Friday, August 26, 2016

Present Tense and Future Tense Forms

Third Person Singular (प्रथमपुरुष,एकवचन) forms in present tense and future tense of some of the verbs are given below.
As you see, the suffix "स्यति" is added to the verb root to derive the future tense form.
Verb Root
(धातुः)
Meaning Present Tense
वर्तमानकाल
(लट् लकार)
Future Tense
समान्यभविष्यत्काल
(लृट् लकार)

गम
go गच्छति गमिष्यति
पठ read पठति पठिष्यति
क्रीड play क्रीडति क्रीडिष्यति
खाद eat खादति खादिष्यति
भू be भवति भविष्यति
कृ do करोति करिष्यति
पा drink पिबति पास्यति
स्था stand तिष्ठति स्थास्यति
दृश see पश्यति द्रक्ष्यति
दा give ददाति दास्यति
प्रच्छ ask पृच्छति प्रक्ष्यति
ज्ञा know जानाति ज्ञास्यति
त्यज abandon त्यजति त्यक्ष्यति
शक able शक्नोति शक्ष्यति
ग्रह take गृह्णाति ग्रहीष्यति
मिल join मिलति मेलिष्यति
लिख write लिखति लेखिष्यति
नी carry नयति नेष्यति
वद talk वदति वदिष्यति
रुद cry रोदिति रोदिष्यति
क्री buy क्रीणाति क्रेष्यति
श्रु hear शृणोति श्रोष्यति
वस live वसति वत्स्यति
विश enter विशति वेश्यति
उपविश sit उपविशति उपवेक्ष्यति
प्राप obtain प्राप्नोति प्राप्स्यति
चल move चलति चलिष्यति
गै sing गायति गास्यति
इष wish इच्छति एषिष्यति
प्रक्षाल wash प्रक्षालयति प्रक्षालयिष्यति
स्मृ remember स्मरामि स्मरिष्यति
नृत् dance नृत्यति नर्तिष्यति

Thursday, August 25, 2016

Krishna Janmashtami - Quiz (श्रीकृष्णजन्म प्रश्नमाला)

Note: There are total 10 questions. After answering all the questions, click the Submit button at the bottom. And then click the link "View your score". You may have to scroll up to see this link.

Saturday, August 20, 2016

Swami Vivekanand and Raja Mangal Singh

स्वामी विवेकानन्दः तथा राजा मङ्गलसिंहः

भारतदेशे विवेकानन्दः नाम महान् तत्वज्ञानी बभूव | तस्य विषये अनेकाः कथाः आख्यानकाश्च प्रचलिताश्च सन्ति | अथैव एका घटना अत्र निरूप्यते |

एकदा देशभ्रमणरतः विवेकानन्दः १८९१तमे वत्सरे आलवारप्रदेशं प्राप्तः यत्र मङ्गलसिंहः राजा आसीत् | राजा धर्मभीरुरपि पाश्चात्यसंस्कृतिप्रभावितमतिरसीत् | मङ्गलसिंहः विवेकानन्दस्य यथाविधिस्वागतं कृत्वा राजभवने सभामेकाम् आयोजयत |
सभायां स राजा ऋषिमुनीनां जीवनम् अर्थहीनमिति प्रतिपादयत | विवेकानन्दः कामलोलुप्तजीवनं निरर्थकमिति उवाच | व्यग्रो राजा मूर्तिपूजापि मौढ्यमेव इति प्रत्यवदत् | मूर्तिस्तु निर्जीवः पाषाणमृण्मयरित्यपि भर्त्सयामास | तदा विवेकानन्दः परितः अवलोकयन् भित्तौ विलम्बितं भावचित्रमेकं ददर्श |

एतत् कस्य चित्रमिति पृष्टवान् | एतन्मम दिवङ्गतस्य पितुः चित्रमिति मङ्गलसिंहः उवाच | विवेकानन्दः तस्य भावचित्रस्य उपरि निष्ठीवनं कर्तुं राजमवदत् | मङ्गलसिंहः क्रुद्धः तत्तु मम परमादरणीयपितुः पूर्वमहारजस्य चित्रमस्ति, कथं निष्ठीवनं उक्तमिति | विवेकानन्दः स्मयन् तमुवाच कुत्रस्ते पिता, एतत्तु निर्जीवं चित्रं कागदमेव, तथापि श्रद्धवता त्वया पिता दृश्यते | एतावदेव भक्ताः श्रद्धया भावयन्तः शिलामूर्तिष्वपि भगवन्तमेव अनुभवन्ति | अतः अनुभवः एव मुख्यः इति सिद्ध्यते | तदा राजा मङ्गलसिंहः लज्जितः विवेकानन्दस्य बहु सम्मानं चकार |

Thursday, August 18, 2016

Why study Sanskrit?

Here is an eye-opening article on why to study the Sanskrit language, its global importance, its benefits for adults and children even if they know other languages.
(Contributed by the study circle of J.S.Sastry jssastry@gmail.com who conducts Sanskrit coaching through email.)

Wednesday, August 17, 2016

विश्वसंस्कृतदिवसः (World Sanskrit Day) 2016

17 August 2016
अद्य विश्वसंस्कृतदिवसः | अस्मिन् सन्दर्भे विनोदार्थे एका प्रश्नमालिका अत्र स्थापिता | प्रयत्नं कुरुत |
Today is World Sanskrit Day. Why not celebrate it by trying the simple quiz below?
Note: There are total 9 questions. After answering all the questions, click the Submit button at the bottom. And then click the link "View your score". You may have to scroll up to see this link.

Sunday, August 14, 2016

Story of King Ambarish (अम्बरीषराजस्य कथा)

भगवद्भक्तिप्रभावनिरूपणम्
(श्रीमद्भागवतपुराणे नवमस्कन्दे अध्याय ४-५)

पुरा अम्बरीष नाम राजा अभवत् | सः महान् चक्रवर्तिः अपि परमविष्णुभक्तः संसारे असक्तहृदयः आसीत् | नृपतेः भक्त्या सदाचारेण च सुप्रीतः भगवान् नारायणः स्वकीयं दिव्यायुधं सुदर्शनचक्रं तस्य संरक्षणाय न्ययोजयत | भागवतः सः राजा द्वादशीव्रतं प्रतिपक्षं आचरति स्म | व्रतनियमानुसारेण पक्षस्य एकादश्यां तिथौ निराहारो भूत्वा द्वादशे दिने प्रातः नियतकाले एव भोजनं करणीयम् | इयं विधिः पारणम् इति कथ्यते | अन्यथा व्रतभङ्गः भवेत् |

अथैव स भूपः एकदा व्रतोत्तममिदम् आचरन् द्वादश्यां प्रातः पारणं कर्तुम् उद्युक्तः | तदा तत्र दुर्वासोमुनिः आगतः | तं मुनिश्रेष्ठं दृष्ट्वा राजा सादरम् आतिथ्यं कृत्वा भोजनार्थं प्रार्थयामास | सः ऋषिः स्नाननिमित्तेन नदीं गतः बहुकालव्यतीतोपि न प्रत्यागतवान् | पारणकृते अत्यल्पसमयावशिष्टे राजा अम्बरीषः भग्नव्रतः भवेयम् इति चिन्तितः | यदि ब्राह्मणेन विना आहारं अभोक्ष्ये तर्हि तस्य अपमानं अभविष्यत् इत्यपि चिन्ताक्रान्तः | ततोऽपि विप्राः अम्बुभक्षणम् अशितं तथा नाशितम् इति प्राहुः | एवं विचिन्त्य सः राजा मनसि नारायणं ध्यात्वा किञ्चित् जलमपिबत् |

तदनन्तरं दुर्वासोमुनिः राजभवनं प्रत्यागत्य नृपस्य जलप्राशनविषयं दिव्यद्रुष्ट्या अवगतवान् | स्वस्य अपमानम् अभवत् इति क्रोधमूर्छितः ऋषिः तपःशक्त्या जटाकेशेन राक्षसीमेकां निर्ममे | सा राक्षसी अम्बरीषं हन्तुम् उद्युक्ता |

तदा सुदर्शनचक्रं प्रकटीभूत्वा तां क्रुद्धां राक्षसीं ददाह | दुर्वासोमुनिः भीतः ततः अधावत् | तत् चक्रायुधमपि तं अनुगतम् | सः मुनिः अनेकलोकान् भ्रमन् चतुर्मुखब्रह्मणः तथा महाशिवस्य समीपे अपि स्वरक्षणार्थं गतवान् | उभावपि परमपुरुषविष्णोः चक्रात् मुनिं पातुं असामर्थ्यं दर्शितौ | तदा मुनिः वैकुण्ठस्थितं महाविष्णुमेव आश्रितवान् | भगवान् नारायणः स्वयं भक्ताधीनः इति वदन् अम्बरीषराजामेव शरणं गन्तुं आदिदेश |


दुर्वासोमुनिः द्रुतमेव अम्बरीषस्य सकाशं गत्वा भागवतश्रेष्ठस्य पादस्पर्शं अकरोत् | अम्बरीषस्तु निर्मलमतिः महामुनेः पादस्पर्शेन लज्जितः तं प्रणम्य सुदर्शनचक्रं नारायणं च स्तुतवान् | सुदर्शनचक्रं शान्तं बभूव | भगवद्भक्तिप्रभावं जानन् मुनिः स्वधामं जगाम |

Saturday, August 13, 2016

Grammar and Exercises Sections

New sections: Grammar and Exercises have been added to the site.

Grammar section contains useful glossary, noun declensions, verb conjugations and more.

Exercises section currently contains Ramayan Sundarkand Sarga 30 pada anvaya with links to nouns and verbs.

Monday, August 8, 2016

अभ्यासपुस्तकम् (11.2) Word Forms

Forms of words appearing in Lesson 11.2 (page #39) of Abhyasapustakam (Orange Book - Samskrita Bharati)
शब्ददर्पणः
Note:
नामपद = noun
क्रियापद = verb
प्रातिपदिक = root word of noun
धातु = root word of verb
पु = पुल्लिङ्ग (masculine)
स्त्री = स्त्रीलिङ्ग (feminine)
न = नपुंसकलिङ्ग (neuter)
लकार = काल (tense)
लङ् = भूतकाल (past tense)
विभक्ति and लिङ्ग apply to नामपद only. लकार and पुरुष apply to क्रियापद only. अव्यय words do not have लिङ्ग, विभक्ति or वचन
शब्द नामपद/
क्रियापद/
अव्यय
प्रातिपदिक/
धातु
लिङ्ग विभक्ति/
लकार
पुरुष वचन Meaning Word Reference
रङ्गनाथ ना रङ्गनाथ पु संबोधन - एक Hey Ranganatha राम
ह्यः  -  -  -  -  - yesterday
भवान् ना भवत् पु प्रथमा - एक you भवत्
कुत्र - - - - - where
आसीत् क्रि अस - लङ् प्रथम एक were (you) अस
अहम् ना अस्मद् - प्रथमा - एक I अस्मद्
मित्रस्य ना मित्र षष्ठी - एक of friend वन
आसम् क्रि अस - लङ् उत्तम एक (I) was present अस
तत्र - - - - - there
कः ना किम् पु प्रथमा - एक who किम्
विशेषः ना विशेष पु प्रथमा - एक special राम
जयरामः ना जयराम पु प्रथमा - एक Jayarama राम
अनन्तः ना अनन्त पु प्रथमा - एक Ananta राम
रामकृष्णः ना रामकृष्ण पु प्रथमा - एक Ramakrishna राम
इति - - - - - so
आदयः ना आदि पु प्रथमा बहु etcetera हरि
आसन् क्रि अस - लङ् प्रथम बहु (they) were present  अस
वा - - - - - is it?
आम् - - - - - yes
सर्वे ना सर्व पु प्रथमा - बहु all सर्व
अपि - - - - - also
भवतः ना भवत् पु षष्ठी - एक your भवत्
गृहतः - - - - - from house
के ना किम् पु प्रथमा - बहु who किम्
गतवन्तः ना गतवत् पु प्रथमा - बहु (the ones who) went भवत्
वयम् ना अस्मद् - प्रथमा - बहु we अस्मद्
आस्म क्रि अस - लङ् उत्तम बहु (we) were present अस

Sunday, August 7, 2016

Sanskrit Alphabets Pronunciation

The following chart and image show the place from where different Sanskrit alphabets have their origins in the mouth for pronunciation.






Wednesday, August 3, 2016

Basic Grammar - 1 (व्याकरणम् - भाग १)

Click here to download Shabda Manjari book


अकारान्त पुल्लिङ्ग राम शब्दः (page #15 in Shabda Manjari)
विभक्ति एकवचन द्विवचन बहुवचन  Meaning
१. प्रथमा रामः रामौ रामाः rAma
२. द्वितीया रामम् रामौ रामान् to rAma 
३. तृतीया रामेण रामाभ्याम् रामैः by rAma 
४. चतुर्थी रामाय रामाभ्याम् रामेभ्यः for rAma 
५. पञ्चमी रामात् रामाभ्याम् रामेभ्यः from rAma 
६. षष्ठी रामस्य रामयोः रामाणाम् of rAma 
७. सप्तमी रामे रामयोः रामेषु in rAma 
८. संबोधना हे राम हे रामौ हे रामाः hey rAma 

आकारान्त स्त्रीलिङ्ग रमा शब्दः (page #21 in Shabda Manjari)
विभक्ति एकवचन द्विवचन बहुवचन  Meaning
१. प्रथमा रमा रमे रमाः ramA
२. द्वितीया रमाम् रमे रमाः to ramA 
३. तृतीया रमया रमाभ्याम् रमाभिः by ramA 
४. चतुर्थी रमायै रमाभ्याम् रमाभ्यः for ramA 
५. पञ्चमी रमायाः रमाभ्याम् रमाभ्यः from ramA 
६. षष्ठी रमायाः रमयोः रमाणाम् of ramA 
७. सप्तमी रमायाम् रमयोः रमासु in ramA 
८. संबोधना हे रमे हे रमे हे रमाः hey ramA 
पठ (to read) धातु वर्तमानकाल (लट् लकार)
(page #112 in Shabda Manjari - like भवति)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति he, she, it
मध्यम पुरुष पठसि पठथः पठथ you
उत्तम पुरुष पठामि पठावः पठामः I, we

पठ (to read) धातु भूतकाल (लङ् लकार)
(page #112 in Shabda Manjari - like अभवत्
एकवचनद्विवचनबहुवचन
प्रथम पुरुषअपठत्अपठताम्अपठन्he, she, it
मध्यम पुरुषअपठःअपठथम्अपठथyou
उत्तम पुरुषअपठम्अपठावअपठामI, we

Monday, August 1, 2016

सिण्डरेला कथा (Cinderella Story)


पुरातनकाले एकः सज्जनः आसीत् | तस्य द्वितीया भार्या अतीव दर्पाभिमानयुक्ता आसीत् | एतस्याः भार्यायाः पूर्वसम्बन्धात् द्वे पुत्र्यौ | ते अपि स्वमातृसदृशे दर्पादिगुणयुक्ते | सज्जनस्य अपि पूर्वविवाहकारणात् एकं कन्यारत्नम् आसीत् | सा कन्या सुन्दरी सुगुणसम्पन्ना मृदुभाषिणी च | नाम तस्याः सिण्डरेला |



सिण्डरेलायाः विमाता दुष्टमतिः सिण्डरेलां सर्वेषु निकृष्टेषु गृहकार्येषु नियोजयति स्म | यथा वस्त्रप्रक्षालनं भूभागसंमार्जनं भाण्डादिधावनम् इत्यादीनि | विमातुः पुत्र्यौ तु सुखेन वसति स्म | ततोsपि सिण्डरेला शान्तभावेन न किञ्चिदपि प्रतिवदन्ती विमातुः तस्याः पुत्र्योः च दुष्करां सेवां करोति स्म | क्षीणवदना मलिनवस्त्रधारिणी अपि जातसुन्दरी चारुहासिनी सा नेत्रानन्दकरिणी आसीत् |
एकदा तस्य राज्यस्य युवराजः नृत्यक्रीडोत्सवम् एकम् आयोजयन् निमन्त्रणपत्रान् राज्ये महाजनकृते प्रेषितवान् | सिण्डरेलायाः अन्योदर्यौ अपि निमन्त्रणं स्वीकृत्य हर्षिते अभवतः | ते सज्जताम् औत्सुक्येन आरभताम् | उत्सवार्थं वस्त्रचयनकार्ये सुमग्नं तत् कन्याद्वयम् | सिण्डरेला एव तयोः अंशुकयुतककञ्चुकादीनि स्वहस्ताभ्यां स्यूतवती | तयोः केशालङ्कारम् अपि कृतवती | इति सिण्डरेलया अलङ्कृते ते कन्ये तस्याः भर्त्सनम् अपहासमपि कुर्वत्यौ राजमार्गम् अनुसृत्य नृत्यक्रीडोत्सवम् जग्मतुः | सिण्डरेला तु अश्रुपूर्णा खिन्ना बभूव |