(महाभारते वनपर्वणि)
पुरा मद्रदेशे अश्वपतिः नाम राजा आसीत् । सः पुत्रप्राप्त्यर्थं महायागम् एकम् अकरोत् । यागस्य अन्ते देवी सावित्री प्रत्यक्षा अभवत् । राजा अश्वपतिः देवीं पुत्रभाग्यं ददातु इति प्रार्थयत । परन्तु देवी उक्तवती - “हे राजन्, ब्रह्मदेवस्य आज्ञया अहं तुभ्यं कन्याभाग्यं ददामि । सा कन्या तव कुलस्य कल्याणं करिष्यति” । इति उक्त्वा देवी सावित्री अदृश्या अभवत् । किञ्चित् कालानन्तरं अश्वपतिराजस्य कन्या जाता । सावित्रीदेव्याः वरप्रसादात् जाता इति कन्यायाः नामकरणम् अपि सावित्री इति अभवत् । सा अनुपमसुन्दरी तेजस्विनी आसीत् ।यदा सावित्री युवती अभवत् तदा राजा अश्वपतिः तस्याः विवाहं कर्तुं चिन्तितवान् । परन्तु सावित्र्याः तेजःप्रकाशं दृष्ट्वा कश्चित् अपि युवकः विवाहार्थं सिद्धः न अभवत् । स्वयमेव योग्यवरस्य अन्वेषणं करोतु इति राजा पुत्रीम् उक्तवान् । सावित्री सचिवैः सह रथारूढा अनेकदेशान् अटितवती । यदा सा स्वनगरं प्रत्यागता तदा अश्वपतिराजस्य समीपे देवर्षिः नारदः आसीत् । पिता अश्वपतिः पृष्टवान् -
अश्वपतिः - पुत्रि सावित्रि, किं भवत्या योग्यवरः प्राप्तः?
सावित्री - आम् । शाल्वदेशस्य राजा आसीत् द्युमत्सेनः । केनचित् कारणेन सः अन्धः अभवत् । तस्य राज्यम् अपि नष्टम् । सः इदानीं वने पत्नीपुत्रसहितः निवसति । तस्य पुत्रस्य नाम सत्यवान् । सः धर्मपरायणः गुणवान् च । मम अनुरूपः वरः ।
अश्वपतिः - नारदमहर्षे, अस्मिन् विषये भवतः अभिप्रायः कः?
नारदः - महाराज, सत्यवान् गुणवान् धर्मतत्परः च । तस्य कुलम् अपि उत्तमम् । परन्तु एकः एव दोषः अस्ति । एकसंवत्सरानन्तरं तस्य मरणं भविष्यति ।
अश्वपतिः - पुत्रि सावित्रि, सत्यवान् अल्पायुः । अतः भवती अन्यवरस्य अन्वेषणं करोतु ।
सावित्री - दीर्घायुः भवतु वा अल्पायुः । सत्यवता सह मम मनसा वरणं जातम् । तं विहाय अन्येन सह अहं विवाहं न करोमि ।
अस्तु इति अश्वपतिः वनं गत्वा वैभवेन सत्यवता सह सावित्र्याः विवाहं कारितवान् । वने सावित्री श्रद्धया श्वशुरयोः पत्युः च सेवां कृतवती । यदा संवत्सरस्य समाप्तिकालः आगतः तदा सा कठिनव्रतस्य अनुष्ठानं कृतवती । संवत्सरस्य अन्तिमदिनम् आगतम्। सत्यवान् काष्ठफलादिसंग्रहार्थं वनं गतवान् । तेन सह सावित्री अपि गतः । परशुना वृक्षं छिन्दमानः सत्यवान् परिश्रान्तः । सः सावित्र्याः उत्सङ्के शिरः दत्त्वा निद्राम् अगच्छत् । तदा तत्र श्यामवर्णः रक्तनेत्रः पुरुषः प्रत्यक्षः अभवत् । तस्य हस्ते पाशः आसीत् । तदा
सावित्री - कः भवान्?
यमः - अहं यमः । तव पत्युः आयुः समाप्तम् । अतः तस्य प्राणहरणं करोमि ।
सावित्री - प्राणहरणार्थं यमदूताः आगच्छन्ति इति श्रुतम् । भवान् स्वयं कथम् आगतः?
यमः - सत्यवान् बहु धर्मपरायणः इति अहं स्वयम् एव आगतः ।
इति उक्त्वा यमः पाशेन सत्यवतः प्राणान् अपहृतवान् । यमः ततः स्वलोकं प्रति प्रयाणम् अकरोत् । सावित्री यमम् अनुसृत्य चलितुम् आरम्भं कृतवती । तदा
यमः - सावित्रि, भवती निर्गच्छतु । पत्युः अन्त्यसंस्कारं करोतु ।
सावित्री - यत्र मम पतिः गच्छति तत्र मया गन्तव्यम् । एषः एव सनातनधर्मः । व्रतस्य बलात् मम गमने निरोधः न भवति ।
यमः - तव वचनेन अहं सन्तुष्टः । वरम् एकं प्रार्थयतु ।
सावित्री - मम श्वशुरः अन्धः । सः राज्यभ्रष्टः । तस्य दृष्टिप्राप्तिः भवेत् ।
यमः - अस्तु । तथैव भवति । भवती निर्गच्छतु । वृथा परिश्रमः मास्तु ।
सावित्री - यत्र मम पतिः अस्ति तत्र मम कुतः परिश्रमः? सत्पुरुषाणां सङ्गतिः बहु उत्तमा । तैः सह मित्रत्वं फलदायकं भवति ।
यमः - तव वचनं बहु हितकरम् । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - मम श्वशुरः राज्यभ्रष्टः । तस्य पुनः राज्यप्राप्तिः भवेत् ।
यमः - अस्तु । तथैव भवति । भवती निर्गच्छतु । श्रमेण अलम् ।
सावित्री - अनुग्रहः दानं सर्वभूतेषु दया च सत्पुरुषाणां महाधर्मः ।
यमः - तव वचनम् अमृततुल्यम् । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - मम पितुः पुत्राः न सन्ति । तस्य शतं पुत्राः भवेयुः ।
यमः - अस्तु । तथैव भवति । भवती बहु दूरम् आगता । इतः निर्गच्छतु ।
सावित्री - यमदेव, भवान् सूर्यपुत्रः । भवान् धर्मराजः । सत्पुरुषेषु जनाः विशेषतः विश्वासं कुर्वन्ति ।
यमः - तव शुभवचनेन अहं प्रसन्नः । सत्यवतः जीवनं विहाय अन्यं वरं प्रार्थय ।
सावित्री - देव, मम तथा सत्यवतः शतं पुत्राः भवेयुः ।
यमः - तथैव भवति । इदानीं निर्गच्छतु ।
सावित्री - सत्पुरुषाः धर्ममार्गात् न स्खलन्ति । ते सत्यं न त्यजन्ति । तेषां प्रभावेण लोके उत्तमकार्याणि भवन्ति ।
यमः - तव वचनं धर्मयुक्तम् । पुनः एकं वरं प्रार्थय ।
सावित्री - देव, भवता दत्तः वरः सफलः भवतु । मम दाम्पत्येन शतं पुत्राः भवेयुः । तस्य कृते सत्यवान् जीवितः भवतु । तेन विना अहं किमपि सुखं न इच्छामि ।
यमः - तव वचनेन प्रसन्नः अहं सत्यवतः जीवनं पुनः ददामि । तव पतिः दीर्घायुः भवति । शतं पुत्राः भविष्यन्ति । ते सावित्राः इति प्रसिद्धाः भविष्यन्ति ।
इति उक्त्वा यमः स्वलोकं गतवान् । सत्यवान् पुनः जीवितः अभवत् । तस्य पिता द्युमत्सेनः दृष्टिं प्राप्य पुनः स्वराज्यं प्राप्तवान् । सावित्र्याः पिता राजा अश्वपतिः शतं पुत्रान् प्राप्तवान् । सावित्री सत्यवान् अपि शतं पुत्रान् प्राप्य सुखेन निवासं कृतवन्तौ ।
English Translation:
(As in Mahabharatam - Vanaparva)
In olden days, in Madra kingdom, there was a king by the name Ashvapati. He did a great sacrificial ritual to obtain a son. At the end of the ritual, Goddess Savitri appeared. King Ashvapati prayed the goddess to provide him with a son. But the goddess said - “Hey king, by the order of God Brahma, I will give you a girl. That girl do good to your lineage”. Saying this, Goddess Savitri disappeared. After sometime, a girl was born to the king Ashvapati. Because she was born from the boon of Goddess Savitri, the girl was also named Savitri. She was extremely beautiful and radiant.
When Savitri turned young, the king Ashvapati thought of marrying her off. But seeing the brilliance of Savitri, no boy was ready the marriage. The king said the daughter to find a suitable boy for herself. Savitri roamed many countries in a chariot accompanied by ministers. When she returned to her city, the divine saint Narada was with the king Ashvapati. The father Ashvapati asked -
Ashvapati - Daughter Savitri, was a suitable groom found by you?
Savitri - Yes, Dyumatsena was the king of Shalva country. For some reason, he became blind. His kingdom was also lost. He now lives in a forest with his wife and son. His son’s name is Satyavan. He is noble and man of good characters. He is my suitable groom.
Ashvapati - Saint Narada, in this matter, what is your opinion?
Narada - King, Satyavan is noble and of character. His family is also good. But there is only one problem. After one year, his death will happen.
Ashvapati - Daughter Savitri, Satyavan has a short life. Therefore, you find a different groom.
Savitri - Let him be of long life or short life. With Satyavan, my mental marriage has taken place. Other than him, I won’t marry another boy.
Ashvapati said okay, went to the forest and grandly married off Savitri to Satyavan. In the forest, Savitri devotedly served the in-laws and the husband. When the end of the year came near, she observed a difficult vow. The last day of the year came. Satyavan went to the forest to fetch sticks and fruits. With him, Savitri also went. While cutting a tree with axe, Satyavan became tired. He rested his head on Savitri’s thigh and went to sleep. Then, there a dark-colored, red-eyed person appeared. He had a rope in his hand. Then
Savitri - Who are you?
Yama - I am Yama. Your husband’s lifetime is over. Therefore, I will take aways his soul.
Savitri - To take away the soul, it is heard that Yama’s representatives come. How come you came in person?
Yama - Satyavan is a very noble person, so I came in person.
Saying thus, Yama took away the soul of Satyavan with the rope. From there, Yama traveled towards his abode. Savitri started walking following Yama. Then
Yama - Savitri, you go back. Do the last rites of your husband.
Savitri - I should go where my husband goes. This is the right thing to do. Because of power of my vow, my movement is not restricted.
Yama - I am pleased by your talk. Ask for a boon.
Savitri - My father-in-law is blind. Let him get his ability to see.
Yama - Okay, it will be so. You go back. Let there be unnecessary exhaustion.
Savitri - Where there is my husband, how can I be exhausted? Company of good people is very nice. Friendship with them is useful.
Yama - Your talk is very good. Except for the life of Satyavan, ask some boon.
Savitri - My father-in-law has lost his kingdom. He should get his kingdom back.
Yama - Okay, it will happen. You go back to. Enough of your effort.
Savitri - Bestowing upon others, giving away and mercy are the great characters of good people.
Yama - Your words are great. Except for the life of Satyavan, ask for a boon.
Savitri - My father does not have sons. Let there be a hundred sons of him.
Yama - Okay. It will be so. You came a long way. Go away from here.
Savitri - O God Yama, you are the son of God Sun. You are the god of righteousness. People especially trust good people.
Yama - I am pleased with your nice words. Except for the life of Satyavan, ask for a boon.
Savitri - O God, let there be a hundred sons of me and Satyavan.
Yama - It will be so. Now, go away.
Savitri - Good people do not deviate from the path of righteousness. They do not abandon truth. Because of them, good work happens in this world.
Yama - Your words have virtue in them. Ask for a boon again.
Savitri - God, let the boon given by you come true. Out of my marriage, let there be a hundred sons. For that, let Satyavan live. Without him, I do not wish any kind of happiness.
Yama - Pleased by your words, I am giving back the life of Satyavan. Your husband will have long life. You will have a hundred sons. They will be famous as Savitras.
Saying thus, Yama went to his abode. Satyavan came back to life again. His father Dyumatsena gained his vision and obtained his kingdom again. Savitri’s father King Ashvapati obtained a hundred sons. Savitri and Satyavan also got a hundred sons and lived happily.
No comments:
Post a Comment