(शानच्-प्रत्ययप्रयोगः - आसीन-रूपसिद्धिः च)
आसीद् एकः बालः ईदासो नामकः | तस्य मित्रं मैदासः | एकदा ईदासः मित्रेण सह मेलनं चिन्तयमानः तस्य गृहं प्रस्थितवान् | डयमानानां पक्षिणां कलरवं शृण्वन् सः मार्गं क्रान्तवान् | पन्थानम् उभयतः आच्छादयमानेषु महावृक्षेषु कूर्दमानान् वानरान् अपि सः दृष्टवान् | किञ्चिद्दूरं चलित्वा श्रान्तः ईदासः पाथेयं भक्षमाणः सः पार्श्वस्थे आपणे शाकानि क्रीणानाः महिलाः अपश्यत् | आतपेन पीडितः सः तरुमूले सुखेन शयानः आनन्दितवान् | किञ्चित् कालानन्तरं सः उत्थाय कम्पमानान् पादपान् वीक्षमाणः मार्गं क्रमित्वा मैदासगृहं प्राप्तवान् | संध्याकाले जायमाने आगतं मित्रं दृष्ट्वा मैदासः स्वागतं कुर्वाणः ईदासम् आलिङ्गितवान् | मैदासः पचमानायाः भगिन्याः मधुरं खाद्यम् आदाय ईदासं दत्तवान् | मैदासः मित्रं शोभमानम् आसनं दर्शयमानः अवदत् | भो मित्र आसानो त्वं मधुरं खाद इति |
ईदासः स्मयमानः अवदत् - प्रिय मित्र | आसीन इति पदं प्रयोक्तव्यम् | आसान इति प्रयोगः अशुद्धः |
लजमानः मैदासः मित्रं पृष्टवान् - कथं तथा मित्र ? वृत्-धातोः शानजन्तरूपं वर्तमानः | मनु-धातुः शानच्-प्रत्यये परे मन्वानः भवति | अधि-पूर्वकः इङ्-धातुः अधीयानः भवति | ब्रू-धातुः ब्रुवाणः भवति | वस्-धातुः वसानः दा-धातुः ददानः ईश्-धातुः ईशानः च भवन्ति | तर्हि आस्-धातोः शानजन्तरूपम् आसानः इति भवेत् खलु ?
खाद्यं भक्षयमाणः ईदासः अवदत् - अयि सखे | आस्-धातोः विषये विशिष्टं व्याकरणसूत्रम् एकं प्रवर्तमानं विद्यते | तत् सूत्रम् - ईदासः इति |
साश्चर्यं मित्रम् अवलोकमानः मैदासः प्रत्यवदत् - ईदासः इति सूत्रम् ? किञ्चिद् विस्तरेण कथयमानात् तव मुखात् श्रोतुम् इच्छामि |
साश्चर्यं मित्रम् अवलोकमानः मैदासः प्रत्यवदत् - ईदासः इति सूत्रम् ? किञ्चिद् विस्तरेण कथयमानात् तव मुखात् श्रोतुम् इच्छामि |
सूत्रार्थं वर्णयमानः ईदासः अवदत् - सत्यम् | ईदासः इति पाणिनीयसूत्रम् | आसः ईत् इत्यन्वयः | आस्-धातोः शानच्-प्रत्यये परे आ-स्थाने ई इति आदेशः भवति इति सूत्रस्य अर्थः | तदा आस् अनन्तरम् ई योजयमानाः विबुधाः आसीनः इति पदरूपं प्राप्नुवन्ति |
आनन्दं भावयमानः मैदासः अवदत् - साधु मित्र | नूनं वन्द्यमानः पाणिनिः |
एवम् ईदासमैदासौ कथाविनोदादिषु रममाणौ शिष्टसंध्यासमयं यापितवन्तौ |
No comments:
Post a Comment