आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा
महाशिवरात्रिदिनम् । काशीनगरे महान् जनसम्मर्दः । लक्षाधिकजनाः तत्र आगताः । भक्तानाम् एकः विश्वासः अस्ति - महाशिवरात्रिदिने गङ्गास्नानं कृत्वा गङ्गाजलेन काशीविश्वनाथस्य अभिषेकं करोमि चेत् जीवनात् परं कैलासप्राप्तिः भवति इति । पार्वती कैलासे वसति । सा काशीं दृष्टवती । बहु जनसम्मर्दः । सर्वत्र जनाः सन्ति । गङ्गास्नानं कुर्वन्ति । मन्दिरं गच्छन्ति । अभिषेकं कुर्वन्ति । सा परमेश्वरं पृष्टवती “ते सर्वे जनाः जीवनात् परं कैलासम् आगमिष्यन्ति वा?” इति । तस्याः मनसि भीतिः । सर्वे जनाः कैलासम् आगच्छन्ति चेत् तत्र स्थानं पर्याप्तं न भवति । शिवस्य वाहनम् अपि वृषभवाहनम् । तत् भीत्या इतस्ततः गच्छति । शिवः हसितवान् । सः “अस्तु पश्यामः इति आगच्छतु, आवाम् इदानीं काशीं गच्छावः” इति उक्तवान् ।
पार्वत्या सह शिवः काशीम् आगतवान् । परन्तु स्वस्य रूपं धृत्वा न आगतवान् । शिवः एकः वृद्धस्य रूपं स्वीकृतवान् । पार्वती अपि वृद्धनारीरूपं स्वीकृतवती । काशीविश्वनाथमन्दिरस्य गोपुरद्वारसमीपे वृद्धा उपविशति । वृद्धः मूर्छितः इव नटति । वृद्धः वृद्धायाः वक्षस्थले मुखं निधाय उपविशति । तदा पार्वती प्रार्थनां करोति “हे भक्तजनाः, मम पतिः इदानीं मूर्छितः अस्ति । आवां विश्वनाथदर्शनार्थम् आगतवन्तौ । इदानीं एषः बहु वृद्धः मूर्छितः । तस्य दाहः अस्ति । किञ्चित् जलं ददातु” इति । भक्ताः आगच्छन्ति । तेषां हस्ते अभिषेकार्थं जलम् अस्ति । एकः वदति “धिक् दरिद्रा, गच्छतु । जलम् अभिषेकार्थम् आनीतवान् । ददामि चेत् अपवित्रं भवति” इति । सः अग्रे गच्छति । पुनः एकः अन्यः पुरुषः आगच्छति । माता प्रार्थितवती “किञ्चित् जलं ददातु । मम पतिः मूर्छितः । तस्य जीवनस्य रक्षणम् आवश्यकम् । किञ्चित् जलं ददातु” इति रोदनं कृतवाती । सः पुरुषः वदति “महाशिवरात्रिदिने दरिद्रायाः दर्शनं वा? गच्छतु गच्छतु” इति । जलं न ददाति ।
यदा जनसम्मर्दः भवति तदा चोरः निश्चयेन आगच्छति आभरणमालादिचोरणार्थम् । चोरः वृद्धायाः रोदनं श्रुतवान् । किमिति शृणोमि इति सः समीपम् आगतवान् । वृद्धा पुनः वदति “वृद्धः मूर्छितः । जलं ददातु” इति । चोरः उक्तवान् “अहं जलम् आनयामि” इति । सः गङ्गानदीं प्रति झटिति धावितवान् । घटे जलम् आनीतवान् । वृद्धायाः हस्ते घटं दत्तवान् । “पत्युः मुखे जलं स्थापयतु । तस्य रक्षणं करोतु” इति सः उक्तवान् । सा उक्तवती “एतत् जलम् एव मम पत्युः अन्तिमजलं भवितुम् अर्हति । अतः भवता कृतं पुण्यकार्यम् एकम् उक्त्वा ददातु । अहं स्वीकरोमि” इति । तदा चोरः उक्तवान् “हे मातः, अहं चोरः । मया पुण्यकार्यं एकम् अपि जीवने न कृतम् । एतद् एव मम प्रथमपुण्यकार्यम् । कृपया जलं स्वीकरोतु । वृद्धस्य पत्युः रक्षणं करोतु । मा अस्तु इति न वदतु” इति । तत्क्षणे एव शिवः स्वस्य रूपं धृतवान् । पार्वती अपि स्वस्य रूपं धृतवती । शिवः पार्वतीम् उक्तवान् “एषः एव जीवानात् परं कैलासं आगमिष्यति” इति । तौ अदृश्यौ जातौ ।
कथायाः संदेशः - संप्रदायरीत्या यत् यत् कुर्मः तस्य फलम् अस्ति । परन्तु तेन मोक्षप्राप्तिः कैलासप्राप्तिः वैकुन्ठप्राप्तिः वा न भवति । स्वार्थं त्यक्त्वा परोपकारार्थं जीवनं यदा संभवति तदा एव मुक्तिः भवति । अन्येषां पुनरपि मरणं पुनरपि जननम् एव भवति ।
No comments:
Post a Comment