(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)
एकः चोरः आसीत् । चोरस्य कार्यं रात्रिसमये भवति । सः दिवा समये चौर्यं न करोति । एकदा सायङ्कालः । चोरस्य किमपि कार्यं नास्ति । अतः सः अटनं करोति । समीपे एकं मन्दिरम् अस्ति । मन्दिरे प्रवचनं चलति । रात्रिपर्यन्तं किमपि करणीयम् इति चिन्तयित्वा सः मन्दिरं गच्छति । तत्र उपन्यासे गुरुः कृष्णस्य कथां कथयति । चोरः तत्र उपविशति । गुरुः कृष्णस्य विवरणं करोति । कृष्णः नीलवर्णः । तस्य स्वर्णमुरळी । किरीटं वज्रखचितम् । कण्ठे स्वर्णमाला । कर्णे स्वर्णकुण्डलानि । हस्ते कङ्कणानि । चोरः एतत् सर्वं विवरणं शृणोति । प्रवचनस्य समापनं भवति । अनन्तरं चोरः गुरोः समीपं गच्छति । सर्वे जनाः गुरुं नमनं कृत्वा गच्छन्ति । चोरः नमस्कारं कृत्वा तत्र एव तिष्ठति । सः गुरुं पृच्छति "कृष्णस्य सङ्केतं ददातु" इति । गुरुः बहु सन्तुष्टः । मम उपन्यासं श्रुत्वा एषः प्रभावितः । गुरुः वदति "एतावत्पर्यन्तं कोऽपि मम समीपे आगत्य कृष्णस्य विषये न पृष्टवान् । त्वं मम शिष्यः । अस्तु । श्वः प्रातःकाले मम गृहम् आगच्छतु । अहं कृष्णस्य विषये सम्पूर्णविवरणं ददामि । कृष्णस्य सङ्केतम् अपि ददामि" इति । चोरः आनन्देन गच्छति ।
अग्रिमदिने प्रातःकाले चोरः गुरोः गृहं गच्छति । चोरं दृष्ट्वा गुरुः वदति “त्वं स्नानं न कृतवान् । दन्तधावनम् अपि न कृतवान् । उत्तमं वस्त्रम् अपि न धृतवान् । अशुद्धः । कृष्णस्य विषये किमपि न वदामि” इति । तत् श्रुत्वा चोरः क्रुद्धः । छुरिकां दर्शयित्वा वदति “ह्यः भवान् सङ्केतं ददामि इति उक्तवान् । इदानीं न वदति चेत् भवतः मरणं भवति” इति । छुरिकां दृष्ट्वा भीतः गुरुः “भवान् कः?” इति पृच्छति । सः वदति “अहं तु चोरः । कृष्णस्य शरीरे आभरणानि सन्ति इति भवान् एव उक्तवान् । अतः तस्य चौर्यं कर्तुम् आगतवान् । कृष्णस्य सङ्केतं ददातु” इति । गुरुः प्राणरक्षणार्थं वदति “कृष्णः तु अत्र नगरे न वसति । वने एकः वटवृक्षः अस्ति । तत्र कृष्णः वसति” इति । चोरः रज्जुं करदीपं स्यूतं च गृहीत्वा वनं गच्छति । वने अन्वेषणं करोति । कुत्रापि वटवृक्षं न पश्यति । बहुत्र अटति । तस्य बहु कष्टं भवति । अनन्तरम् एकं वटवृक्षं पश्यति । संतुष्टः भवति । “हे कृष्ण, हे कृष्ण आगच्छतु” इति उच्चैः सः बहु वारं वदति । कृष्णं कुत्रापि न पश्यति । श्रान्तः सः चोरः तत्र एव निद्रां करोति । यदा सः उत्तिष्ठति तदा बालकृष्णः तत्र आगच्छति । यथा गुरुः उक्तवान् तथा कृष्णः सर्वाभरणानि धृत्वा शोभमानः तत्र आगच्छति । गुरुः सत्यम् उक्तवान् इति चिन्तयति चोरः । सः कृष्णं प्रति वदति “सर्वं निष्कासयतु । आभरणानि ददातु” इति । तदा बालकृष्णः सर्वाणि आभरणानि निष्कास्य चोरस्य हस्ते ददाति । चोरः आभरणानि स्यूते स्थापयित्वा नगरं प्रति गच्छति । सः गुरोः गृहं गच्छति । गुरुः वातायनतः चोरं दृष्ट्वा भीतः । सः चिन्तयति “मम प्राणरक्षणार्थम् अहं वनं वटवृक्षः इति किमपि चोरं उक्तवान् । तत् किमपि चोरः न दृष्टवान् वने । इदानीं मम अन्तिमकालः आगतः । अद्य मम यमदर्शनं भवति । ईश्वरं प्रार्थयामि” इति । चोरः गुरोः समीपं गच्छति । स्यूततः सर्वाणि आभरणानि निष्कास्य गुरोः पादे अर्पयति । “सर्वाणि आभरणानि भवतः एव” इति चोरः वदति । चोरः नमस्कारं कृत्वा ततः गच्छति ।
No comments:
Post a Comment