Thursday, September 12, 2019

भिक्षुकवृत्तिः Beggar's Fate

आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.द.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा 
विषयः - सप्तमी विभक्तिः
एकः भिक्षुकः नगरे अटनं करोति | सः एकं गृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | महिला बहिः आगच्छति | अन्नं ददाति | भिक्षुकः अन्नं स्थालिकायां स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | एका महिला बहिः आगच्छति | वस्त्रं ददाति | भिक्षुकः वस्त्रं स्यूते स्थापयति | सः अन्यगृहं गच्छति | तत्र वदति "भवति भिक्षां देहि" इति | तत्र महिला बहु धनं ददाति | भिक्षुकस्य समीपे पात्रम् अस्ति | सः धनं पात्रे स्थापयति | इदानीं पात्रे पूर्णं धनम् अस्ति |

भिक्षुकः काशीनगरं गच्छति | काशीनगरे गङ्गानदी अस्ति | भिक्षुकः स्नानार्थं नदीं गच्छति | सः नदीतटे धनपात्रं स्थापयति | जले स्नानार्थं गच्छति | नदीतटे धनपात्रं सुरक्षितं नास्ति इति चिन्तयति | पुनः नदीतटं आगच्छति | सः तटे भूमिं खनति | गर्ते धनपात्रं स्थापयति | उपरि मृत्तिकां स्थापयति | कुत्र पात्रं स्थापितम् इति ज्ञातुं सः तस्य उपरि शिवलिङ्गस्य निर्माणं करोति | स्नानं कर्तुं नदीं गच्छति |

अन्यः पुरुषः स्नानार्थं तत्र आगच्छति | सः नदीतटे शिवलिङ्गं पश्यति | प्रायः एषः काशीनगरस्य संप्रदायः अस्ति इति सः चिन्तयति | सः अपि तटे अन्यशिवलिङ्गस्य निर्माणं करोति | अनन्तरं स्नानं कर्तुं नदीं गच्छति | तदनन्तरं एकं लोकयानं तत्र आगच्छति | बहवः जनाः स्नानार्थम् आगच्छन्ति | सर्वे तटे शिवलिङ्गानि पश्यन्ति | ते अपि सर्वे भक्त्या शिवलिङ्गनिर्माणं कुर्वन्ति | इदानीं बहूनि शिवलिङ्गानि भवन्ति |

भिक्षुकः स्नानं कृत्वा तटम् आगच्छति | तत्र बहूनि शिवलिङ्गानि पश्यन्ति | धनपात्रं कुत्र इति न जानाति | निराशः सः स्वनगरं गच्छति |

No comments:

Post a Comment