यः को विशेषोस्य धातोः ब्रह्मन्?
गुरुः - ब्रवीमि | देहि कर्णमत्र | प्राचीन-अर्वाचीन-प्रतीचीन-उदीचीन-पदानि समीचीनपदवत् निर्मितानि | इदानीं प्राङ् पदस्य प्रक्रियां निरूपयामि |
प्र + अञ्च् + क्विन् (ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्च्यां च ३.२.५९)
प्र + च् (अचः ६.४.१३८)
प्रा + च् (चौ ६.३.१३८)
प्राच् + सुँ (प्रथमैकवचनस्य सुप्प्रत्ययः)
प्रा + न् + च् + स् (उगिदचां सर्वनामस्थानेऽधातोः ७.१.७०)
प्रान् (संयोगान्तस्य लोपः ८.२.२३)
प्राङ् (क्विन्प्रत्ययस्य कुः ८.२.६२)

इति प्राच् पदस्य पुंलिङ्गप्रथमैकवचनरूपम् | एवेमेव उदङ् तिर्यङ् रूपे प्रथमैकवचने सिध्यतः |
शिष्यः - अवगतं गुरुवर | अस्य मननं चेक्रीय्ये | प्रणामाः |

No comments:

Post a Comment